________________
२५
"क्षीरस्वामि-महेश-रक्षित-सुभूति-व्याडि-वोपालितस्वामि-न्यास-पुराण-भाष्य-रभस-ग्रन्थांस्तथानेकशः ।
धान-रुद्र-धरणि-स्कन्दर्भगर्वादिकान सदग्रन्थानपजीव्य यत्यत इह ग्रन्थे मया सादरम् ॥१॥" इति ॥ (४) व्याकरणफक्किका- नाममालायामाद्यश्लोके "प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः" इत्युक्तम्, तत्र
'शब्दानुशासनम्' इति शब्दः कथं व्युत्पन्नः ? शब्दानामनुशासनं शब्दानुशासनम् , अत्र यदि 'उभयप्राप्तौ कर्मणि' २।३।६६ ॥ इत्यनेन षष्ठी स्यात् तर्हि 'कर्मणि च'२।२।१४ ॥ इति सूत्रेण समासप्रतिषेधः स्यात्, ततश्च 'आश्चर्यो गवां दोहोऽगोपेन' इतिवत् समासो न स्यात्, परमत्र तु उभयप्राप्तिरेव न, अतो नाऽत्र तेन सूत्रेण षष्ठी, किंतु 'कर्तृकर्मणोः कृति'२॥३॥६५॥ इत्यनेन, शेषलक्षणया वा षष्ठी, तेन इध्मप्रव्रश्चनवत् समासो भवत्येवेत्यादिकं 'ननु, न च' इति पाणिनीयप्रक्रियया काशिकाविवरणपञ्जिकानुसारं विशदीकृतम् । एवमन्यत्रापि ॥ व्याकरणमहत्ता- 'सिद्धसाङ्गशब्दानुशासनः' इत्युक्त्या लिङ्गोणादिधातुपाठगणपाठाद्यङ्गसहितं व्याकरणं विरच्य नाममालां निर्मितवन्तो हेमचन्द्राचार्याः । ततश्च शब्दविद्याधीनः सर्वविद्यानामुत्कर्षः । तदुक्तम्"उपासनीयं यत्नेन, शास्त्रं व्याकरणं महत् । प्रदीपभूतं सर्वासां, विद्यानां यदवस्थितम् ॥१॥" इति ।
ग्रन्थकृतामपि व्याकरणप्रौढिमा प्रतिप्रयोगं दरीदृश्यते ॥ (६) शब्दानां प्रवृत्तिः- शब्दानां प्रवृत्तिश्चतुर्विधा, त्रिविधा, एकैव वेति मतवैविध्येन विशदीकृतम् । केचिद् जाति
शब्दाः, गुणशब्दाः, क्रियाशब्दाः, यादृच्छिकशब्दाश्चेति चतुर्विधत्वम्, निरुक्तकाराः शाकटायनादयश्च त्रैविध्यमेकत्वं वा स्वीकृर्वन्ति। तदाह
"नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् ।
यन्न पदार्थविशेषसमुत्थं, प्रत्ययत: प्रकृतेश्च तदूह्यम् ॥१॥" यादृच्छिकशब्दाभावतो जातिगुणक्रियावाचिनस्त्रय एव शब्दाः । अथवा सर्वेषां शब्दानां धातुजत्वादेकैव प्रवृत्तिः, सर्वे क्रियाशब्दाः । डित्थादिशब्दानामपि प्रकृतिप्रत्ययादिद्वारा धातुजत्वं विचार्यम् ॥ आचार्यास्तु- 'रूढयौगिकमिश्राणां, नाम्ना मालां तनोम्यहम्' इत्युक्तम् । एवं च रूढशब्दाः व्युत्पत्तिरहिता आखण्डलादयः, गुण-क्रिया-सम्बन्धतो यौगिकाः, नीलकण्ठाद्या गुणशब्दाः, स्रष्टा-कादयः क्रियाशब्दाः, सम्बन्धस्तु
स्व-स्वामीत्याद्यनेकविधो विज्ञेयः । मिश्रास्तु योगयुक्ता रूढिमन्तश्च, परावृत्तिसहाः, परावृत्त्यसहाश्च योगरूढा ज्ञेयाः ।। (७) शब्दानां नानार्थत्वम्- कतिचिच्छब्दा अव्ययादिका वा नानार्थे प्रयुज्यन्ते, तत्सम्बन्धिका विशेषश्लोकाः स्वोपज्ञवृत्तौ
न दृश्यन्ते, तेऽत्र दृश्यन्ते । यथा आदिशब्द: क्व क्व प्रयुज्यन्ते, तदुक्तम्"सामीप्येऽथ व्यवस्थायां, प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी, आदिशब्दं प्रचक्षते ॥१॥" इति(पृ.३, पं.३०), एवं श्वःशब्दस्य परपदार्थत्वप्रदर्शक: पाणिनीयमतदर्पणस्थश्लोक:"अर्थं परपदस्याऽत्र, श्वशब्दः कालवाच्यपि । अभिधत्ते स्वभावेन, तेनेमो मङ्गलार्थकौ ॥१॥" इति (पृ.-२२, पं.१८), एवम् ईशब्दः(पृ.१०६, पं.३५), पण:(पृ.२१४, पं.३६)आदि ॥ व्याकरणान्तराच्छब्दसिद्धिः- 'श्रीपाणिनीयोक्तिभिः' इत्यारम्भे उक्तम्, तथापि ये शब्दाः पाणिनिव्याकरणतो न सिद्धाः, तेषां सिद्धहेमव्याकरणोणादितोऽपि साधनिका कृता । यथा तुम्बुरुशब्दः "तुम्बेरुरुः" (हैमोणादि-८१७) (पृ.१२, पं.५८) इत्यनेन, एवं वेतसः 'वेतसवाहस-'(कातन्त्रोणा-३११४२) (पृ.५२४, पं.२६), जम्बीरः,
'गम्भिरादयश्च'(चान्द्रोणा-३।२९) (पृ.५३२, पं.२)इतीरन् बुगागमश्चेत्यादि । (९) जैनागमोल्लेखः- विशिष्टप्रसङ्गेषु जैनागमविषयोऽपि सवृत्तिको विस्तरतो दर्शितः । यथा- "वाणीनृतिर्यक्सुरलोक
भाषा संवादिनी योजनगामिनी च''(श्लो-५९)इत्यत्राऽर्हतामेकादशातिशयव्याख्यायां भगवान् अर्धमागधीभाषया देशनां ददाति, तद्दर्शयितुमागमपाठः सवृत्तिको दर्शितः, यथा- "भयवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ"
८)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org