________________
२६
(समवायाङ्गसूत्रे, सू-३४)इति, अत्र चाग्रे निशीथचूर्णी-प्राकृतव्याकरणाद्युल्लेखः कृतः(पृ.-१५, पं.६३)। चतुर्दशपूर्वेषु कियन्ति वस्तूनीति निरूपितम्, यथा- "पूर्वेषु तु दशादीनि वस्तून्यपि सन्ति । यदुक्तम्"क्रमाद् वस्तूनि विधित्वमाद्ये दश चतुर्दश । अष्टादश तुर्ये हि द्वादश द्वौ च षोडश ॥१॥ त्रिंशत्तु विंशतिः पञ्चदश द्वादश वै तथा । त्रयोदश ततस्त्रिंशत् पञ्चविंशतिरन्तिमे ॥२॥ उत्पादादिषु पूर्वेषु ह्यन्तर्वर्ती प्रकारतः । अधिकारविशेषस्तु वस्तुविज्ञैः प्रकीर्तितम्॥३॥"[ ] इति ॥
इति(पृ.११५, पं.४८), उल्ब(गर्भप्रथमावस्था)विषये आचाराङ्गवृत्तिः (पृ.२३९, पं.४४)इत्यादि ॥ (१०) अर्थसाधकश्लोकायुपन्यास:- तत्तच्छब्दार्थपुष्टिं कर्तुं मनुस्मृत्याद्यनेकग्रन्थानां श्लोकादिप्रामाण्यप्राचुर्यं प्रदर्शितम् ।
यथा आचार्यशब्दविषये"उपनीय तु यः शिष्यं, वेदमध्यापयेद् द्विजः । साकल्यं सरहस्यं च, तमाचार्यं प्रचक्षते ॥१॥"
(मनुस्मृति: २।१४०, श्लो-७७) इति(पृ.२०, पं.१०), एवं गुरुशब्द:(पृ.१९, पं.५६)इत्यादि ॥ (११) भाषाशब्दप्रयोगा:- स्वोपज्ञवृत्तिकाले मागध्यादिभाषाप्रचारसत्त्वेऽपि गुर्जरभाषाप्रसारो न, ततश्च तत्र भाषाशब्दा
संस्कृतशब्दपर्यायरूपतो न लभ्यन्ते, अत्र तु पौष्कल्येन दृष्टिगोचरा भवन्ति, यथा- सब्रह्मचारिणः "साहमि इति भाषा''(पं.२१, पं.९)इति, प्रकाशार्थे 'उजुआलु'(पृ.३२, पं.५८), मृगतृष्णार्थे 'झांझूआ'(पृ.३२ पं.६६), अपररात्रः 'पाछिली रात्रि'(पृ.५२, पं.४१), शीकर: 'वाछंटी'(पृ.६६, पं.६), 'तेडवं'(पृ.१२१, पं.४०), 'मजूर'(पृ.१६२, पं.१४), 'आलसू'(पृ.१७०, पं.२४), 'भेला जीम'(पृ.१८७, पं.४७), 'पातली रोटी'(पृ.१७६, पं.३९), 'मामी' (पृ.२३१, पं.९), 'डोकरी'(पृ.२३७, पं.२०), 'साली'(पृ.२४५, पं.३४), 'दादा'(पृ.२४६, पं.२२), 'वींटी'
(पृ.२९३, पं.१७) इत्यादिकम् ॥ (१२) योगशास्त्राणामपि निदर्शनम् - प्राणायामादिशब्दानां सिद्धौ योगशास्त्रग्रन्था अप्युल्लेखिताः । यथा
"प्राणायामो गतिच्छेदः, श्वासप्रश्वासयोर्मतः । रेचकः पूरकश्चैव, कुम्भकश्चेति स त्रिधा ॥१॥"
(योगशास्त्रम्, प्रकाश:-५, श्लो-४)इति(पृ.२१, पं.५६) ॥ (१३) शब्दसाधकश्लोकादिसम्बन्धः- शब्दानां सिद्धौ विविधा व्युत्पत्त्यः सम्भवन्ति, काश्चित्तु स्वोपज्ञवृत्तौ न लभ्यन्ते, ता
अप्यत्र दृश्यन्ते, प्रमाणमपि तत्र दर्शितम् । यथा सुरशब्दव्याख्यायाम्- "परिग्रहात् सुराः अपरिग्रहाद् दैत्याः, "सुरा परिग्रहाद् देवाः, सुराख्या इति विश्रुताः । अपरिग्रहणात् तस्या दैतेयाश्चासुराः स्मृतास्तथा ॥१॥" रामायणे ।" सुष्ठु राजन्ते इति विग्रहतः साधित:(पृ.२४, पं.४३)। एवं मार्तण्ड:(पृ.२७, पं.६४), मिहिरः(पृ.५३० पं.१), कथं स्ववैद्यौ वडवासुतौ कथ्येते(पृ.७५ पं.३८), कथं कुबेर:(पृ.८१ पं.३९), कथं रुद्रः (पृ.८५, पं.४५),
कथं शङ्करः(पृ.८६, पं.१४), ईश्वरः(पृ.८७, पं.४), नीललोहितश्च(पृ.८७, पं.५५), महादेवः (पृ.८८, पं.१०), "महतामपि देवानामहमेव महान् यतः । न तु मत्तो महानन्यो, महादेवस्ततो ह्यहम् ॥१॥"
(स्कन्दे, पृ.८८, पं.१६) पशुपतिः(पृ.८८, पं.२४), दुर्गा(पृ.९१, पं.३१)इत्यादिकं सुचारुतया दर्शितम् ॥ (१४) अनुक्तशब्दसाधनिका- नामामालायां ये शब्दा न सङ्ग्रहीताः, व्यवहारे तु प्रयुज्यन्ते, तेषामपि साधनिकाऽत्र दर्शिता ।
यथा- देवपर्यायवाचिश्लोके दिवौकस्शब्दो न, तथाप्यत्र साधितः । ग्रन्थकृत् स्वयमेवाह- "अत्राऽनुक्तमपि दिवौकस इति नाम व्युत्पाद्यते''(पृ.२५, पं.४९)इति । एवं हाहाशब्दप्रसंगे हूहूशब्दः (पृ.७७, पं.४१), क्रव्यात्प्रयोगे क्रव्याद
शब्दोऽपीति वैयाकरणिकैः साधित: (पृ.७९, पं.५१), तन्त्रमपि(पृ.४०३, पं.२९), अष्टापदोऽपि(पृ.५९१, पं.४८) ॥ (१५) शब्दविशेषार्थः- शब्दस्य सामान्यतो योऽर्थो भवति, ततो विशेषार्थो यो भवेत्, सोऽपि दर्शितः । यथा- भिक्षुशब्द
व्याख्यायाम् (पृ.१९ पं.१७)- यमनियमव्यवस्थितः कृतकारितानुमोदितपरिहारेण भिक्षत इत्येवंशीलो भिक्षः।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org