________________
२४
वाचकशिष्या अपि श्रुतभक्तिमन्त इति ज्ञायन्ते, सुरत( श्रीनेमि-विज्ञान-कस्तूरसूरिज्ञानमन्दिरान्तर्गत) श्रीहुकममुनिजीज्ञानभण्डारे सर्वज्ञशतकस्तबकाख्यो ग्रन्थोऽस्ति, तत्र लिपिकारप्रशस्त्याम्- "संवत् १७००वर्षे वैशाख सुदि-२, रवौ पण्डितचक्रवर्तिपण्डितश्रीदेवसागरगणिशिष्यपं.कनकसागरलिखितं स्ववाचनकृते श्रीराजनगरे" इति पाठोऽस्ति, तत्र यद्यपि गच्छ-शाखादि न लिखितं, तथाप्यनुमानेनैतद्ग्रन्थकारशिष्य एवैष इति ज्ञायते ॥
तथा ग्रन्थकृच्छिष्यान्तरश्रीउत्तमचन्द्र आसीत्, वि. सं. १६९५मिते वर्षे तेन सुनन्दारासो लिखितः ॥ कपिलकेवलिरासः सुनन्दारासश्च दृष्टिगोचरौ न सञ्जातो, तत्र कोऽपि विशेषः सम्भाव्येत ॥
श्रीजयसागराख्योऽपि ग्रन्थकृतां शिष्यः, तस्य श्रीलक्ष्मीचन्द्रः, तस्य लावण्यचन्द्र-कुशलचन्द्रावास्ताम् ॥ एतद्ग्रन्थस्य प्रशस्त्यनुसार
"लक्ष्मीचन्द्रबुधस्य मद्गुरुभ्रातुर्जयाब्धेर्मुनेः ।
शिष्यस्योत्तमचन्द्रशिष्य-सहजस्यात्यन्तनिर्बन्धतः ॥१॥" मुनिलक्ष्मीचन्द्रः गुरोर्गुरुभ्राता, जयसागर उत्तमचन्द्रश्च निजशिष्यौ, सहजचन्द्रस्तु प्रशिष्य इत्यनुमीयते ॥ प्रत्यन्तरे च
"तत्पादपङ्कजासक्तद्विरेफो देवसागरः । एनां वृत्तिं शुभां चक्रे, शिष्यवर्गप्रसक्तये ॥१॥"
"निर्मितेयं मया टीका, लक्ष्मीचन्द्रवराग्रहात्" इत्येवमस्ति
ततश्च शिष्यनामानि नोल्लिखितानि श्रीलक्ष्मीचन्द्रेण च सह ग्रन्थकृत् सम्बन्धो न ज्ञायते । निष्कर्षस्त्वयं श्रीदेवसागरशिष्या अपि गुरुवद् ज्ञानोपासका आसन् ॥
सकताः ॥
वैविध्यपूर्णा किल वृत्तिरेषा
वाचकश्रीदेवसागरगणिविरचितास्तिस्रः कृतय एव लभ्यन्ते, तथापि रत्नाकरोऽयं किल रत्नाकर एव, यतो रत्नाकरादस्मार्दुच्छलन्त्यो व्युत्पत्त्यूर्मयः, तेषां कीर्तिं दिगन्तं प्रापयितुं शक्ताः ॥
वाचकैस्तैर्न केवलं शब्दानां व्युत्पत्तिपद्धतिर्दर्शिता, अपि तु व्युत्पत्तीनां किल रत्नाकरो विनिर्मितः, तस्य पारं लब्धं कथमस्मादृशाः समर्था भवेयुः? तथापि वृत्तावस्यां का का विशिष्टता, रत्नाकरेऽस्मिन् कानि कानि रत्नानीति तत् किञ्चित् प्रदर्श्यते ॥ (१) पाणिनिव्याकरणतो व्युत्पत्तिः- प्रत्येकशब्दानां व्युत्पत्तिः प्रायशो महर्षिपाणिनिकृतव्याकरणतः कृता, एतच्च स्वयमे ग्रन्थकृद् वृत्त्यादौ वृत्त्यन्ते चाह
"वृत्तिं विज्ञमनोरमां विरचये श्रीपाणिनीयोक्तिभिः । श्रीसूरीश्वरहे मचन्द्ररचितश्रीनामचिन्तामणेः ॥" "सूत्रैः पाणिनिसूत्रितैर्बहुविधग्रन्थांश्च सङ्ख्यावतः ।
साक्षीकृत्य यथामति व्यरचयं व्युत्पत्तिरत्नाकरम् ॥" (२) वृत्तिप्रमाणम् - स्वोपज्ञवृत्तिः सार्द्धसप्तसहस्रप्रमाणैव, परमियं वृत्तिस्तु अष्टादशसहस्रप्रमाणा विपुलाऽस्ति । वृत्त्यन्ते
"ग्रन्थाग्रं १८,००० प्रमाणम्" इति दृश्यते ॥ (३) विविधग्रन्थकारोल्लेख:- वृत्तावस्यामनेककोशकाराणां तद्वत्तीनां तत्तद्विषयकविभिन्नग्रन्थकृतां चोल्लेख: स्थाने स्थाने
प्राचुर्येण कृतः । ग्रन्थकृदेव प्रस्तावनायाः सप्तमे श्लोके तद् दर्शितवान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org