________________
३३८
वञ्चयति शरीरसम्बन्धे गमयति कवचम्, पुंक्ली. । 'वञ्च गतौ ' (भ्वा.प.से.), मूलविभुजादित्वात् कः । ६ दंश्यते कायेन स्पृश्यते दंशः । 'दशि दंशनस्पर्शनयो: ' (चु.आ.से.), चुरादिः, Eft । ल्युटि दंशनमपि । ७ तनुं त्रायत इति तनुत्रम् । 'त्रेङ्(त्रैङ्) पालने '(भ्वा.आ.अ.), 'आतोऽनुपसर्गे कः ' ३।२।३॥ । तनुत्राणमपि । ८ माठयति देहं माठिः स्त्रीलिङ्गः, तृतीयवर्गद्वितीयोपधः । " 'मठ मदनिवासयोश्च' (भ्वा.प.से.), चकारात् स्थौल्ये''[हेमचन्द्राचार्यकृतधातुपारायणम्, भ्वादि:, धातुसं - २१५ ] इति धातुपारायणम् । भ्वादौ परस्मैपदी, ततो १० णिच्, 'अच इ: ' ( उणा - ५७८ ) इति इ:, 'सर्वतोऽक्ति
न्नर्थात्' (गणसू-४।१ ।४५ ॥ ) इति ङीषि माठी । ९ उरश्छाद्यतेऽनेन उरश्छदः । ‘छद अपवारणे' (चु.उ.से.), 'पुंसि संज्ञायाम्- '३ । ३ । ११८ ॥ इति घः, 'छादेर्घे- '६ १४ १९६ ॥ इति ह्रस्वः । त्वक्त्रमपि । नव कवचस्य ॥७६६॥ निचोलकः स्यात् कूर्पासो वारबाणश्च कञ्चकः ।
अभिधानचिन्तामणिनाममाला
Jain Education International
सर्पकञ्जुलिका, चोलकः स्त्रीकञ्चलिका, उभयत्र यथा'आभोगिनौ मण्डलिनौ तत्क्षणोन्मुक्तकञ्चुकौ ।
वरमाशीविषा स्पष्टौ (स्पृष्टौ ) न तु तन्व्याः पयोधरौ ॥१॥" []इति । पुंक्ली. एतौ । चत्वारि 'सिलह' इति ख्यातस्य । ' लबाचुंकबाहि' इति भाषान्तरम् ॥
14
१ निचुल्यते निचोलः । चुलिः सौत्रः, ततो घञ्, स्वार्थे कनि निचोलकः । न्युपसर्गाभावे चोलकः । यद् हारावली-‘“चोलको वारबाणः स्यात् "[ हारावली, पादावधिः, श्री- ९७] इति । २ कुरति कूर्पासः, षष्ठस्वरादिः । 'कुर २० छेदने '(तु.प.से.), पृषोदरादिः । ३ बाणं वारयति वारबाणः । मयूरव्यंसकादित्वात् 'कर्मण्यण् '३ ।२ ।१ ॥ । वारमाच्छादकं वानमस्येति वा । 'पूर्वपदात् संज्ञायाम्- '८ १४ १३ ॥ इति णत्वम् । “वारबाणस्तु कूर्पासे कवचेऽपि च ' [ अनेकार्थसङ्ग्रहः ४१८८ ] इति हैमानेकार्थः । ४ कच्यते बध्यते कञ्चुकः | 'कचि काचि दीप्तिबन्धनयो: ' (भ्वा.आ.से.), बाहुलकादुकप्रत्ययः । "कशुकः कवचे वारबाणे' निर्मोकचोलके ''[ विश्वलोचनकोश:, कान्तवर्ग:, श्रो-४३] इति श्रीधरः । कवचे सन्नाहे यथा - " बलानि शूराणि घनाश्च कञ्चुका: "["] । वारवाणे नृनिचोले यथा-" अन्तः कञ्चुकि३० कञ्चुकस्य विशति त्रासादसौ वामनः "[] । निर्मोकः नगोदमुदरत्राणम्
[ मर्त्यकाण्डः-३
सारसनं त्वधिका हृदि धार्यं सकञ्चकैः ॥७६७॥
१ यत् स कञ्चुकै: 'सिलहडगली' इति लोकभाषाप्रसिद्धियुक्तैः हृदि धार्यते तत् सारं बलमादीयते दीप्यते वाऽनेन सारसनम् । 'अस गतिदीप्त्यादानेषु ' (भ्वा.उ.से.), करणे ल्युट् शकन्ध्वादित्वात् पररूपत्वम् । " सारसनं मेख - ४० लायां वस्त्रे (मेखलायामुरस्त्रे) चे तनुत्रिणाम् ''[विश्वप्रकाशकोशः, नान्तवर्ग:, श्रो- १७२ ] इति विश्वः । अधिकमध्यारूढमङ्गमनेन अधिकाङ्गम् । अङ्गादधिकमिि वा । " अधिकमङ्गति [ अम. क्षीर. २ ॥८ ॥ ६४ ॥ ] इति स्वामी । अधियाङ्गम् "[ ] इति " अन्तस्थाद्यमध्यः " [ ] इत्यन्ये । यन्मुनिः - " अधियाङ्गं सारसनम् "[ ] इति । द्वे सारसनस्य । 'च्यार अहीना' इति भाषा ॥७६७॥
२
44
शिरस्त्राणे तु शीर्षण्यं शिरस्कं शीर्षकं च तत् ।
१ शिरस्त्रायतेऽनेन शिरस्त्राणम् । 'त्रेङ् (त्रैङ्) पालने '(भ्वा.आ.अ.), करणे ल्युट्, 'आदेचः - '६ ११ १४५ ॥ ५० इत्यात्वम्, तत्र । २ शिरसे हितं शीर्षण्यम् । शिरःशब्दात् —शरीरावयवाद्यत्’५।१।६ ॥ शीर्षन् ' तद्धिते '६ १ ६१ ॥ शिरसः शीर्षन्नादेशः, 'ये चाभावकर्मणोः '६ ॥ ४ ॥ १६८ ॥ इति प्रकृतिभावः । ३-४ शिरसः शीर्षस्य च प्रतिकृति शिरस्कम्, शीर्षकम् । 'इवे प्रतिकृतौ ५ । ३ ।९६ ॥ इति । शीर्षे कं सुखमस्माद्वा । शीर्षमारोहति प्रातिपदिकाद्धात्वर्थणिजन्ताद् ण्वुल् । शीर्षोपरिवर्तित्वात् शीर्षकमिवेति वा । खोलमपि । चत्वारि 'टोप' इति ख्यातस्य ॥
१. ४प्रतौ नास्ति ॥ २. 'दसि दर्शनदंशनयो:' इति स्वामिसायणौ, 'दसि दर्शनहिंसयो:' इति मैत्रेयः ॥ ३. हारावल्याम्- 'बाणवार:' इति दृश्यते, पृ.४०६॥ ४. क्षीरतरङ्गिण्यादौ शब्दार्थककुरधातुर्दृश्यते ॥ ५. सायणसम्मतोऽयं धातुपाठः, 'कचि दीप्तिबन्धनयो:' इति स्वामिमैत्रेयौ ॥ ६. 'बाणवारे' इति विश्वलोचनकोशे ॥ ७-८. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३।१४ ॥ पृ. ७॥ ९. ' लबाइ - ' इति३.४ ॥ १०. ' - द्धयुक्तैः ' इति३ ॥ ११. इतोऽग्रे ४प्रतौ ' तथा ' इति दृश्यते ॥ १२. ४प्रतौ नास्ति ॥ १३. स्वामिकृताऽमरकोषटीकायाम्-"अवि(धि) कमङ्गादधिकाङ्गः" इति दृश्यते, २८ ॥ ६४ ॥ पृ. १८८ ।। १४. 'नेति' इति३ ।। १५. 'शिरसि' इति१ ।। १६. अधिकोऽयं प्रतिभाति ॥
For Private & Personal Use Only
www.jainelibrary.org