________________
२८ नियमः, तेन 'प्रजा इवाङ्गादरविन्दनाभेः"(शिशुपालवधम् ३६५॥ )इत्यादि प्रयोगा । एवं अधीनशब्दविषये "अस्मास्वधीनं किमु निःस्पृहाणाम्" इत्यादिषु नियमः(पृ.१६०, पं.१४), श्वपचशब्दे(पृ.४१२, पं.१९)
"अविधिः सर्वधातुभ्यः, पठ्यन्ते च पचादयः । अण्बाधनार्थमेव स्यात्, सिद्ध्यन्ति श्वपचादयः ॥१॥" (२३) व्यवहारिकज्ञानम् - उपालम्भविषये(पृ.१२७, पं.५) "उपालम्भो द्विविधः, गुणाविःकरणपूर्वको, निन्दापूर्वकश्च ।
आद्यो यथा- महाकुलजस्य भवतः किमुचितमिदम्? । द्वितीयो यथा- बन्धकीसुतस्य तवोचितमेवेदमिति"।
"सनिन्द उपालम्भः परिभाषणम्" इति ॥ (२४) नीति:- "अधिक्षिप्तोपि विकृतिं न याति क्वापि सज्जनः"(पृ.१९३, पं.१०), "अपन्थानं तु गच्छन्तं सोदरोऽपि
विमुञ्चति''(पृ.२४४, पं.५), "तं तु देशं न पश्यामि यत्र भ्राता सहोदरः''(पृ.२४४, पं.६)॥ "अपकारिण्यपि प्रायः सौम्याः स्युरुपकारिणः । मारकेभ्योऽपि कल्याणं रसराजः प्रयच्छति ॥१॥" (पृ.४७४, पं.४४) ॥ "उपार्जितानामर्थानां, त्याग एव हि रक्षणम् । तडागोदरसंस्थानां, परीवाह इवाम्भसाम् ॥२॥"
(पृ.४९४, पं.२६)॥ (२५) मूलकाराद् विशेषप्रतिपादनम्- नाममालाकारेण 'कर्णजलौकस्'(कानखजूरा)शब्दः चतुरिन्द्रियेषु प्रोक्तः, परं स
प्राणिविशेषस्त्रीन्द्रिय इति प्रज्ञापनोपाङ्गादिपाठतः साधितम् । श्रीमलयगिरिकृतवृत्तिरपि तत्र प्रदर्शिता (पृ.५६१, पं. २, १०)॥ (२६) ज्ञेयं किञ्चिद्- मति-बुद्ध्यादीनां पर्यायत्वेऽपि भेदः, यथा"मतिरागामिकीज्ञेया, बुद्धिस्तत्कालदर्शिनी । प्रज्ञाचातीतकालज्ञा, मेधाकालत्रयात्मिका ॥१॥"(पृ.१४१,पं.३५)॥
एवं- "तत्त्वोल्लेखशालिनी प्रज्ञा प्रतिभा"(पृ.१५५, पं.२१),
"दूरादेवार्थसन्दर्शी दीर्घदृष्टिः प्रकीर्तितः ''(पृ.१५५, पं.४०) ॥ शृङ्गारादिरसानामपि देवता, यथा"शृङ्गारो विष्णुदेवः स्याद्, वास: प्रथमदैवतः । करुणो यमदेवस्तु स्याद्, रौद्रो रुद्रदैवतः॥१॥" (पृ.१३५, पं.३५) प्रकरणविषये"शास्त्रैकदेशसम्बद्धं, शास्त्रकार्यान्तरस्थितम् । प्राहुः प्रकरणं नाम, शास्त्रभेदं विपश्चितः ॥२॥"(पृ.११८, पं.१०) एवं श्राद्धशब्दे(पृ.३६४, पं.३४)। नञर्थे"तत्सादृश्यमभावश्च, तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च, नबर्थाः षट् प्रकीर्तिताः ॥३॥"(पृ.६३०, पं.३५).
"निपाताश्चोपसर्गाश्च, धातवश्चेति ते त्रयः ।अनेकार्थाः स्मृताः सर्वे, पाठस्तेषां निदर्शनम् ॥४॥"(पृ.७०९, पं.३४) (२७) शब्दरचनाचातुर्यम्- महिलाशब्दवत् महेलाशब्दोऽपि तद्विषये ।
"अजयद् द्विषतः प्राज्यनयः परमहेलया । स्वप्नेऽपि मनसि स्पृष्टो, न य: परमहेलया ॥१॥"(पृ.२२१, पं.५२) राम्भशब्देऽपि श्लोकार्धम्
"श्रीमन्महाहंसनिषेवितत्वाददः सरो, भो न न रोचते मे ॥ अत्र सरो रेफसहितो भो भकारो मह्यं रोचते, रम्भ इत्यर्थः अदः दकाररहितो न, दकारसहित इत्यर्थः, भो
भकारो दम्भ इत्यर्थः, स तु न रोचते इत्यर्थः''(पृ.३६१, पं.१२) । (२८) प्रयोगनियमाः- अम्बाशब्दप्रयोगः क्व कथं कार्यः ?(पृ.१५०, पं.१६), सङ्घशब्द: सङ्घातशब्दो वा कथं प्रयोज्य:
(पृ.६४९, पं.४४,५१), यौवतं यौवनं वा कथं प्रयोज्यम्(पृ.६५१, पं.१)इत्यादिकमपि सोदाहरणं कथितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org