SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ७९०-७९५ ] १ विविधो मङ्गलगीतवाद्यादिकृतस्तालः शब्दस्तेन चरन्ति व्यवहरन्तीति वैतालिका: । 'चरति '४ १४ १८ ॥ इति ठक. 'ठस्येकः '७॥३५० ॥ किति च ७ । २ । ११८ ॥ इत्याद्यचो वृद्धिः । वितालः शब्दः प्रयोजनमेषामिति वा । 'प्रयोजनम्' ५ । १ । १०९ ॥ इति ठक् । २ निशान्तं निवेदयन्तो ये नृपं बोधयन्ति जागरयन्ति ते बोधकराः । 'कृञो हेतुताच्छील्यानुलोम्येषु ' ३ ।२ ।२० ॥ इति टः । ३ अर्थिन एव अर्थिकाः । स्वार्थे कन् । ४ सुखसुतं पृच्छन्ति सौखसुप्तिकाः । पृच्छतौ सुस्नातादिभ्यः (वा - ४१४ ११ ।। ) इति ठक् । सौखशायनिक१० साँखशयिकावपि । अमरस्तु "वैतालिका बोधकराः " [ अमरकोषः २ ४८ ९७ ।।] इति राज्ञोऽवसरपाठकानाह । चत्वारि राज्ञां प्रातबधकरस्य ॥ घाण्टिकाश्चाक्रिका: १ घण्टयां चरन्ति घाण्टिकाः । " देवताद्यग्रे घण्टाघातेन ये शंसन्ति, ते घाण्टिकाः श्रावकाख्या: " [ अभि- स्वोपज्ञटीका३ १७९४॥ अम. क्षीर. २ १८९८ ।।] इत्याचार्यस्वामिनौ । चुरादौ घटिर्भाषार्थः, 'गुरोश्च '३ । ३ । १०३ ॥ इत्यकारः, 'इदित:- ७।१।५८ ॥ इति नुम्, 'तेन चरतिं ' ४ ४ ८ ॥ इति ठक् । “घण्टा गोष्ठी, तया चरन्ति नैरुक्तो २० वर्णागमो निरनुनासिको वा "[] इति सर्वस्वम् । “राज्ञः प्रबोधसमये `घण्टाशिल्पास्तु घाण्डिका '[]इति च । २ चक्रं राष्ट्रं प्रोयजनमेषां चाक्रिका: । 'प्रयोजनम् '५ । १ । १०९ ॥ इति ठक् । द्वे घण्टावादकस्य ॥ व्युत्पत्तिरत्नाकरकलिता मागंधो मगधः तो बन्दी मङ्गलपाठकः ॥ ७९४ ॥ १ सुनोति सूर्तः । ‘षुञ् अभिषवे' (स्वा.उ.अ.) । २ बन्दते स्तौति बन्दी । वदि अभिवादनस्तुत्यो: '(भ्वा.आ.से.), 'नन्दिग्रहि - ' ३ । १ । १३४ ॥ इति ग्रहादित्वाणिनिः ३ मङ्गलं पठति मङ्गलपाठकः । 'पठ व्यक्तायां वाचि' (भ्वा.प.से.), ण्वुल् । त्रीणि मङ्गलपाठकस्य ।। ७९४ ।। I Jain Education International ३५१ १-२ मगधेति धातुः कण्ड्वादौ याच्ञार्थः । "कमर्थिनः कमुभ्यस्तु (कुषुभ्यन्तु ) कंम[ग] ध्यन्तु मागधाः । कमिषुध्यन्तु यज्वानो रामेऽरण्यं तुरण्यति ॥ १ ॥ " १० [ ] इति श्रीभोजः । मगध्यति याचते मगधः । पचाद्यच् । मगध एव मागधः, प्रज्ञादित्वादण् । " वंशक्रमेण महत्त्वत्वादिनो राजाद्यग्रतः स्तुतिकृती मागधा: क्षत्रिया वैश्यजातीया वा मगधदेशोद्भवाः "["] इत्यन्ये । २ अणभावे मगधः । "मागधाः स्तुतिवंशजाः "["] इत्यन्ये । "सूताद्या मगधान्ता एकार्था इत्येके " [अम. क्षीर. २।८ ।९८ ॥ ] इति क्षीरस्वामीं । वंशोदीरणेन यो याचते, तस्य द्वे ॥ संशमका युद्धाऽनिवर्तिनः । १ शप् (शप) आक्रोशे ' ( वा.उ. अ.), भावे क्तः, शतं शपथ, सं सम्यक् शतं सत्यं येषां ते संशप्तकाः । (“शप् (शप) आक्रोशे ' (भ्वा. उ. अ.), भावे क्तः ), संशपन्ति पलायमानानिति वा । सशपथं युध्यन्त इति वा । युद्धान्न निवर्तन्ते न पराङ्मुखा भवन्ति युद्धाऽनिवर्तिनः । एकं 'संग्रामिई जे न भाजई' इति प्रसिद्धस्य ॥ .१५ तस्य ग्रन्थो भोगवली भवेत् ॥७९५॥ १ तस्य नग्नस्य ग्रन्थः शास्त्रम्, यत्र काव्ये राज्ञो नानाविधाः क्रियाः स्नानभोजनादिकाः कुर्वाणस्य तदनुरूपा गाथादयः, सा भोगावली । भोगः सुखम्, तद्धेतुत्वाद् भोगाः १. '-य्य-' इति ३॥ २. 'घण्टाया' इति३ ॥ ३. 'चरति' इत्येवाऽष्टाध्याय्याम् ॥ ४. टीकासर्वस्वे न दृश्यते ॥ ५. 'घ' इति२.३ ॥ ६. द्र. अम.क्षीर.२।८।९८ ॥, पृ.१९५ ॥ ७ ४प्रतौ नास्ति ॥ ८. १. २प्रत्योर्नास्ति ॥ ९. द्र. अम क्षीर. २४८ १९८ ॥ पृ. १९५ ॥ पदचन्द्रिका, भा-२, क्षत्त्रवर्गः, श्री - ५५१, पृ.६३५ ।। १०. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग:, श्रो- ५५१, पृ.६३५ ॥ तत्र 'क्षत्रिया वैश्यजातीया' इत्यस्य स्थाने 'क्षत्रिया वैश्याज्जाता' इति दृश्यते ॥ ११. द्र. अम. क्षीर. २८ । ९८ ॥, पृ.१९५ ॥ स्वोपज्ञटीका३ । ७९५ ॥ पृ. १७६ ॥ मडुकोपस्योद्धरणमिदम् ॥ १२. अम. क्षीरस्वामिकृतटीकायां 'चत्वार एकार्था इत्येके" इति दृश्यते, २।८।९८ ॥ पृ. १९५ ॥ १३. कोष्ठान्तर्गतपाठः १.२.३ प्रतिषु न दृश्यते ॥ १४. 'सशपं' इति‍, 'संशपते' इति४ ॥ १५ 'स' इति१, 'संग्रामे' इति३, 'संग्रामइ' इति४ ॥ १६. 'भाजै' इति३ ॥ १७. इतोऽग्रे ४प्रतौ 'वस्त्राणि न-' इति दृश्यते ॥ १८. महेश्वरकृतविश्वप्रकाशकोशे तु "नग्नोऽपि च क्षपणके विवस्त्रे चाऽभिधेयवत्" इति दृश्यते, पृ. ८६ ॥ ।। नग्नः स्तुतिव्रतः १७ १ न वस्ते नग्नः पृषोदरादिः । कौपीनमात्रजरद्वस्त्रपरिधानात् न विद्यन्ते ग्नाः श्रियश्छन्दांसि वा अस्येति ५० वा 'नाप्नपात्- '६३७५ ॥ इति नञ्प्रकृत्या २ स्तुतिरेव व्रतमस्य स्तुतिव्रतः । " नग्नो बन्दिनि क्षपणे विवस्त्रेऽप्यभिधेयवत् ''[विश्वप्रकाशकोशः, नान्तवर्ग:, श्रो- १४] इति महेश्वरः । द्वे कौपीनमात्रजरद्वस्त्रपरिधानमङ्गलपाठकस्य ॥ For Private & Personal Use Only ३० ४० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy