________________
७४९-७५२]
व्युत्पत्तिरत्नाकरकलिता
सज्र्ज्जनं तूपरक्षणम् ॥७४९॥
१ सज्जन्ते निर्भया भवन्त्यनेन सत् शोभनं वा जन्यतेऽनेन सज्जनम् । 'षस्ज गतौ ' (भ्वा.प.से.), 'झलां जश् झशि'८।४।५३ ॥ इति सस्य दत्वम्, 'स्तो: चुना श्चुः '८४ - ४० ॥ इति दस्य जः, करणे ल्युट् । २ उपरक्ष्यन्तेऽनेन उपरक्षणम् । 'रक्ष पालने ' (भ्वा.प.से.), करणे ल्युट् । द्वे सैन्यप्रगुणीकरणस्य । 'सज्जकरवउं' इति भाषा ॥७४९ ॥ वैजयन्ती पुनः केतुः पताका केतनं ध्वजः ।
१ विजयते जेता विजयन्तः । 'जि जये ' (भ्वा.१० प.अ.), 'तृभूवसिं' - ' ( उणा - ४०८ ) इत्यन्तः । विजयन्तस्येयं वैजयन्ती । 'तस्येदम् ' ४ | ३ | १२० ॥ इत्यण्, 'टिड्डाणञ्-' ४ । १ । १५ ॥ इति ङीष् ( ङीप् ) । २ चाय्यते पूज्यते केतुः, पुंसि । 'चायृ पूजानिशामनयो: ' (भ्वा.उ.से.), 'चायः की (के) च' (हैमोणा - ७७८ ) इत्यनेन तुप्रत्ययः, धातोश्च की (के) इत्यादेशः । ३ पतत्यूर्ध्वं पताका । पतेर्गत्यर्थस्य ज्ञानार्थत्वात् पत्यते ज्ञायते योध्यतेऽदोऽनयेति वा । 'शलिपटिपतिभ्यो नित्' (दशपाद्युणा - ३ |३३ ॥ ) इत्याक:, टाप् । पटाकाऽपि । ४ केत्यते ज्ञायते योधविशेषोऽनेन केतनम्, पुंक्ली. । “द्यामियाय दहतस्य ( देहहतस्य ?) केतन: "[] २० इति लक्ष्यं च । 'कित ज्ञाने' (जु.प.से.), करणे ल्युट् । ५ ध्वजयति चिह्नयति ज्ञापयति योधविशेषं ध्वजः पुंक्ली. । " ध्वजमस्त्रियाम् "[ अमरकोषः २ १८ ।९९ ॥ ] इत्यमरः । 'ध्वज गतौ ' (भ्वा.प.से.), अन्तर्भूतण्यर्थात् पचाद्यच् । पञ्च ध्वजस्य ॥ अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥७५० ॥
१ अस्य ध्वजस्य ऊर्ध्वस्थितकूर्चकमानैकं उच्चूलः । १ अधोमुखकूर्चकनामैकम् अवचूलः । 'ऊर्ध्वाधोमुखकूर्चकौ' [ अभि.-७५० ] इति कूर्चकशब्दस्य प्रत्येकमभिसम्बन्धादूर्ध्वकूर्चक उच्चूलः, अधोमुखकूर्चकोऽवचूल इत्यर्थः ॥७५० ॥ गजो वाजी रथः पत्तिः सेनाङ्गं स्याच्चतुर्विधम् ।
Jain Education International
३३१
१ गजो हस्ती १, वाजी तुरङ्गः २, रथः स्यन्दनः ३, पत्तिः पदातिः ४ चतुर्विधं सेनाया अङ्गम् अवयवः स्यादिति, चतुरङ्गा हि सेना, तत्र गजवाजिनौ तुर्यकाण्डे (श्रो४।१२१७, ४।१२३२-३३) वक्ष्येते । पत्तिः प्रागेवोक्तः (श्लो
३ | १४८)
||
अथ रथनामान्याह
युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥७५१॥
१ युद्धं सङ्ग्रामोऽर्थः प्रयोजनमस्य युद्धार्थः, तत्र युद्धप्रयोजने, चक्रवद्याने चक्रयुक्तयाने, शतमित्यनेकोपलक्षणम्, तं बहून्यङ्गान्यवयवा अस्य शताङ्गः । २ स्यन्दति (स्यन्दते ) चलति स्यन्दनः, दन्त्यान्तस्थाद्यादिः । स्यदि चलने ' ( ), ४० 'स्यन्दू प्रस्रवणे' (भ्वा.उ.से) वा 'चलनशब्दा [र्था] कर्मकाच्३ ।२।१४८ ॥, 'अनुदात्तेतश्च हलादेः '३ ।२ । १४९ ॥ इति युज् वा । ३ रमन्ते क्रीडां कुर्वन्त्यनेन रथः पुंस्त्री । मु क्रीडायाम्'(भ्वा.आ.अ.), 'हनिकुषिनीरमिकाशिभ्यः क्थन्' (उणा - १५९), 'अनुदात्तोपदेश- ६ |४ |३७ ॥ इत्यादिनाऽनुनासिकलोपः । त्रीणि युद्धार्थरथस्य ॥७५१ ॥ स क्रीडार्थ पुष्परथः
१ स इति रथः, क्रीडार्थ: क्रीडानिमित्तो न पुनः समरार्थः, असौ पुष्पे यात्रोत्सवादौ मङ्गल्यो रथः पुष्परथः, मूर्धन्योपधः । “क्रीडारथः पुष्परथः ' [ ] इति तट्टीका, द्वे ५० नामनी आह । एकं क्रीडारथस्य ।
देवार्थस्तु मरुद्रथः ।
१ देवाय अयं देवार्थ: । 'चतुर्थी तदर्थ - '२ ।१ ॥३६ ॥ इत्यादिना समासः । मरुतां देवानां रथो मरुद्रथः I "देवार्थस्तु देवरथ "[ हलायुधकोशः २ १४४६ ] इति हलायुधः । एकं देवनिमित्तरथस्य ।
योग्यारथो वैनयिकः
१३
१ योग्यायै शास्त्राभ्यासाय रथो योग्यारथः । २
१. ' - क्ष्यते' इति ॥ २. 'वो' इति३, 'खुं' इति४ ॥ ३. 'तृभूवहिवसि - ' ( उणा - ४०८ ) इत्युणादिगणे ॥ ४ 'इति' इति४ ॥ ५ एतत्स्थाने क्षीरस्वामी 'कित ज्ञाने' इति सूत्रं पठति । मैत्रेयश्च 'कि कित ज्ञाने' इति ॥ ६. ते याने' इति३ ॥ ७ 'प्रश्र - ' इति२.३ ।। ८. 'स्रवणे' इति स्वामिमैत्रेयौ ॥ ९. 'रमन्ति' इति१.२ ॥ १०. 'स्त्रीपुं' इति४ ॥ ११. 'क्रीडार्थरथः ' इति३ ॥ १२. 'देवतार्थो देवरथ:' इति हलायुधकोशे, पृ. ५१ ॥ १३. 'योग्याय' इति३ ॥
३०
For Private & Personal Use Only
www.jainelibrary.org