________________
२७
यद्वा नैरुक्ती शब्दव्युत्पत्तिः इत्यादि, तत्र क्षद् अष्टप्रकारं कर्म, तां क्षधं ज्ञानदर्शनचारित्रतपोभिर्भिनत्तीति भिक्षुः । पृषोदरादित्वादिष्टरूपसिद्धिः। द्वे हि शब्दस्य निमित्ते- तद्यथा व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तं च। यथागोशब्दस्य गमनक्रिया व्युत्पत्तिनिमित्तम् , सास्नादिमत्त्वं प्रवृत्तिनिमित्तम् , अश्वादौ तु न यथोक्तरूपस्य प्रवृत्तिनिमित्तस्य तत्राऽभावात् । एवमत्रापि भिक्षुशब्दस्य द्वे निमित्ते, भिक्षणं व्युत्पत्तिनिमित्तम्, इहपरलोकाशं
साविप्रमुक्ततया यमनियमेषु व्यवस्थितत्वं प्रवृत्तिनिमित्तम्" इत्यादि विस्तरतः प्रतिपादितम् ॥ (१६) शब्दसिद्धौ ग्रन्थाकारान्तराभिप्राय:- एकशब्दसाधनिकायां येषां यानि मतानि, तेषामुल्लेखः कृतः । यथा
स्वर्गपर्यायेषु(पृ.२४, पं.१) त्रिदिवशब्दव्युत्पत्तौ- "त्रयो बह्मविष्णुरुद्रा दीव्यन्त्योति, त्रिदशा दीव्यन्त्यत्रेति वा त्रिदिवम्"। अत्र केन सूत्रादिना कप्रत्यय इति विषये सर्वानन्दादयः, क्षीरस्वामी, आचार्याः, राजदेवादयश्च किं मन्यन्ते,
वयं मन्यामहे इत्युक्त्या स्वामिप्रायोऽपि दर्श्यते ॥ (१७) नक्षत्रादिविषयकचर्चा- विशाखानक्षत्रमेकमेवेति प्रायोवादः । वृत्तिकारस्तु- "मिश्रास्तु विशाखे द्वे, अत एव
द्वित्वमुचितं 'विशाखे' इति, तथा च रामायणम्पल्योर्मध्यगतस्तत्र, सुग्रीवः प्लवगेश्वरः । विशाखयोर्मध्यगतः, सम्पूर्ण इव चन्द्रमाः ॥१॥"
इति (पृ.३८, पं.६०) ॥ अत्रैकत्वं द्वित्वं वा जाघटीतीत्यपि चर्चितम् ॥ (१८) काव्यश्लोकप्राचुर्यम्- शब्दानां प्रयोगाः काव्येषु कथं प्रयुज्यन्त इति तु प्रायः प्रतिश्लोकं विशदीकृतम् ।
यथा प्रभातार्थकप्रत्यूषशब्दप्रयोगो मेघदूते- "प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः"(पूर्वमेघः, श्लो-३१) (पृ.४८, पं.३८)इति, दुर्दिनप्रयोगे- "दुर्दिनेऽप्यभिसारिकाः''(कुमारसम्भवम् ६४३)इति(पृ.६५, पं.४७), प्रपातस्त्वतटोभृगुः शब्दत्रिके "प्रभुः प्रपातध्वनिमिश्रतूर्यः''(रघुवंशम् १६।३२) इति(पृ.४६४, पं. ४४), "स्तनातटे चन्दनपङ्किलेऽस्याः "(नैषधे ७८०) इति(पृ.४६४, पं.४५), "कृत्वा पुंवत्पातमुच्चै गुभ्यः" (शिशुपालवधम् ४।२३)इति (पृ.४६४, पं.४७), क्षुद्रकूपार्थकचुण्ढीचूतकादिप्रयोगानप्याह-यथा "चुण्ढीमपि महोदधिम्''(पृ.४७७, पं.३१), "चूतकानां रसं
पीत्वा, पान्थाः पथि सुखं ययुः" (पृ.४७७, पं.३४)इत्यादिकम् ॥ (१९) कालादिविषयकम्- प्रभातकालः कः? इत्यादिविषये विष्णुपुराणादिगतश्लोकोल्लेखः । यथा- "प्रभातकालो हि
सूर्या|दयादारभ्य घटिकाषट्कं यावद्भवति, यद्विष्णुपुराणम्लेखाप्रभृत्यथादित्ये, त्रिमुहूर्ते गतेऽत्र वै( रवौ) । ज्ञेयः प्रातस्ततः कालो भागश्चाह्नः स पञ्चमः ॥१॥" (विष्णुपुराणम्, अंश:-२, अ-८, श्लो-६२) इति(पृ.४८, पं.५२), एवं सन्ध्या -कुतपादिविषये(पृ.४९, पं.१९, ४७),
ब्राह्म अहोरात्रं मन्वन्तरादिकं कियत्प्रमाणमेतद्विषये लिङ्गपुराण-ज्योतिषादिकम्(पृ.६१-६२) ॥ (२०) शब्दलिङ्गवचनादिनिर्देश:- प्रतिशब्दं प्रायः लिङ्गवचनादिप्रामाण्यं कथितम् । यथा वर्षाशब्दः स्त्रियां बहुत्वे च,
तदुक्तम्"आप: सुमनसो वर्षा, अप्सराः सिकताः समाः । एते स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरत्रयम् ॥१॥" इति(पृ.५९, पं.५१), एवं दाराशब्दे (पृ.२२७, पं.३), वर्षाभूः (पृ.६२१, पं.४६), वातप्रमीशब्दस्य तु रूपाण्यपि
(पृ.५९६, पं.२९)॥ (२१) मेघादिकविज्ञानम्- मेघास्त्रिविधा इत्यादिकमपि निरूपितम् । अन्यत्र मेघजीमूतादीनामेकरूपेणैव वर्णितम्, यथा
"मेघास्त्रिविधास्तत्र, वह्निजा धूमयोनयः । निःश्वासजास्तु जीमूतास्ते ज्ञेया जीवरूपिणः ॥१॥"
यज्ञजास्तु घना घोराः, पुष्करावर्तका[दयः ]" इति(पृ.६५, पं.२७)॥ (२२) व्याकरणनियमः- पद्मनाभशब्दः (पृ.१००, पृ.४०) 'अच् प्रत्यन्ववपूर्वात्-५४।७५ ॥ इति सूत्रे अच् इति योगविभागात्
साधितः । तत्र नियमितम्- "योगविभागस्य हि पूर्वदृष्टमात्रसाधकत्वम्, न तु नाभ्यन्तस्य सर्वत्रैवाच्समासान्त इति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International