________________
३२८
सङ्ग्रामोऽस्त्यस्याम् अनीकिनी । अत इनिठनौ ४ । २ । ११५ ॥ इतीनि 'ऋनेभ्यो ङीप् ४ ११ ॥५ ॥ ॥ ७४५ ॥ ७ कटत्यावृणोति पृथिवीमिति कटकम्, पुंक्ली. । 'कटे वर्षावरणयो: ' (भ्वा.प.से.), क्वुन् । ८ ध्वजाः सन्त्यस्यां ध्वजिनी । 'अत इनिठनौ ४ । २ । ११५ ॥ इतीनिः । ९ तन्यते तन्त्रम् । तनु विस्तारे ' (त.उ.से.), 'गुधृवीपचिवचियमिमनितनिसदिनदिभ्यस्वनं ' ( उणा- ६०६) १० दण्ड्यतेऽनेन दण्डः, पुंक्ली. । 'दण्ड दण्डने ' ( चु.उ.से.), करणे घन् । १९ अनित्यनेन भीरुरिति अनीकम्, पुंक्ली. 'अन १० प्राणने ' ( अ.प.से.) अनिशिभ्यां [ कित्] च' (उणा-४५७) इतीकन् । १२ पताकाः सन्त्यस्यां पताकिनी । व्रीह्मादित्वादिनि । १३ वरूथो रथगुप्तिरस्त्यस्यां वरूथिनी अत इनिठनौ ४ । २ । ११५ ॥ इतीनि । १४ चमत्यत्ति शत्रूनिति चमूः, स्त्रीलिङ्गः । 'चमु अदने ' ( भ्वा.प.से.), 'चमितनिर्वाधिभ्य ॐ : ' ( चान्द्रोणा - ११४३३) इत्यूः । 'कृषिचमितनिरनि (रमि) सर्जि [ खर्जि ] भ्य ऊ: ' ( उणा-८१)" [मा. - धातुवृत्तिः भ्वादि:, धातुसं ३०९] इति माधवः । "चमुः [ शब्दभेदप्रकाशः, श्रो- १२] ह्रस्वान्तोऽपीति शब्दप्रभेदः । १५ करोति जयं चक्रम्, पुंक्ली. । 'डुकृञ् करणे' (त.उ.अ.), २० 'कृञः क्लिदेः क्रसश्च' ( ) कप्रत्ययः, द्वित्वम् ('घञर्थे कः ' (वा ३।३१५८ ।। ) इति कः कुजादीनां के द्वे' (वा६ ११ १२ ॥ इति द्वित्वम्) । 'चक तृप्ती' (भ्वा.प.से.) अस्माद् ग् वा । १६ चतुरङ्गसैन्यस्य प्रधानभूतत्वाद् राजा स्कन्धः, तमावृणोति स्कन्धावारः । 'वृञ् आवरणे (स्वा.उ.से.), 'कर्मण्यण् '३ ।२ ।१ ॥ । शिबिरमित्यन्ये । षोडश सेनायाः ॥
44
,
4
अस्य तु स्थितिः ॥ ७४६ ॥
अभिधानचिन्तामणिनाममाला
शिबिरम्
१ अस्य सैन्यस्य स्थितिः सन्निवेशः शिबिरम् ॥ ७४६ ॥ 'शिर्व (शिव) गतौ (भ्वा.प.से.), तालव्यादिः,
[ मत्येकाण्डः-३
बहुलकाद् इषि [ मंदि] मुदि- ' ( उणा - ५१ ) इत्यादिना किरच् । ३० निवेशोऽपि । यदमर:- "निवेशः शिबिरं शण्ढे "[ अमरकोषः २।८।३३ ॥ ] | "निवेश्यते सन्निवेशेन स्थाप्यते निवेश:, सैन्यावास: ''[ अम. क्षीर. २ १८ । ३४ ॥ ] इति क्षीरस्वामी । "निवेशः शिबिरोद्वाहविन्यासेषु प्रकाशित : " [ विश्वप्रकाशकोशः, शान्तवर्ग:, श्रो- २४] इति महेश्वरः । एकं सैन्यस्थितेः । "ऊतारा' इति भाषा ॥
१२
Jain Education International
रचना तु स्याद् व्यूहो दण्डादिको युधि । ९ युधीर्ति सङ्ग्रामनिमित्तं रचना, अर्थात् सैन्यस्य व्यूहः इत्युच्यते, बलद्वयस्य युद्धार्थं देशविशेषे [ विभज्य ] स्थापनं व्यूह इत्यर्थः । ऊह वितर्के' (भ्वा. आ.से.), विपूर्वः ४० घञ् । कीदृग् व्यूहः ? दण्डादिकः, दण्ड आदिर्यस्य से दण्डादिक:, तेन दण्डः, भोग:, मण्डल, असंहतश्चेति चत्वारो गृह्यन्ते । यत् कामन्दकि:
د
" तिर्यग्वृत्तिस्तु दण्डः स्याद् भोगोऽर्था (न्वा ) वृत्तिरेव च । मण्डलः सर्वतो वृत्तिः पृथग्वृत्तिरसंहतेः ॥१॥"
[] इति । तत्र सैन्यानां दण्डवत्तिर्यगवस्थानं दण्डः I सैन्यानामन्वावृत्तिरन्योन्यानुगतवृत्तिर्भोगः । मण्डलरचनायां वसतां सैन्यानां सर्वतो वृत्तिः सर्पशरीरवद् मण्डलः 1 स्थितानां गजादिसैन्यानां विजातीयैरमिश्रितानां पृथग्वृत्तिः असंहतः । तत्र प्रदरदृढकासह्यादयः सप्तदश दण्डव्यूहभेदाः । गोमूत्राहिसञ्चारिशकटमकरपताकाः पञ्च भोगभेदाः । सर्वतो भद्रोन्तर्जपश्च मण्डलभेदः । अर्धचन्द्रकोलादयश्चाऽसंहतव्यूहभेदाइर्त । केचित्तु -
" दण्डो मण्डलभोगौ चाऽप्युत्सन्नश्चाऽचलो ढः । व्यूहास्तेषां विशेषाः स्युचक्रव्यूहादयोऽपि च ॥ १॥" [" ]इति षण्मूलभेदानाहुः । एकं सैन्यरचनायाः ॥ प्रत्यासारो व्यूहपार्ष्णि
+
१. 'ङीष्' इति२.४ ॥ २. इतोऽग्रे ३. ४प्रत्योः 'इति' इति दृश्यते ॥ ३ - क्षुदि-' इति४ ॥ ४. 'गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः '(उणा६०६ ) इत्युणादिगणे ॥ ५ 'दण्ड दण्डनिपातने' इति स्वामिसायणौ, 'दण्ड निपातने' इति मैत्रेयः ॥ ६ 'अन' इति४ ॥ ७ 'अनिहृषिभ्यां' इत्युणादिगणे ॥ ८ उणादिगणसूत्रे 'रमि' इत्यस्य स्थाने पनि' इति दृश्यते १ 'वर' इति 'वृञ् करणे' इति स्वाद धीरतरङ्गिव्यादयः ॥ १०. १. २ प्रत्योर्नास्ति ॥ ११. 'शिबि' इति३ ॥ १२. 'प्रकीर्त्तित:' इति विश्वप्रकाशकोशे, पृ. १६९ ॥ १३. 'उ' इति३ ॥ १४ 'युध्यति' इति४ ॥ १५. १ प्रतौ नास्ति ॥ १६. कामन्दकीयनीतिसारे "तिर्यग्वृत्तिश्च दण्डः स्याद् भोगत्वाद्वृत्तिरेव च । प्रदशे रुद्धकोऽसचापो वै तद्विपर्ययः " इति दृश्यते, सर्गः - १९, श्रो- ४३, पृ.२२२ ॥ १७ द्र. टीकासर्वस्वम्, भा-३, २१८१७९ ॥ पृ. ११७॥, पदचन्द्रिका, भा-२, क्षत्त्रवर्गः, श्लो-५३३, पृ.६१७ ॥ रामाश्रमी २ ८ १७९ ॥, पृ. ३८० ॥ १८. - मत्वर्थवृ ' इति३ ॥ १९. अत्र कामन्दकीयनीतिसारो द्रष्टव्यः, पृ.२२२२२४॥ २०. द्र. अम.क्षीर. २।८।८० ॥ पृ. १९१ ॥ स्वोपज्ञटीका३ ७४७ ॥ पृ. १६५ ॥ २१. तुलनीयोऽमरकोषः २ ४८ १७९ ॥
For Private & Personal Use Only
५०
www.jainelibrary.org