________________
३४४
कर्मणि क्तः, दादेर्घः, 'झषस्तथोः '८ ।२ ।४० ॥ इति तस्य धः । "दिग्धं विषाक्तबाणे स्यात् " [ विश्वप्रकाशकोशः, धान्तवर्ग:, श्री- १०] इति महेश्वरः । २ लिप्यते स्म लिप्सः । 'लिप उपदेहे' (तु.उ.अ.), कर्मणि क्तः [स्वार्थे कनि लिप्तकः ] । "लिसं विलेपिते भुक्ते विषाक्तविशिखादिषु " [ विश्वलोचनकोशः, तान्तवर्ग:, श्रो- ५०] इति श्रीधरः । द्वे विषलिप्तबाणस्य ॥ ७७९ ॥ बाणमुक्तिर्व्यवच्छेदः
अभिधानचिन्तामणिनाममाला पक्षो वाज:
१ बाणस्य धनुर्यन्त्राद् मुष्टिना मोक्षणं बाणमुक्तिः । 'स्त्रियां क्तिन् '३ । ३ ।९४ ॥ । विशेषेण अवच्छिद्यते उत्तेज्यते १० बाणोऽनेन व्यवच्छेदः । करणे घञ् । यद्धनुर्वेद:'पञ्चाङ्गुलीभिर्युगपत् क्षिप्र श्रेष्ठत्वसिद्धये । मोक्षणं यच्च दुर्ज्ञेयं तं व्यवच्छेदमादिशत् ॥१॥" [']। एकं 'तीरमूंकवउं' इति भाषायाः ॥
दीप्तिर्वेगस्य तीव्रता ।
१ दीप्यते बाणोऽनया दीप्तिः । 'दीपी दीप्तौ ' (दि. - आ.से.), 'स्त्रियां क्तिन् '३ ॥३ ॥९४ ॥ । वेगस्य बाणवेगस्य तीव्रता दुःसहत्वम् । एकं बाणवेगतीव्रतायाः ॥ क्षुरप्रतद्बालार्धेन्दुतीरी मुख्यास्तु तद्भिदः ॥७८०॥
44
१ क्षुराभं लोहं प्राति क्षुरप्रः । प्रा पूरणे ' ( अ.प.अ.), २० ' आतोऽनुपसर्गे कः ३ । २ । ३ ॥ । धारामुखलोहोऽयम् । १ तत् प्रसिद्धं बलमस्य तद्बलः, मूषकपुच्छाकृतिरयम् । यदुक्तम्'मूषकपुच्छाकृतयस्तद्बला दण्डसायकाः ''[ ] इति । यथा च हलायुधकाव्यम्-“सर्वाय सङ्करिणि मुञ्चति कङ्कपत्रं दीप्तं च मोचयति तद्बलमश्वकाये'"[ ]इति । " तद्बलं काण्डविशेष - मर्धलोहं दीप्तं तीव्रवेगमश्वकाये क्षिपति "[ ] इति तट्टीका । १ अर्धेन्दुः अर्धेन्दुसदृशमुखलोहत्वात् । १ तीरयति सङ्ग्रामं पारयति तीरी, द्विचतुर्थस्वरोऽयम् । तदुक्तम् - " त्रिभागशरजा तीरी शेषाङ्गे लोहसम्भवा"["] इति । मुख्यग्रहणात् दण्डासन१तोमर२वावल्ल३ भल्ल४गरुडा५ ऽर्धनाराच६ प्रभृतयः, तस्य बाणस्य ३० भेदो भेदाः तद्भिदः ॥७८०॥
Jain Education International
[ मर्त्यकाण्डः-३
१ पक्ष्यते परिगृह्यतेऽसौ पक्षः । 'पक्ष परिग्रहे' (भ्वा.प.से.), कर्मणि घञ् । २ वजत्यनेन बाणो वाजः । 'वज गतौ ' (भ्वा.प.से.), 'हलश्च'३ । ३ । १२१ ॥ इति घञ्, ञित्त्वाद् 'अत उपधायाः ७ । २ ।११६ ॥ वृद्धिः । " [ पच्यत इति] पक्षः गृध्रकङ्कपत्रादिः, [वजत्यनेन ] वाणे (वाणो) वाज:, छदाऽऽवलिः, पत्त्रपालीति यावत् "[ अभि. स्वोपज्ञटीका-३ १७८१ ॥] इति मूलटीका ।" पत्त्रपाली भवेद् वाजः "[हलायुधकोश:२ । ४६८ ।।] इति हलायुधः । द्वे बाणपिच्छस्य ॥
पत्त्रेणा तन्न्यासः
१ पत्त्रणं पत्त्रणा । " शराणां पत्त्ररचना पत्त्रणा परिकीर्तिता"[ हारावली, अर्धोकावधिः, श्लो-१६ (११६)] [ इति ] हारावली । तस्य पक्षस्य शरस्कन्धे न्यसनं न्यासो रचना तन्न्यासः । एकं पत्त्रणायाः । 'तीरऊपरि पींछरचना' इति भाषा ॥
१. ' - शेत्' इति२. ३.४ ॥ २. द्र. स्वोपज्ञटीका३ १७८० ॥ ' - कवो' इति३, 'वूं' इति४ ॥ ४. 'कंच-' इति३ ॥ ५. ८. तुलनीयोऽमरकोषः २।८।८७ ॥ ९. 'बल- ' इति३.४ ॥ १४. 'डंक ' इति३.४ ॥ १५. सुफाला' इति ॥ १६. भा- २, क्षत्त्रवर्ग:, श्रो- ५४१, पृ. ६२६ ॥ रामाश्रमी २।८।८८ ॥ पृ. ३८४ ॥ १९. द्र. पदचन्द्रिका, भा-२, क्षत्त्रवर्गः, श्रो- ५४१, पृ. ६२६ ॥
पृ. १७२ ॥ तत्र 'दुर्ज्ञेयं' इत्यस्य स्थाने 'दुर्जेयं' इति दृश्यते ॥ 3. -मूक-' इतिर, पत्र ' इति२ ॥ ६. दृशं मुखं' इति३.४ ॥ ७ द्र. स्वोपज्ञटीका३ १७८० ॥ पृ. १७२ ॥ १०. ' पत्र - ' इति३.४ ॥ ११. 'पी-' इति ॥ १२. 'पूङ्' इति३ ॥ इतोऽग्रे ३प्रतौ 'तूण पूरणा वा' इति दृश्यते ॥ १७. 'तृण' इति४ ॥
१३. 'पूङः' इति३ ॥
१८. द्र. पदचन्द्रिका,
पुङ्खस्तु र्त ।
१,पुनाति बाणं पुङ्खः, पुंक्ली. । 'पूञ् पवने'(क्र्या.उ.से.), 'पूञ: पुन् च' ( ) इति खः । गुणविन्यासस्थानम् । २ कृत्यते छिद्यतेऽनया कर्तरी । 'कृती छेदने ' ( तु.प.से.), [बाहुलकादरः, ततो ङीष्], काष्ठशृङ्गादिमयी । "कर्तरी पुङ्ख ५० उच्यते''[ हलायुधकोशः २ ।४६८ ॥ ] इति हलायुधः । द्वे पुङ्खस्य । 'बाणना बे 'डंकासुषाला' इति भाषा ॥
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥७८१॥ शरंधिः कलापोऽपि
१६
१ तूण्यते पूर्यते शरै: तूणः, त्रिषु । स्त्रियां तूणी तूणा | 'तूर्ण पूरणे' (चु.आ.से.), चुरादिः, 'एरच् '३ ।३ ।५६॥ इत्यच् ।‘[स्त्रियां] तूणेषुधी उपासङ्गः "[]इति रत्नकोषः । " धिषणा तूणीतूणौ काकिणी द्रुणी "["] इति लिङ्गकारिका च । २ निषज्यन्ते शरा अत्रेति निषङ्गः । 'पञ्ज सङ्गे'(भ्वा.प.अ.), अधिकरणे घञ्, 'चजो:- ७ । ३ । ५२ ॥ इति ६०
For Private & Personal Use Only
४०
www.jainelibrary.org