________________
७९९-८०३ ]
१ तदिति अभ्यासादनम्, रात्रौ निशि, सुप्तेषु भवं सौप्तिकम् । अध्यात्मादित्वाद् ठक् । एकं 'रातीवाहा' इति
ख्यातस्य ॥
व्युत्पत्तिरत्नाकरकलिता
वीराशंसनं त्वाजिभीष्मभूः । १ वीरा आशंस्यन्तेऽत्र वीराशंसनम् । 'शंस स्तुतौं', ( ), अधिकरणे ल्युट् क्लीबे । “सा वीराशंसनी युद्धभूमिर्याऽतिभयप्रदा ''[ अमरकोषः २ ।८ ॥१०० ॥ ] इत्यमरः स्त्रियामाह । आजेः सङ्ग्रामस्य भीष्मा अतिभयङ्करा भूभूमिः आजिभीष्मभूः । एकं रणक्षेत्रस्य ॥
१० नियुद्धभूरक्षेवाटः
१ नियुद्धस्य भुजजातसङ्ग्रामस्य भूः नियुद्धभूः, अक्ष मल्लानां युद्धव्यवहारः, तस्य वाटः अक्षवाटः I एकं 'मल्लाखाढा' इति ख्यातस्य ॥
मौहो मूर्च्छा च कश्मलम् ॥८०१॥
१ मोहनं मोहः । 'मुह वैचित्ये' (दि.प.से.), भावे घञ् । २ मूर्च्छनं मूर्च्छा । 'मूर्च्छा मोहसमुच्छ्राययो: ' (भ्वा.प.से.), 'गुरोश्च हलः '३ । ३ । १०२ ॥ इत्यप्रत्ययः, 'उपधायाश्च(-यां च) ८ ।२ ७८ ॥ इति दीर्घत्वम् । ३ कशति
गच्छति चिरं न तिष्ठति कश्मलम् । 'कश गतौ ' (अ.आ.२० से.), 'कुटेः क्मरच् (क्मलच्) ' (चान्द्रोणा - ३ | ४८ ॥ ) इति बाहुलकात् क्मरच् (क्मलच्) । "कशिः सौत्रो धातुः "[] इति सुभूत्यादय: । शयनशमनशीलं कश्मलं शुंभलं (शृङ्खलं ) च "[] इति शभेदात् तालव्यशम् । सङ्ग्रा प्रहारात् मोहो वैचित्यं मूर्च्छा मूर्च्छनम्, तयोर्नामैकं कश्मलमिति ॥ ८०१ ॥
वृत्ते भाविनि वा युद्धे पानं स्याद् वीरपाणकम् ।
१ वृत्ते अङ्गीकृते रणे, भाविनि भविष्यति वा रणे, रणजनितश्रमशान्तये वीराणां यन्मद्यादिपानम्, तद् वीरकर्तृत्वाद् वीरपाणम् । 'वा भावकरणयोः '८ ।४ । १० ॥ इति णत्वम् । ३० वीरपानं वा । " वीरपानं (वीरपाणं) तु यत्पानं वृत्ते भाविनि
३५५
वा रणे''[अमरकोषः २ १८ । १०३ ॥ ] इत्यमरः । वृत्तशब्दोऽत्र चतुर्थवर्गाद्यद्वयोपधो वृत्तार्थ: । "वृत्ते तु वृत्तव्यावृत्तौ "[] इत्याचार्याः । “वृत्तस्तु वर्तुलेऽतीते मृतेऽधीते दृढे वृते" [विश्वलोचनकोशः, तान्तवर्ग:, श्रो- ५६ ] इति श्रीधरः । एकं [वृत्ते भाविनि वा युद्धे यत्पानम्, तस्य] ॥ पलायनमपयानं संदावद्रवविद्रवाः ॥८०२ ॥
Jain Education International
अपक्रमः समुत्प्रेभ्यो द्रावः
१ पलाय्यते पलायनम् । 'अय गतौ ' (भ्वा.आ.से.), परापूर्वः, ल्युट्, 'उपसर्गस्यायतौ ८ । २ । १९ ॥ इति लत्वम् । २ अपसृत्य यायते अपयानम् । अपपूर्वः 'या प्रापणे' (अ.प.अ.), ल्युट् । ३ संदवनं संदावः । 'दु गतौ ' (भ्वा.प.अ.), 'समि द्रुव : ३ | ३ |२३ ॥ इति घञ् । ४-५ द्रवणं द्रवः । विद्रवणं विद्रवः । 'द्रु गतौ ' (भ्वा.प.अ.), 'ऋदोरप् '३ । ३ ।५७ ॥ इत्यप् ॥८०२ ॥ ६ अपावृत्य क्रमणम् अपक्रमः । भावे घञ्, 'नोदात्तोपदेश- ७।३।३४ ॥ इति निषेधाद् वृद्ध्यभावः । ७-९ समुत्प्रेभ्यः परैः द्राव:, संद्रवणं संद्रावः । 'द्रु गतौ' (भ्वा.प.अ.), 'समि द्रुदर्व: '३ । ३ । २३ ॥ इति घञ् । उद्द्रवणम् उद्भावः । 'उदि श्रयति- '३ । ३ ।४९ ॥ इत्यादिना घञ् । प्रद्रवणं प्रद्रावः । ' द्रुस्तुस्रुवः '३ | ३ | २७ ॥ इति घञ् । नशनमपि, तालव्यमध्यम् । नव पलायनस्य । 'नासवर्ड' इति भाषा ॥
५०
अथ विजयो जयः ।
१३
१-२ विजयनं विजयः । जीयते जयः । 'जि जये' (भ्वा.प.अ.), 'जि अभिभवे' (भ्वा.प.अ.) वा, उभयत्र घ । द्वे यस्य ॥
पराजयो रणे भङ्गः
१ पराजयनं पराजयः । भावे घञ् । रणे सङ्ग्रामे भङ्गोऽपसरणम्, अन्यत्राऽप्युपचारात् । एकं पराजयस्य ॥ डमरे डिम्बविप्लवौ ॥८०३॥
१. ‘आङ: शसि इच्छायाम् ' (भ्वा.आ.से.) इति क्षीरतरङ्गिण्यादयः ॥ २. 'अक्षौ' इतिर, 'अक्षानां' इति४ ॥ ३. 'युद्धस्य' इति ॥ ४. 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् च' ( उणादिगणसूत्रम् - १०६ ) इत्युणादिगणसूत्रस्वरूपम् ॥ ५. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग:, श्रो- ५६३, पृ.६४६॥ ६. ‘-व्यं शम्' इति३.४ ॥ ७. ' - त्त्यर्थः' इति४ ॥ ८. स्वोपज्ञटीकायामिदमुद्धरणं न दृश्यते ॥ ९. ' - ख्याते' इति विश्वलोचनकोशे, पृ. १२८ ॥ १०. 'समि युद्रुदुवः' इत्यष्टाध्याय्याम् ॥ ११. ३प्रतौ नास्ति ॥ १२. 'वो' इति३, 'वौ' इति४ ॥ १३. ३.४प्रत्योर्नास्ति ॥ १४. 'एरच् '३ |३ |५६ ॥ इत्यनेनाऽच् युक्तः ॥
For Private & Personal Use Only
४०
www.jainelibrary.org