________________
१०
७४६ - ७४९ ]
१ प्रतीपमासरन्त्यस्मात् प्रत्यासारः । 'सृ गतौ ' (भ्वा.प.अ.), 'अकर्तरि च कारके - '३ । ३ । १९ ॥ इति घञ् । सैन्यरचनायाः पश्चाद्भाग इत्यर्थः । २ व्यूहस्य सैन्यरचनायाः पार्ष्णिः पश्चाद्भागो व्यूहपार्ष्णिः । व्यूहशब्दाभावेऽपि पार्ष्णिरपि । यद्गौडः -" प्रत्यासारे पुमान् पार्ष्णिः "[ ] । महेश्वरोऽपि - " पार्ष्णिः पाश्चात्यभागे स्यात् पादमूलोन्मदस्त्रियोः सेनापृष्ठे च कुम्भ्यां च''[विश्वप्रकाशकोशः, णान्तवर्ग:, श्रो- २०-२१] इति । द्वे भग्नसैन्यमेलस्य ॥
व्युत्पत्तिरत्नाकरकलिता
सैन्यपृष्ठे प्रतिग्रहः ॥७४७॥
१ सैन्यस्य पृष्ठं पश्चाद्भागः सैन्यपृष्ठः, तत्र । यत्र स्थितो राजा स्वसैन्यं प्रतिगृह्णाति तस्य पश्चाद् धनुः शतद्वयान्तरेण स्थितं भिन्नसङ्क्रान्तमनीकं प्रतिग्रहः उच्यते । प्रतिगृह्यतेऽवष्टम्भ्यतेऽनेन सैन्यं प्रतिग्रहः । ' ग्रह उपादाने ' ( क्या.उ.से.), 'ग्रहवृह - ३ ३ १५८ ॥ इत्यादिना अप् । “प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे " [विश्वप्रकाशकोशः, हान्तवर्ग:, श्रो- २४] इति महेश्वरः । एकं सैन्यपृष्ठस्य ॥७४७ ॥ एकेभैकरथास्त्र्यश्वाः पतिः पञ्चपदातिकां ।
१ एकेभा एकगजयुक्ता, एकरथा एकरथोपेता, त्र्यश्वा अश्वत्रयसहिता, पञ्चपदातिका पञ्चभिः पदातिभिः सहिता, २० पत्तिः सेनांश उच्यत इत्यन्वयः । पद्यतेऽस्यां पत्तिः । 'पद गौ' (दि.आ.अ.), 'स्त्रियां क्तिन् ' ३ । ३ ।९४ ॥ । यद्भारतम् - "एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तद्ज्ञैः पत्तिरित्यभिधीयते ॥१॥" []इति । एकं सेनांशस्य ॥
सेना सेनामुखं गुल्मो वाहिनी पृतना चर्मूः ॥७४८॥ अनीकिनी च पत्तेः स्यादिभाद्यैस्त्रिगुणैः क्रमात् । १ पत्तेः सम्बन्धिभिरिभरथाश्वपदातिभिः क्रमेण त्रिगुणितैः सेनादीन्यभिधानानि क्रमेण स्युः तेन पत्ति [ : ] त्रिगुणा
Jain Education International
३२९
सेना १ । २ सेना त्रिगुणा सेनामुखम् २ । ३ सेनामुखं त्रिगुणं गुल्मः ३ । ४ गुल्मस्त्रिगुणो वाहिनी ४ । ५ वाहिनी ३० त्रिगुणा पृतना ५६ पृतना त्रिगुणा चमूः ६ ॥ ७४८ ॥ ७ चमूस्त्रिगुणा अनीकिनी ७ । तत्र सेनायां गजाः ३, रथाः ३, अश्वाः ९, पदातयः १५ । सेनामुखे गजाः ९, रथाः ९, अश्वाः २७, पदातयः ४५ । गुल्मे गजाः २७, रथाः २७, अश्वाः ८१, पदातयः १३५ | वाहिन्यां गजाः ८१, रथाः ८१, अश्वा: २४३, पदातयः ४०५ । पृतनायां गजाः २४३, रथाः २४३, अश्वाः ७२९, पदातयः १२१५ । चम्वां गजाः ७२९, रथाः ७२९, अश्वाः २१८७, पदातयः ३६४५ । अनीकिन्यां गजाः २१८७, रथाः २१८७, अश्वाः ६५६१, पदातयः १०९३५, एवमनीकिन्यां सर्वाग्रं २१८७० । अमरादयस्तु
" एकेभैकरथास्त्र्यश्वाः पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥१॥ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी (दशगुणामाहुरक्षौहिणीं बुधाः) ॥२॥” [ अमरकोषः २ १८ ।८०-८१ । ] इति क्रमेण नामान्याहुः ॥ दशानीकिन्योऽक्षौहिणी
यदुक्तम्
१. तुलनीयोऽमरकोषः २ १८ १७९ ॥ २ 'भिन्नं' इति३.४ ॥ ३ 'ष्टभ्यते' इति१.२ ॥ ४ 'प्रतिग्रहः' इति, 'प्रतिग्रहे' इति४ ॥ ५ तुलयोऽमरकोप २ ८ १८० ॥ ६ 'भारते' इति३.४ ॥ ७द्र अम. क्षीर. २४८ ।८१ ॥ पृ. १९१ ॥ ८ 'चमू' इति३ ॥ ९ 'त्रिगुणितं ' इति४ ॥ १०. कोष्ठान्तर्गतपाठस्थानेऽमरकोषे “दशानीकिन्योऽक्षोहिण्यथ सम्पदि" इति दृश्यते ॥ ११. 'गणा' इति१.२ । १२. 'लक्ष' इति१ ॥
For Private
१ दश अनीकिन्यः, दशगुण अनीकिनी इत्यर्थः, अक्षौहिणी उच्यत इति शेषः । अक्षाणां रथकाष्ठानामूहोऽस्यामित्यक्षौहिणी । ' अक्षादूहिण्या ( न्या) म्' (वा६ । १ ८९ ॥ ) इति वृद्धिः । महाभोगतया सर्वेषामप्यक्षाणामिन्द्रियाणामूहः सविकल्पज्ञानमिति अक्षौह: (अक्षोह: ), तद्योगाद् मत्वर्थीयेनौ ‘ऋनेभ्यो ङीप् ४ ११ ॥ ५ ॥ 'अकृतव्यूहाः पाणिनीयाद् (पाणिनीयाः ) ' (परिभाषा) इति प्रविभज्यान्वाख्याने 'अक्षादूहिन्याम्- ' ( वा - ६ ११ १८९ ॥ ) इति वृद्धौ अक्षौहिणीति वा । गणनक्रमेण सप्ततिसहिताष्टाशताधिकैकविंशतिसहस्राणि गजाः २१८७०, इयन्त एव रथाः २१८७०, दशोत्तरषट्शताधिकानि पञ्चषष्टिसहस्राण्यश्वा: ६५६१०, पञ्चाशदुत्तरशतत्रयसहितनवसहस्राधिकमेकलक्षं पत्तयः १०९३५० ।
Personal Use Only
४०
५०
www.jainelibrary.org