________________
१०
३०
७५२-७५६]
१-२ यो रथो द्वीपिनो व्याघ्रस्य चर्मणावृत आच्छादितः स वैयाघ्रः च कथ्यते द्वीपिनो विकारश्चर्म द्वैपम्, व्याघ्रस्य विकारो वैयाघ्रम् । उभयत्र 'प्राणिरजतादिभ्योऽञ् '४ । ३ । १५४ ॥ इति प्राणिवाचिभ्यो रजतादिभ्यश्च षष्ठ्यन्तेभ्यो यथायोगं विकारावयवयोरर्थयोरञ्, 'न य्वाभ्याम् - ७।३।३ ॥ इति वृद्धिनिषेधे ऐजागमश्च । द्वैपेन परिवृतो रथः वैयाघ्रेण परिवृतो रथ इत्यर्थे 'द्वैपवैयाघ्रादञ्' ४ । २ । १२ ॥ इति द्वैपवैयाघ्रशब्दाभ्यां परिवृतो रथ इति विषयेऽञ्, प्राग्दीव्यतीयस्याऽणोऽपवादः । यथाक्रममेकैकम् ॥ रथाङ्गं रथपादोऽरं चक्रम्
व्युत्पत्तिरत्नाकरकलिता
१ रथस्याऽङ्गं रथाङ्गम् । २ रथस्य पादो रथपादः । ३ अराः सन्त्यत्रेति अरि, क्लीबे । 'अत इनिठनौ' ५ ।२ ।११५ ॥ इतीनि: । अरिणी, अरीणि इत्यादि 1 ४ क्रियते तदिति चक्रम् पुंक्लीबलिङ्गः । कृञः क्लिदेः क्वसश्च (कृञादिनां के द्वे ) ' ( वा - ६ । १ । १२ ॥ ) कप्रत्ययः, द्वित्वं च । चत्वारि 'पईडां' इति ख्यातस्य ॥
धारा पुनः प्रधिः
म: १ (`ध्रियत इति) २० २ प्रान्ते धीयत इति प्रधिः
घो: कि : ३ | ३ |९२ ॥ इति कि: ॥७५५ ॥ ३ नयति रथमिति नेमिः, स्त्रीलिङ्गः । ' णीञ् प्रापणे' (भ्वा.उ. अ.), 'नियो मिः ' ( उणा - ४८३ ) इति मि: । 'सर्वतोऽक्तिन्नर्थात् ' ( गणसू- ४ । १ । ४५ ।। ) इति ङीषि नेमी च । त्रीणि चक्रधारायाः । 'पूंठि' इति भाषा ॥
अक्षाग्रकीले त्वयाणी
॥७५५ ॥
Jain Education International
धारा, प्रान्तः प्रस्तावाच्चक्रस्य । पुंस्त्री । प्रपूर्वाद् धाञ: 'उपसर्गे
१ अक्षस्य नाभिक्षेप्यस्य काष्ठस्य 'लोहरि' इति प्रसिद्धस्य अग्रे अन्ते बन्धार्थं कीलः अक्षाग्रकीलः, तत्र । " अग्रमालम्बने व्राते परिमाणे पलस्य च । प्रान्ते पुरस्तादधिके प्रधाने प्रथमोर्ध्वयोः ॥ १ ॥”
३३३
[विश्वप्रकाशकोशः, रान्तवर्ग:, श्रो- ५३ ] इति महेश्वरः । २३ अणति शब्दायते अणिः । 'अण शब्दे ' (भ्वा.प.से.) अस्मादसौ ' - इन्' (उणा-५५७, (दशपाद्युणा - १ । ४६ ॥ ) ) इत्यौणादिक इन् स च वा णित् । णित्पक्षे आणिः । स्त्रियां ङीपि आणी च । " अणिरक्षाग्रकीलिका "[हलायुधकोशः २ ।४४८ ॥ ] इति हलायुधः । "द्वौ समौ "[ ] इति तट्टीका । " अणिराणिवदक्षाग्रकीले स्यादस्तिसीमयोः " [विश्वप्रकाशकोशः, णान्तवर्ग:, श्रो- २२] इति महेश्वरः । त्रीणि अक्षाग्रकीलस्य । 'विडलि' इति भाषा ॥
if
१ नह्यन्तेऽपरे अवयवा अत्रेति नाभिः, स्त्रीलिङ्गः । 'नह (ह) बन्धने' (दि.उ. अ.), 'नहेर्भश्च (नहो भश्च ) ' (उणा५६५ ) इतीञ्, भश्चान्तादेशः, उपधावृद्धिः । २ पिण्ड्यन्ते काष्ठान्यत्र पिण्डी । पिडि सङ्घाते' (भ्वा.आ.से), अधिकरणे घञ्, गौरादित्वाद् ङीष् । सा च रथचक्रमध्ये मण्डलाकारा यस्यां सर्वाणि काष्ठान्यासज्यन्ते । स्वार्थे कनि, 'केऽण: '७४ ।१३ ॥ इति ह्रस्वत्वे च पिण्डिका । "नाभिश्चक्रस्य पिण्डिका" [ हलायुधकोशः २ ।४४७ ॥ ] इति हलायुधः । " कप्रत्ययाभावे पिण्डि : ''[] इति तट्टीका । द्वे नाभेः । 'नाहि' इति भाषा ॥ युगन्धरं कूबरं स्यात्
fufuse ।
१ युगं वोढस्कन्धकाष्ठं धारयति युगन्धरम् । 'धृञ् धारणे'(भ्वा.उ.अ.), ‘संज्ञायां भृत्वृजि - '३ ।२।४६ ॥ इति खच् खित्त्वाद् मुम् । २ कवते शब्दायते कूबरम् । 'कुङ् शब्दे' (तु.आ.से.), 'कगशवृञ्चतिभ्यो वरच् ' (उणा-२७९) इति बहुलवचनाद् वरच् दीर्घत्वं च । 'छित्वरच (छ) त्वर- ' ( उणा२८१) इति वा वरचि साधुः । पुंक्ली. एतौ । “कुबर: ' [ शब्दभेदप्रकाशः, श्रो- ३८ (४८) ] अपीति शब्दप्रभेदः । " भूमिं वृणोत्याच्छादयति महत्त्वाद्वा । 'वृञ् आच्छादने ( स्वा.उ.से.), अच्, 'अन्येषामपि - '६ १३ | १३७ ॥ इति दीर्घे कूबर: ''[]इत्यन्यै" । द्वे 'कांगवा' इति ख्यातस्य ॥
""
युगमीशान्तबन्धनम् ॥७५६॥
१. 'द्वित्वप्रकरणे कृञादीनामिति वक्तव्यम्' इति सिद्धान्तकौमुद्याम् ॥ २. 'पइडा' इति३, 'पईडां' इति४ ॥ ३. कोष्ठान्तर्गतपाठः १. २ प्रत्योर्नास्ति ॥ ४ 'धाञ्' इति३ ॥ ५. 'पूठि' इति३.४ ॥ ६. 'वोढारस्क -' इति३ ॥ ७ -भ्यः ष्वरच्' इत्युणादिगणे ॥ ८. 'पुंक्लीबलिङ्गावेतौ' इति३ ॥ ९. 'कुवर: कूवरस्तथा' इति शब्दभेदप्रकाशे ॥ १०. 'वृञ् वरणे' इति क्षीरतरङ्गिण्यादयः ॥ ११. द्र. पदचन्द्रिका, भा-२, क्षत्त्रवर्गः, श्री- ५११, पृ. ५९८ ॥ तत्र 'महत्त्वात् कुं भूमिं वृणोति आच्छादयति । पचाद्यच् (पा. ३ । १ । १३४ ॥ । अन्येषामपीति (पा. ६ । ३ । १३७ ॥ ) दीर्घः । 'कूवरः' इत्यन्ये ॥" इति दृश्यते ॥ १२. कागवा' इति३ ॥
For Private & Personal Use Only
४०
५०
६०
www.jainelibrary.org