________________
७८०-७८२]
कुत्वम्, ['उपसगात्- '८।३ ।६५ ॥ इति षत्वम् ] । ३ तूण्यते पूर्यते तूणीरः । ' तूण पूरणे' (चु.आ.से.), चुरादिः, बाहुलकात् 'कृशपू(प) कटि (उणा ) इत्यादिना ईरन् । ४ उपासज्यन्ते संनिष्यन्ते शरा अत्र उपासङ्गः । आङ्पूर्वः 'षञ्ज सङ्गे' (भ्वा.प.अ.), अधिकरणे घञ् । ५ शराणामाश्रयः शराश्रयः ॥ ७८१ ॥ ६ शरा धीयन्तेऽत्र शरधिः, पुंसि । 'डुधाञ् धारणादौ ' ( जु.उ. अ.), 'कर्मण्यधिकरणे च '३३ ।९३ ॥इति कि । यौगिकत्वाद् इषुधिः बाणधिरित्यादयः । ७ कल्यन्ते बाणा अनेन कलापः । ‘कल सङ्ख्याने ' (चु.उ.से.), 'कलेरापः ' १० ( ) इत्यापः । सप्त 'भाथां' इति ख्यातस्य ॥
व्युत्पत्तिरत्नाकरकलिता
अथ चन्द्रहासः
करवालनिस्त्रिंशकृपाणखंगाः ।
तर वारिकौक्षेयक मण्डलाग्रा
असिॠष्टिरिटी
१ उद्योतेन चन्द्रं हसति चन्द्रहासः । 'हस (हसे) हसने ' (भ्वा.प.से.) 'कर्मण्यण् '३ २ ११ ॥ । "चन्द्रवद् हासाः प्रभाऽस्येतिं चन्द्रहास: [ अभि. स्वोपज्ञटीका-३१७८२] इत्याचार्याः । २ करें वलति वेष्टयति करवालः । 'वल
वेष्टने ' (भ्वा.आ.से.), कर्मण्यण् '३ ।२ ।१ ॥ । वलनं वालः, २० करै वालोऽस्येति वा । करं पालयतीति कर्मण्यणि करपालोऽपि । "विधूतकरपालकः पाल [क]''[]इति यमकात् । ३ निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः । 'बहुव्रीहौ सङ्ख्येये उजबहुगणातु ५ ४ १७३ ॥ इति डच् ङित्त्वाहिलोपः । ४ कल्पते "छेदसमर्थो भवति कृपाणः । कृपू सामर्थ्य' (ध्वा. आ. वे), 'उणादयो बहुलम् '३ १३ ११ ॥ इति कृपेरानक् । यद्वा क्रप कृपायां गती ' (भ्वा.आ.से.), 'युधिकृपे: किच्च ' ( ) इत्यानक् बाहुलकादस्मादपि । अ
१३
Jain Education International
३४५
१५
"कृपो रो लः ८ । २ । १८ ॥ इति लत्वाभावार्थं कृपस्था क्रेषिः पठितव्य: "T ] इति 'कृपो रो लः १८ । २ । १८ ॥ इत्यन्त्र भाष्यादौ स्थितम् । कृपाणादौ बाहुलकात् ३० सम्प्रसारणम् । यद्वा सर्वे एते कृपाणकृपणकृपादयः 'कृपू सामर्थ्य' (भ्वा. आ. वे.) इत्यस्यैव, 'लत्वाभावो बहुलवचनात् ' ( ) इति लत्वसूत्रे' उक्तम् । ५ खड्यते भिद्यते
१९
1
२२
परोऽनेनेति खड्ग: । 'खड खडि भेदने ' ( चु.उ.से.), 'छापूखडिभ्यः कित्' ( उणा - १२१ ) इति गन् । ६ तरं तरत् प्लवमानं वारि पानीयमत्र तरवारिः, पुंसि । ७ 'कुष निः कर्षे' (क्र्या.प.से.), 'प्लुषिशुषिकुषिभ्यः क्सि: '(उणा४३५), कुक्षि:, कुक्षौ भवो विद्यमानः कौक्षेयकः 'कुलकुक्षि- ४२२९६ ॥ इत्यादिना ढक । कुक्षिं रक्षन्त्यस्माद्वा शेषार्थे ढकञि कौक्षेयको वा । ८ मण्डलाकृत्यग्रमस्य मण्डलाग्रः । ९ अस्यते क्षिप्यते असिः, पुंसि । 'असु क्षेपणे' (दि.प.से.), इन्' (उणा-५५७) इतीन्, 'खनिकषि- ' ( उणा ५७९) इति इन् वा । १० ऋषति पाणिं गच्छति ॠष्टिः, सप्तमस्वरादिः । 'ऋषि (ऋषी) गतौ' (तु.प.से.), 'किच्की च्(च) संज्ञायाम् '३३ ११७४ ॥ इति क्तिच् । “शिलाशूलटिमुद्गरम् "[ ]इति भट्टिः । ११ हिनस्ति रिष्टिः । रिष हिंसायाम् (भ्वा.प.से.), किजन्तः, किजन्तः पुंस्त्रीलिङ्गावेतौ । एकादश खड्गस्य । शषेश्चात्र" असिस्तु सायकः ।
Pa
१४
२१
श्रीगर्भो विजयः शास्ता व्यवहारः [ प्रजाकरः ] ॥ धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः । प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः ॥ १ ॥ करपालो विशसनस्तीक्ष्णधारो विषाग्रजः । धर्मप्रचारो धाराङ्गो धाराधरकरालिका ॥२॥ चन्द्रभासाश्च शस्त्र: "[शेषनाममाला ३ ।१४४-१४७ ॥] ॥
२६ २७
"
१. 'कल गतौ संख्याने च' इति स्वामिसायणौ, 'कल संख्याने गतौ च' इति मैत्रेयः ॥ २. 'भोथान' इति३, 'भोथाण' इति४ ॥ ३. 'इति' इति स्वोपज्ञटीकायां न दृश्यते ॥ ४. 'वलयति' इति३.४ ॥ ५. 'कर' इति३ ॥ ६. ' - ण्' इति४ । ७. 'पालय' इति३ ॥ ८. द्र टीकासर्वस्वम्, भा३, २४८९० ॥ पृ.१२६ ॥ पदचन्द्रिका भा-२ क्षत्त्रवर्गः श्री- ५४३, पृ.६२७ ॥ ९ वस्तुतस्त्वत्र बहुव्रीहेरभावादियं सरणिरनुसरणीया तथा हि“निरादयः क्रान्ताद्यर्थे पञ्चम्या ' ( वा २ ।२।१८ ॥ ) इति समासः, 'संख्यायास्तत्पुरुषस्य - ' ( वा-५ ४ १७३ ॥ ) इति डच्" इति ॥ १०. 'कल्पेते' इति१ ॥ ११. 'छेदन - ' इति ३ ॥ १२. 'क्रप कृपायाम्' इत्येव स्वामी ॥ १३. भ्रष्टं प्रतिभाति, अथ च 'युधिबुधिदृशिभ्यः किच्च' (उणा - २४७) इत्यानच् युक्तः । अत्र 'क्रप कृपायां गतौ ' (भ्वादि:, धातुसं - ५०६ ) इत्यत्र भ्वादौ मा. धातुवृत्तिरनुसन्धेया ॥ १४. ' -वार्थ' इति२ ॥ १५. ' कृ ' इति३ ॥ १६. 'पठन्ति' इति४ ॥ १७. 'इति सूत्रे' इति४ ॥ १८. 'खंड्यते' इति३ ॥ १९. यदि विग्रहे इदित् खडिधातुः पठ्यते, तर्हि 'खड्गः ' इत्यत्राऽऽगमशास्त्रस्याऽनित्यत्वान्न नुम् ॥ २०. 'खड खडि भेदे' इति स्वामी, 'खड खडि कडि भेदने' इति मैत्रेयसायणौ ॥ २१. 'ढक्' इति३, 'ढकन्' इति४ ॥ २२. 'ढकन्निति' इति३.४ ॥ २३. यष्टि-' इति४ ॥ २४. 'शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयः' इति भट्टिकाव्ये, सर्ग: ९, श्री- ४, पृ. २२९ ॥ २५. कलालिको इति३ ॥ २६. ' भासश्च' इति३, शेषनाममालास्वोपज्ञटीकयोश्च ॥ २७. 'शस्त्रज्ञैः' इति४ ॥
For Private & Personal Use Only
४०
५०
www.jainelibrary.org