________________
२९
- (२९) ज्ञान-विज्ञानवैशिष्ट्यम्- कामबाणाः पञ्च(पृ.१०८), गीत-गेय-गान-तालादि(पृ.१२९-१३३), मृदङ्गादिवाद्यसम्बन्धि
(पृ.१३४), व्यभिचारिभावः, स्थायिभावः(१४६, १४७), रणनन्दी-नाटकनन्दी(पृ.१४८), स्मितविहसितादिकम् (पृ.१३६), रसवतीविषये यवागू-अपूप-पौलि(पोली)-अपूप-मथित(मढो)प्रभृतिकम्(पृ.१७६-१८२), रोगादिसम्बन्धिगलगण्डप्रतिश्या-गुदग्रह-मूत्रकृच्छ-भगन्दर इत्यादिकम्(पृ.२०५-२०८), स्त्रीणां लीलादयो दशालङ्काराः (पृ.२२३-२२४), अर्याणी(पृ.२३१), स्वैरिणी(पृ.२३४), पुनर्भू(पृ.२४२), ननान्दा न नन्दति तुष्यति, न नन्दयति भ्रातृजायामिति वा(पृ.२४५), यक्षकर्दमादिधूपविषयकम्(पृ.२८२), काञ्ची-शिञ्जिन्याद्याभरणज्ञानम्(पृ.२९४), पुरुषविषये कः प्राड्विवाक: (पृ.३१५), को वर्षवरः(३१९), सन्धि-विग्रहादिषड्गुणा:(३२२), सामादयश्चत्वार उपाया:(पृ.३२३), युद्धरचना(पृ.३२८), अक्षौहिण्यादि(पृ.३३०), विजयादशम्यां प्रस्थानात् प्राक् करणीयो लोहाभिसारो विधि:(पृ.३४९), वानप्रस्थभिक्षुप्रकाराः(पृ.३५७), षट्कर्मा, माणवक:(पृ.३५९), भिक्षा कीदृशी(पृ.३६०), लीलावतीगणितायुद्धृतं पौतव-द्रुवयपाय्यरूपं मानत्रयं सविस्तरं दर्शितम् (पृ.३८५-३८९), सुरा (मद्य) भेदाः (पृ.३९९), भारतवर्षादि(पृ.४२१), नगरपत्तनादिकम्(पृ.४३२), तोरण-नासा-गोपानसीप्रभृतिवास्तुविषयकम्(पृ.४५०-४५१), स्वस्तिक-नन्द्यावर्तादि(पृ.४५४), धातुविषयकं हिरण्य-गाङ्गेय-जातरूप-जाम्बूनद-रसराज-स्फटिकादिसम्बन्धि(पृ.४७०-४७५) नदीषु आपगा, त्रिपथगा, स्वर्णदी, चन्द्रभागा, तापी(पृ.४९०-४९१), आयुर्वेदौषधिप्रसङ्गे अश्वत्थ-बिभीतक-उदुम्बर-त्रिफलादिसम्बन्धिनः धन्वन्तरिनिघण्टुश्लोकाः(पृ.५२९-५३०), धान्यशाकविशेषा:(पृ.५४१), अश्वजातौ आजानेय-श्रीवत्सक्यादि(पृ.५७२५७३), मत्स्यभेदा: पाठीन-शकुल-रोहित-शिशुमारादयः(पृ.६१८-६२०), क्षेत्रज्ञ आत्मादिविषयकम्(पृ.६२६), षड्जादयः सप्तस्वराः(पृ.६४४), ध्वनिविषये काकली, काकुः(पृ.६४७-६४८)॥
इत्यादिकं यत्तत्रोक्तम्, अत्राप्युक्तं तन्नेहोक्तम्, यत्तु तत्र नोक्तम्, अत्र चोक्तं तदेव दिङ्मानं प्रदर्शितम् । स्वोपज्ञवृत्तितः प्रभूततममिह वृत्तौ प्ररूपितम् । इह तु वृत्तिविषयकं कियदेवोक्तम्, शब्दव्युत्पत्तिजिज्ञासुभिरवश्यं वृत्तिरेषा पठितव्या, यतः "मार्गज्ञः सह याति किम् ?"॥ प्रत्यन्तरे सत्यमेवोक्तम् शब्दार्थवर्णने ब्रह्मादयोऽपि न शक्ताः, तर्हि वयं तु कथम् ?
"स ब्रह्मा चतुराननः स भगवानीशोऽपि पञ्चाननः, स स्कन्दश्च षडानन: स फणिनामीशः सहस्राननः । यत्पद्यार्थविशेषवर्णनविधौ नेशा वयं तत्र के ?
यद् व्याख्यायि तथापि किञ्चिदखिलं तच्चापलं केवलम् ॥१॥" इति (पृ.७०९, टी.१४) ॥ (३०) सम्पादकीयविशिष्टता- गणिवर्येण रत्नाकरेऽगाधेऽस्मिन् प्रवेशितुमगाधः परिश्रमः कृतः, सम्पादनशैली कथितैव,
परं शब्दसाधनिकायां प्रत्येकसूत्राणां स्थाननिर्देशः, धात्वादिविषये गण-आत्मनेपद-परस्मैपद-सेट-अनिट्-वेट आदिकम्, श्लोकादीनां स्थानशोधनेऽपि परिश्रमोऽत्यन्तः कृतः, तथापि येषां स्थानादिनिर्देशो नोपलब्धः, तेषां स्थानादि विद्वद्भिरवश्यं
मृग्यं प्रेषणीयं च ॥ (३१) मुद्रणव्यवस्था- रत्नाकरोऽयं सुचारुदृश्यते, यथोदधिजलं निर्मलं स्वच्छं च वरीवर्तते, तथाऽस्मिन्नपि ग्रन्थे सुचारुता
सुपठनयोग्यता पाठशुद्धता च दरीदृश्यते, सोऽखिलः प्रयास: 'भरत ग्राफिक्स' यन्त्रालयस्य, तत्सञ्चालकभरतभाईमहेन्द्रभाईआदीनां ज्ञेयः । सहायकसङ्गादिसंस्थानामपि सहयोगः, सहवर्तिसाधूनां तु सविशेषः । संशोधक-सम्पादकगणिवर्यश्रीचन्द्रविजयेन यथा रत्नाकरोऽयमुत्तीर्णस्तथा धीमन्तो विद्वांसः पिपठिषवश्छात्राश्चैनमुत्तीर्य, अक्षरसाधनयाऽक्षरं पदं शीघ्रं प्राप्नुयुरिति कामये ॥
वि. सं. २०५९, चैत्रे सुदि-१३, श्रीवीरजन्मकल्याणकदिनम्,
बामहाराजसाध्वीजीश्रीउपशान्त श्रीस्वर्गवासदिवसः, सुरतपीपलोदवर्तिश्रीमुनिसुव्रतस्वामिसान्निध्ये ॥
पूज्याचार्यश्रीविजयचन्द्रोदयसूरिगुरुबन्धुपूज्याचार्यश्रीविजयअशोकचन्द्रसूरिचरणकिङ्करः
सोमचन्द्रविजयः
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org