________________
७९६-७९९]
।
संज्ञायाम् - ३ । ३ । ११८ ॥ इति घः । पुंनपुंसकोऽयम् । “अस्त्रियां समरानीकरणा: ''[ अमरकोषः २ ८ ११०४ ।। ] इत्यमरः । ८ जायते विद्वेषाद् जन्यम्, पुंक्ली । 'जनी प्रादुर्भावे ' (दि. आ.से.), 'भव्यगेय- '३ १४ १६८ ।। इत्यादिना साधुः । ९ युध्यन्तैऽस्यां वृत् स्त्रियाम् । 'युध सम्प्रहारे ' (दि. आ.अ.), सम्पदादित्वात् क्विप् । युधौ, युधः इत्यादि । १० आयुध्यन्तेऽस्मिन् आयोधनम् । अधिकरणे ल्युट् 'युवोरनाकौ ७|१ |१ | | ११ संस्फुटन्ति विशीर्यन्ते कातरहृदयान्यत्र संस्फोट: । 'स्फुटिर् विशरणे ' (भ्वा.प.से.), अधिकरणे घञ् । 'स्फुट भेदने' १० (चु.उ.से.) वा संस्फेट इत्यन्ये । "स्फिट अनादरे " ( चु.उ.से.) [ अम. क्षीर. २ १८ । १०६ ।। ] इति स्वामी । "संफेट: " [ ] इति च भरते । १२ कर्ल मधुरध्वनिं हन्ति कलहः । 'अन्येभ्योऽपि ' (वा ३२ । १०१ ।। ) इति ङः । "कलं तु मधुरध्वनी "[ ]इति धरणिः । कलं हीनबलं हन्तीति वा । * अन्येभ्योऽपि (वा ३ २ ११०१ ॥ ) इति डः । कलां जहातीति वा 'डयापोः संज्ञाच्छन्दसि बहुलम् ६ ३ ६३ ॥ इति [ पूर्वस्य ह्रस्वः ] । १३ मर्धति हिनस्ति मृधम् । 'मृधि मे मेधा - हिंसनयो: ' (भ्वा.उ.से.), 'इगुपध- '३ १ १३५ ॥ इति कः । म्रियन्तेऽप्रेति मृधं वा 'मृङ् प्राणत्यागे' (तु.आ.अ.), बाहुलकाद्ध इति धक् । १४ प्रहरन्तेऽत्रेति प्रहरणम् । अधिकरणे ल्युट् । १५ संयतन्ते संयच्छन्ति वा अत्र संयत्,
- - ।
२०
१३
३०
व्युत्पत्तिरत्नाकरकलिता
अरस्तु "स्त्रियां (स्त्रियः) संयत्- "[अम. २।८।१०६ ॥ ] इत्याह । यती प्रयत्ने' (भ्वा.आ.से.), 'यमु नियमनें '' (भ्वा.प.अ.) वा, संपदादित्वात् क्विप् । १६ रणन्ति दुन्दुभयोऽत्रेति रणम् पुंक्ली. 'रण शब्दे' (भ्वा.प.से.), 'पुंसि संज्ञायाम्- "३ ३ ।११८ ॥ इति बाहुलकाद् म 'वशिरण्योश्च' (वा ३३ १५८) इति वक्तव्याद वा १७ विगृहन्त्यत्र विग्रहः । 'ग्रहवृह - ३ १३ १५८ ॥ इत्यधिकरणेऽपि । ग्रहणं ग्रहो निर्बन्धः, विविधो ग्रहोऽत्रेति अव्ययानां च' ( वा २।२।२४ ॥ ) इति बहुव्रीहिर्वा ॥ ७९६ ॥ १८ द्वौ द्वौ युध्यन्तेऽत्रेति द्वन्द्वम् पृषो
घः,
Jain Education International
३५३
१५
१७
4
,
दरादित्वात् । द्वन्द्व समासकलहयुग्मेषु "[["] इति श्रीभोजः । १९ सङ्गर्त्य आघ्नन्ति परस्परमत्र समाघातः । 'हन् (हन) हिंसागत्योः ' ( अ.प.अ.) अधिकरणे घञ्, 'हनस्तोऽचिण्णमुलोः ७ | ३ | ३२ ॥ इति तकारो ऽन्तादेशः, 'हो हन्तेः - ७३ ॥ ५४ ॥ इति कुत्वम्, 'अत उपधायाः ७।२ ।११६ ॥ । २० सम्पृच्छन्ति आह्वयमत्र समाह्वयः । २१ अभिमुखं सम्पतन्त्यत्र अभिसम्पातः । अधिकरणे घन् । २२ संमृद्नन्त्य संमर्दः । 'मृद क्षोदे' (क्र्या.प.से.), अधिकरणे घञ् । २३ संयन्त्यत्रेति समित् स्त्रीलिङ्गः । अण् गतौ ' ( अ.प.अ.), सम्पदादित्वात् क्विपू, ह्रस्वस्य '६११७१ ॥ इति तुक् । समितौ समितः इत्यादि । २४ प्रकर्षेण घ्नन्त्यत्र प्रघातः । 'हन् (हन ) हिंसागत्योः ' ( अ.प.अ.) अधिकरणे पञ् । २५ आस्कन्द्यन्ते शोष्यन्ते शत्रवोऽत्रेति आस्कन्दनम् । स्कन्दिर् गतिशोषणयों (ध्वा.प.अ.) अधिकरणे ल्युट् । २६ अजन्ति क्षिपन्त्यस्याम्, आजि:, स्त्रीलिङ्ग: । 'अज गतौ क्षेपणे च' (भ्वा.प.से.), 'अजा (अज्य) तिभ्यामिन्मिण् वृद्धिश्च' (उणा५७० ) इतीन् (इतीण्) । २७ प्रधनति हन्ति प्रधनम् । उपर्गबलाद् निधनवद् धनिर्मरणार्थः, पचाद्यच् । प्रदधाति म्रियतत्र प्रपूर्वाद् धाध, कृपृ ( कृपृ ) वृजिमन्दि [नि ] भाञ्भ्यः क्यू: ' ( उणा- २३९) इति क्युः, अनादेशे प्रधनमिति वा । २८ अनन्ति जीवन्ति सुभटा अनेनेति अनीकम् पुंक्ली. 'अन प्राणने '(अ.प.से.), 'अनीकादयश्चे ' ( ) इतीकन् । अनीकं सैन्यमस्येति वा अशंआदित्वादच् । २९ अभ्यागच्छन्त्यत्र अभ्यागमः । अधिकरणे घञ् । ३० प्रकर्षेण विदार्यन्ते शत्रवोऽत्र प्रविदारणम् । ह (दृ) विदारणे' (क्या.प.से.), णिजन्तः, ततो ल्युट् । ॥ ७९७ ॥ ३१ समुदयन्ते मिलन्त्यत्र समुदायः । समुत्पूर्वः 'अय गतौ ' (भ्वा.आ.से.), 'हलच' ३ ॥३ ॥ १२१ ॥ इति घञ् । ३२ समुद्यन्त्यत्रेति समुदयः । 'इण् गतौ ' ( अ.प.अ.), बाहुलकाद् एरच् '३ ३५६ ॥ | ३३ रटन्ति कलहायन्तेऽस्यां राटिः, स्त्रीलिङ्गः । 'रट परिभाषणे'
"
मैत्रेयसायणौ ॥ ४. १. २प्रत्योर्नास्ति ॥ ५. " संस्फेट इति युक्तः पाठः, स्फिट
१. 'युध्यते-' इति३ ॥ २. 'स्फोट' इति४ ॥ ३. 'स्मिट अनादरे' इति अनादरे, भरते तु संफेटः ।" अम. क्षीरस्वामिटीकायाम्, २।८।१०६ ॥ पृ. १९७ ॥ ६. 'कलिं' इति४ ॥ ७ द्र रामाश्रमी २ । ८ । १०४ ॥ पृ. ३९२ ॥ ८. 'ड्यापोः संज्ञाच्छन्दसोर्बहुलम् ६ | ३ |६३ ॥ इत्यष्टाध्याय्याम् ॥ ९. शृधु मृधु उन्दे ( उन्दने इति सायणः ) ' इति स्वामिसायणौ, 'शधु पृधु मृधु उन्दे' इति मैत्रेयः ॥ १०. 'म्रियते' इति१ ॥ ११. 'इति धक्' इत्यधिकं प्रतिभाति ॥ १२. 'संयतते संयच्छति' इति१ ॥ १३. 'नपुंसकं' इति४ ॥ १४. 'यम उपरमे ' इति क्षीरतरङ्गिण्यादयः ॥ १५. द्र. स्वोपज्ञटीका३ । ७९७ ॥ पृ. १७७ ॥ तत्र 'द्वन्द्वं' इति न दृश्यते ॥ १६. 'समागत्य' इति३, 'सं आगत्य' इति४॥ १७. -यनमत्र' इति ॥ १८. 'संमर्दयत्यत्र' इति३ ॥ १९. ' समेत्यत्रेति' इति४ ॥ २०. ' गतिविशो-' इति२ ॥ २१. फलितार्थकथनमिदं प्रतिभाति, 'अज्यतिभ्यां च' (उणा-५७० ) इत्युणादिगणे ॥ २२. 'क्यौ' इति१.२ ॥ २३. उणादिसूत्रपाठे, 'अनीकादयश्च' इति सूत्रं नास्ति, सिद्धान्तकौमुद्यां चाऽस्य सिद्धिः अनिषिभ्यां कित्त्व' (उणा-४५७) इत्युणादिसूत्रेण विहिता ॥ २४. ' - दयन्त्यत्रेति' इति२. ४, ' - दयन्तेऽत्रेति' इति ॥ २५. ' - कादच्' इति३.४ ॥
G
For Private & Personal Use Only
४०
५०
६०
www.jainelibrary.org