________________
३५४
(भ्वा.प.से.), 'इञ (इण) जादिभ्यः ' (वा - ३ । ३ । १०८ ॥ ) इतीं । ३४ संयन्त्यस्यां' समितिः । 'इण् गतौ ' ( अ.प.अ.), ‘स्त्रियां क्तिन्’३।३।९४॥ । ३५ सङ्गिरन्ते सङ्गृह्णन्ति वाऽत्र सङ्गरः । 'गृ निगरणे' (तु.प.से.), [गृ शब्दे' (क्र्या.प.से.) वा] ‘ऋदोरप्’३ ।३ ॥५७॥ इत्यप् । ३६ अभ्यामृद्नन्त्यत्र अभ्यामर्दः । ‘मृद क्षोदे’(क्र्या.प.से.), 'ऋदोरप् ३।३।५७॥ । ३७ सम्यक् परान् शत्रून् यान्ति अयन्ते वाऽत्र घञि सम्परायः, पुंक्ली. । ३८ समीयन्तेऽत्र समीकम् । सम्पूर्वः 'इण् गतौ' (अ.प.अ.) । ३९ सम्परायो मृत्युः प्रयोजनमस्य साम्परायि१० कम् । 'विनयादिभ्यष्ठक् '५ ४ | ३४ ॥ इति ठक् ॥७९८ ॥ ४० आक्रन्दन्ति कातरा अत्र आक्रन्दः । ' [कदि] क्रदि क्लदि वैक्लव्ये' (भ्वा.आ.से.), 'हलश्च '३ | ३ |१२१ ॥ इत्यधिकरणे घञ् । ४१ संयुज्यन्तेऽत्र संयुगम्, पुंक्ली. । 'युजिर् योगे'(रु.उ.अ.), अधिकरणे घञ् । सङ्गता रथंयुगा वा । सामान्यत एकचत्वारिंशत् सङ्ग्रामस्य ॥
अथ विशेषत आह
अभिधानचिन्तामणिनाममाला
अथ नियुद्धं तद्भुजोद्भवम् ।
१ नियतं युद्धं नियुद्धम् । "निगृह्य युद्धं नियुद्ध - मिति वा । ‘“सन्निकृष्टयुद्धं नियुद्धम् "[] इति सुभूतिः । २० युद्धम्, भुजोद्भवं बाहुभिर्जिनितमित्यर्थः । एकं बाहुयुद्धस्य ॥
पटाम्बरौ तुल्यौ
१ पटो हन्यतेऽत्रं पटहः । 'अभ्येभ्योऽपि (अन्येष्वपि - ३ |२| १०१ ॥ इति डः । वाद्यविशेषः । यद् वाचस्पतिः - ‘“महासमरतूर्ये तु पटहाडम्बरावुभौ "[" ] इति । २ आदम्य आडम्बरः, पुंक्ली. एतौ । 'दर्मु उपशमे' (दि.प.से.), डमरवद् दस्य डत्वेऽरचि साधुः । द्वे सङ्ग्रामवाद्यस्य ॥
तुमुलं रणसङ्कुलम् ॥७९९॥
१ ताम्यन्त्यत्रेति तुमुलम् । 'तमु ग्लान' ( ), बाहुलकादुलर्क्, कित्, नैरुक्तस्तकारः । "तुमुलो व्याकुलो
[ मर्त्यकाण्डः-३ रवः ''[हलायुधकोशः १ । १३९ ॥ ]इति त्रिकाण्डम् (हलायुधः ) । ३० "तु इति सौत्रो धातुर्गत्यर्थः, ततः क्विप्, आगमानित्यत्वान्न तुक् । मुरति संवेष्टयति, इगुपधत्वात् कः, तोर्मुरः तुमुरः, कपिरिकादित्वाल्लत्वम्''[" ] इत्यन्ये । रणस्य सङ्कुलं सङ्कीर्णता रणसङ्कुलम् । यद् गौडः - "बिभीतकतरौ पुंसि तुमुलं रणसङ्कुले''[ ]इति । एकं सङ्ग्रामसङ्कीर्णतायाः ॥ नासीरं त्वग्रयानं स्यात्
Jain Education International
१ नासते नासीरम्, स्त्रीक्लीबयोः । यद् गौडः"न नाग्रायाने नासीरम् " [ ] इति । " नासीरोऽस्त्री "[वैजयन्तीकोषः ३ ।७।२०३ ॥ ] इति वैजयन्ती । 'णासृ शब्दे' (भ्वा.आ.से.), बाहुलकात् 'कृशृपू (पृ) कटिपटि - ' ( उणा - ४० ४७० ) इत्यादिना ईरन् । दन्त्यसकारवान् । "नासीरसीमनि घनध्वनिरस्य भूयान् "[ नैषधीयचरितम्, सर्गः १३, श्लो-२३] इति श्रीहर्षः । अग्रे यानमस्य अग्रयानम् । एकं 'पेसखानओं, इति ख्यातस्य ॥
अवमर्दस्तु पीडेनं ।
१ अवमर्दनम् अवमर्दः । भावे घञ् । २ पीड्यते पीडनम् । 'पीड रुजायाम् ' ( चु.प.से.), ल्युट् । द्वे सङ्ग्रामपीडायाः ॥ प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः
॥८०० ॥ ५०
१ प्रपतनं प्रपातः । 'पत्लृ पतने ' (भ्वा.प.से.), भावे घञ् । बलादाक्रमणमित्यर्थः । २ अभ्यवस्कन्दम् अभ्यवस्कन्दः । अभ्यवपूर्वः 'स्कन्दिर् गतिशोषणयोः ' (भ्वा.प.से.), भावे घञ् । ३ धावन्तोऽन्त्यस्यां धाटिः, पृषोदरादिः, 'कृदिकारात् - ' ( गणसू-४।१ १४५ ॥ ) इति ङीषि धाटी । ४ अभ्यासाद्यत इति अभ्यासादनम् । अभ्याङ्पूर्वात् सदेर्ण्यन्ताद् ल्युट् । चत्वारि धाट्याः
॥८०० ॥
तद् रात्रौ सौप्ति॑कम्
१. 'इति घञ्' इतिर, 'इतीन्' इति३ ॥ २. 'स्यामिति' इति३ ॥ ३. 'तो' इति३ ॥ ४. ' मृदन्ति अत्र' इति ॥ ५. 'अकर्तरि च कारके संज्ञायाम् '३ |३|१९ ॥ इत्यनेन घञ् युक्तः ॥ ६. 'कदि क्रदि क्रद क्लद वैक्लव्ये' इति मैत्रेयः ॥ ७ युतं' इति ॥ ८. द्र. पदचन्द्रिका, भा१, क्षत्त्रवर्गः, -५६०, पृ. ६४३ ॥ ९. 'बाहुज-' इति३ ॥ १०. ' - त्रेति' इति३.४ ॥ ११. द्र. स्वोपज्ञटीका३ । ७९९ ॥, पृ.१७७ ॥ १२. 'दम' इति४ ॥ १३. 'तमु काङ्क्षायाम्' क्षीरतरङ्गिण्यादयः ॥ १४. ' - क्' इति१ ॥ १५. ' - धात्' इति१.४ ॥ १६. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्लो-५६०, पृ.६४३ ॥ १७. 'क्लीबस्त्रीलिङ्गः' इति३ ॥ १८. ' - नउं' इतिर, ' - खानो' इति३, 'खानौ' इति४ ॥ १९. तुलनीयोऽमरकोषः २।८।१०९ ॥ २०. 'पीड गहने' इति स्वामी, 'पीड अवगाहने' इति मैत्रेयसायणौ ॥ २१. 'शल हुल पत्लृ गतौ' इति क्षीरतरङ्गिण्यादयः ॥
For Private Personal Use Only
www.jainelibrary.org