________________
३५०
आसारः, अन्वागच्छन्मित्रबलमित्यर्थः । 'सृ गतौ ' (भ्वा.प.अ.), भावे घञ् । एकं मित्त्रसंन्यस्य ॥
प्रचक्रं चलितं बलम् ॥७९०॥
१ प्रस्थितं चक्रं सैन्यं प्रचक्रम् । प्रक्रियत इति प्रचक्रम् । कृञो घञर्थे के:, 'कृञादीनां के' (वा६ । १ । १२ ॥ ) इति द्वित्वम् । चल्यते स्म चलितम् प्रयाणकस्थितमित्यर्थः । एकं प्रस्थितसैन्यस्य ॥ ७९० ॥ प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ।
अभिधानचिन्तामणिनाममाला
१ सैन्याद् बहिः तृणजलाद्यर्थं प्रसरणं प्रसारः ।
१० भावे घञ् ।
‘“निरुद्धवीवधाऽऽसारप्रसाराङ्गा ( प्रसारा गा ) इव व्रजम् । उपरुन्धं तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥१॥" [शिशुपालवधम्, सर्गः - २, श्रो- ६४ ] इति माघः । " अमरस्तु'स्यादासारः प्रसरणम् ' [ अमरकोषः २ १८ ।९६ ॥ ] इत्याह तच्च अर्थशास्त्रेण न संवदति [ अभि-, स्वोपज्ञटीका३ । ७९१ ॥ ] इति श्रीआचार्याः । एकं तृणाद्यर्थं सैन्याद् बहिर्गमनस्य ॥ अभिक्रमो रणे यानमभीतस्य रिपून् प्रति ॥ ७९१ ॥
१ अभीतस्याऽऽभिमुख्येन अभिभूय रिपून् अरीन् प्रति रणे सङ्ग्रामे यानं गमनम्, तन्नामैकम्, अभिक्रमणम् अभि२० क्रमः । क्रमु पादविक्षेपे' (भ्वा.प.से.), भावे घञ्, 'नोदात्तोपदेश - ७ | ३ | ३४ ॥ इति वृद्धिनिषेधः । " अहितान् प्रत्यभीतस्य रणे यानमभिक्रमः "[ अमरकोषः २ १८ । ९६ ॥ ] इत्यमरः ॥७९१ ॥ अभ्यमि॑त्र्योऽभ्यर्मित्त्रीयोऽभ्यमित्रीणोऽभ्यरिव्रजन् ।
१- ३ आभिमुख्येनऽमित्त्रानलङ्गामी अभ्यमित्त्र्यः, अभ्यमित्रीयः अभ्यमित्रीणः । ' अभ्यमित्राच्छ च' ५।२।१७ ॥ इति छः चकाराद् यत्खौ । त्रीणि भृशं वैरिसंमुखगामिनः ॥
[ मर्त्यकाण्डः-३ भत्वान्न रुत्वम्, 'झर्यः '८ ।२ ॥१० ॥ इति वत्वम् । पिच्छादित्वादिलचि उरसिलः । द्वे ' हीयाबली' इति ख्यातस्य ॥
Jain Education International
ऊर्जस्व्यूर्जस्वलौ समौ ॥७९२॥
१ ऊर्जा बलं पराक्रमो वा, तदतिशययुक्त ऊर्जस्वी | 'अस्मायामेधास्रजो विनि: ५ | २ | १२१ ॥ इति विनिः । ऊर्जा बलमस्याऽस्ति ऊर्जस्वल: । 'ज्योत्स्नातमिस्रा - ५।२ । ११४ ॥ इत्यादिना साधुः । " ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः "[ अमरकोषः २ १८ १७५ ॥] इत्यमरः । ऊर्जस्वानपि । [ द्वौ बलिनः ] ॥७९२ ॥
सांयुंगीनो रणे साधुः
१ संयुगे साधुः सांयुगीनः । 'प्रतिजनादिभ्यः खञ्' ४ १४ १९९ ॥ इति खञ्, 'आयनेयी - ७ ।१ ।२ ॥ इत्यादिना खस्य ईनादेशः । प्रतिजनादिपाठादेव संयुगशब्दस्य घञि गुणाभावः । रणे सङ्ग्रामे यः साधुस्तस्यैकम् ॥
जेता जिष्णुश्च जित्वरः
१ जयनशीलो जेता । 'जि जये ' (भ्वा.प.अ.), तृन् । २ जयनशीलो जिष्णुः । 'ग्लाजिस्थश्च ग्स्नुः '३ । २ । १३९ ॥ ॥ ३ जयनशीलो जित्वरः । ' इण्नशि (नश् ) जिसर्तिभ्यः क्वरप्' ३ ।२ । १६३ ॥ पित्त्वात् तुक् । त्रीणि जयनशीलस्य । [शेषश्चात्र"जिष्णौ तु विजयी जैत्रः " ] [ शेषनाममाला३ | १५३ ॥ ] ॥ ५० जय्यो यः शक्यते जेतुम्
१ जेतुमवश्यं शक्यो जय्यः । 'क्षय्यजय्यौ शक्यार्थे' ६ १ ८१ ॥ इति साधुः । यो जेतुं शक्यते, तस्यैकम् ॥ यो जेतव्यमात्रके ॥७९३॥
१ शक्यार्थादन्यत्र योग्यतामात्रेण, जयनीयो जेयः । 'अचो यत् ' ३ ।१ ।९३ ॥ इति यत् । एकं 'जीपवा योग्य' इति
ख्यातस्य ॥७९३ ॥
स्यादुरस्वानुरसिलः
१ उरसा बलं लक्ष्यते, तदस्याऽस्ति उरस्वान् । 'तद३० स्यास्ति-'५।२।९४॥ इति मतुप्, 'तसौ मत्वर्थे '१।४।१९ ॥ इति वैतालिका बोधर्कराः अर्थिकाः सौखसुप्तिकाः ।
१. 'ततो' इति ॥ २. 'कन्' इति३ ॥ ३. 'तनादीनां' इति३ ॥ ४. ४प्रतौ नास्ति ॥ ५. 'र्थ ' इति१.२ ॥ ६. 'प्रसा-' इति३ ॥ ७. ' - सारं ' इति२ ॥ ८. प्रसा-' इति१.३ । ९. 'चात्' इति ४प्रतौ चकारात्' इति प्रतौ बहिर्भागे ॥ १०. तुलनीयोऽमरकोषः २ १८ ७६ ॥ ११. वस्तुतस्त्वयं प्रमादः प्रतिभाति, मस्य झय्त्वाभावात्, अथ च 'मादुपधायाः - ८ १२ १९ ॥ इत्यनेन वत्वं बोध्यम् ॥ १२. ' - वली' इति३ ॥ १३. आकारान्त ऊर्जाशब्दश्चिन्त्यः, मेदिनीवैजयन्तीकोषादौ सान्तस्याऽदन्तस्य च ऊर्जशब्दस्य दर्शनात् ॥ १४. तुलनीयोऽमरकोषः २ १८ १७७ ॥ १५. तुलनीयोऽमरकोषः २ १८ १७४ ॥
For Private Personal Use Only
४०
www.jainelibrary.org