________________
३३६
2
रथरोहिणि तु रथी
१ रथेऽवश्यं रोहति रथरोही । 'रुह प्ररोहे '(भ्वा.प.अ.), आवश्यके णिनिः, तत्र । २ युद्धार्थो रथोऽस्याऽस्ति रथी ।' अत इनिठनौ ५ २ ११५ ॥ इतीनि । “ रथिनः स्यन्दनारोहा: ''[ अमरकोषः २ १८ ॥ ६० ॥ ] इत्यमरः । " रथे योद्धारः " - [ अम. क्षीर. २ ८ ६१ ॥ ] इति क्षीरस्वामी । “पत्तिः पदातिं रथिनं रथेशः”[रघुवंशम्, सर्गः - ७, श्ले - ३७] इति रघुः । द्वे रथयोद्धुः ॥ रथके रथिं रथी
।
अभिधानचिन्तामणिनाममाला
१ रथोऽस्याऽस्ति रथिकः । अत इनिठनौ ५।२।
१० ११५ ॥ इति ठन्, 'ठस्यैकः ७१३५० ॥ तन । २ रथोऽस्या
॥
ऽस्ति रथिरः । मेघारथाभ्यामिरनिरचौ ' ( वा ५ १२ १०९ ।। ) । ३ रथोऽस्याऽस्ति रथी अत इनिठनौ ५ ॥२ ॥११५ ॥ इतीनिः । त्रीणि रथिनः ॥
अश्वारोहे त्वश्ववारः सादी च तुरंगी च सः ॥ ७६१ ॥
१ अश्वमारोहति अश्वारोहः । 'रुह प्ररोहें' (भ्वा.प. - अ.), अच्, तत्र । २ अश्वं वृणोति वारयति वा अश्ववारः । 'वृञ् वरणे' (स्वा.उ.से.), 'वर निवारणे' ( ) वा, अस्माण्णिजन्तात् कर्मण्यण्३ ।२ ।१ । ३ सादयति श्रमयति सादी । 'षद्लृ विशरणादौ ' (तु.प.अ.), ग्रहादित्वाण्णिनिः । ४ तुरगो२० ऽस्त्यस्य तुरगी । 'अत इनिठनौ ५ ॥२॥११५ ॥ इतीनि। चत्वारि अश्ववारस्य । 'असवार' इति भाषा ॥७६१ ॥ हत्यारोहे सादियन्तृमहामात्रनिषादिनः ।
१ हस्तिनमारोहति हस्त्यारोहः, तत्र । २ सीदति सादी । ग्रहादित्वाणिनिः । ३ यच्छति यन्ता | 'यमु नियमने ' (भ्वा.प.अ.), 'ण्वुल्तृचौ '३।१।१३३ ॥ इति तृच् । ४ महती मात्राऽस्य महामात्रः । ५ निषीदति निषादी। 'पल् विशरणादौ (तु.प.अ.), [ ग्रहादित्वाणिनिः ], 'अत 'उपधायाः ७ । २ ।११६ ॥ पञ्च हस्त्यारोहयोर्द्धः ॥
आधोरणा हस्तिपका गजाजीवेभपालकाः ॥७६२ ॥
[ मर्त्यकाण्डः-३
११
१ आधोरयन्ति गतिचातुर्यं कारयन्ति आधोरणाः । ३० 'धोर (धोट्ट) गतिचातुर्ये' (ध्वा.प.से.) हेतुमणिच् नन्द्यादित्वाल्ल्युः । २ हस्तिनं पान्तिं रक्षन्तिं हस्तिपाः । 'पा रक्षणे ' ( अ.प.अ.), 'आतोऽनुपसर्गे कः '३ ॥२ ॥ ३ ॥ । ततः स्वार्थे कनि हस्तिपकाः । ३ गजेभ्यो गजेषु वा आजीवन्ति गजाजीवाः । 'जीव प्राणधारणे' (भ्वा.प.से.), अच् । ४ इथं पालयन्ति इभपालकाः । 'पाल रक्षणे' (चु.उ.से.), णिजन्तः, प्युल मण्ठों देश्याम् । चत्वारि 'पीलवाण' इति ख्यातस्य ॥७६२ ॥
योद्धारस्तु
भंटा योधाः
Jain Education International
,
१ युध्यन्ते योद्धारः । 'युध संप्रहारे ' (दि.आ.अ.), तृच् । २ भटन्ति धारयन्ति आयुधानि भटाः । 'भट भृतौ ' (भ्वा.प.से.), अच् ।" भटन्ति काङ्क्षन्ति युद्धम् "[ अम. क्षीर. २८ ६२ ॥ ] इति क्षीरस्वामी । ३ युध्यन्ते योधाः । युध संप्रहारे ' (दि.आ.अ.), अच् । त्रीणि 'झूझार' इति ख्यातस्य ॥ सेनारक्षास्तु सैनिकः ।
१ सेनां रक्षन्ति पालयन्ति सेनारक्षाः | 'रक्ष पालने' (भ्वा.प.से.), 'कर्मण्यण् '३ ।२ ।१ ॥ । २ सेनां रक्षन्ति सैनिकाः । रक्षति ४ ।४ ।३३ ॥ इत्यर्थे प्राग्वहतीयष्ठक्, 'ठस्येकः ७।३ ॥ ५० ॥ किति च ७ । २ । ११८ ॥ इति वृद्धिः । द्वे 'पाहरू' इति ख्यातस्य ॥
१६
५०
सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥७६३॥
१७
१८.
१ - २ ये हस्त्यश्वादयः सेनायां समवेतास्ते सैन्याः, सैनिकाः च प्रोच्यन्ते । सेनायां समवेता: सैन्याः । समवैत्यर्थे ' परिषदो ण्यः '४ ।४ ।४४ ॥ इत्यनुवृत्तौ 'सेनाया वा' ४ । ४ । ४५ ॥ इति ण्यः F ठकिं सैनिक: (सैनिकाः) । द्वे सेनायां ये मिलितास्तेषाम् ॥७६३॥
ये सहस्त्रेण योद्धारस्ते साहस्राः सहस्त्रिणः ।
१-२ 'रुह बीजजन्मनि' इति स्वामी, 'रुह जन्मनि प्रादुर्भावे' इति मैत्रेयः, 'रुह बीजजन्मनि प्रादुर्भावे च' इति सायणः ॥ २. 'स्वामी' इति४॥ ३. ‘पत्तिं' इति३ ॥ ४. १प्रतौ नास्ति ॥ ५. 'विशरणगत्यवसादनेषु' इति३ ॥ ६. 'वर' इति३ ॥ ७. 'यमु उपरमे ' इति स्वामिमैत्रेयौ, 'यम उपरमे' इति सायणः ॥ ८. ' - योद्धस्य' इति३.४ ॥ ९ पाति' इति३ ॥ १०. 'रक्षति' इति २.३ ॥ ११. 'कनिः' इति४ ॥ १२. ' यति ' इति । १३. 'मंतो' इति द्र देसोसदसंगहो छडो वग्गो भो-५०३, पृ. २९८ ॥ मंठो शठः' इति स्वोपज्ञदेशीशब्दसंग्रहवृत्ति १४. संहारे' इति१ ॥ १५. तुलनीयोऽमरकोषः २ १८ १६१ ॥ १६. रु' इति२.३ ॥ १७. ' - तां' इति ॥ १८. 'पा-' इति१.२.४ ॥ १९. 'ठञि' इति२.४ ॥
4
4
For Private & Personal Use Only
४०
www.jainelibrary.org