________________
२३
अद्यत्वे नवीनसंस्करणान्यपि विविधानि सन्ति, परं सम्पूर्णा गुर्जरभाषाटीका प्रथमा परमपूज्यप्रगुरुदेवाचार्यश्रीविजयकस्तसूरीश्वरकृता चन्द्रोदयाभिख्या ॥
वाचकश्रीदेवसागरगणिवर्याः
परमवैयाकरणिक-विभिन्नग्रन्थतात्पर्यान्वेषि-वाचकश्रीदेवसागरगणिवर्याणां जीवनकवनवृत्तान्तादिकमन्यत्र क्वापि किञ्चिन्नोपलभ्यते । परं वृत्तावस्यां प्रतिकाण्डं श्लोकद्वयेऽन्तिमप्रशस्त्यामचलगच्छेतिहासादिग्रन्थेषु च गच्छ-गुरुपरम्परादिविषयकमेव दृष्टिगोचरं भवति ॥
विधिपक्षेऽचलगच्छे श्रीवीरप्रभोः श्रीसुधर्मस्वामिपरम्परायां विधिपक्षाद्याचार्यार्यरक्षितसूरि(अपरनाम उपाध्यायविजयचन्द्रविजयः, वि. सं. ११६९)पट्टावल्यां विद्यासिद्धश्रीमेरुतुङ्गसूरिः, तस्य श्रीगुणसागरसूरिः, तस्य श्रीधर्ममूर्तिसूरिः, तस्य श्रीकल्याणसागरसूरिः, तस्य गुणनिधानसूरिः(?), तस्य वाचकश्रीपुण्यचन्द्रः, तस्य वाचकश्रीमाणिक्यचन्द्रः, तस्य वाचकश्रीविनयचन्द्रः, तस्य वाचकश्रीरविचन्द्रः, तस्य शिष्यो ग्रन्थकृद् वाचकश्रीदेवसागरगणी अभूदिति प्रतिद्वयप्रशस्त्यां लभ्यते ॥
प्रत्यन्तरप्रशस्त्यां तु श्रीआर्यरक्षितसूरेः श्रीजयसिंहसूरेः श्रीधर्मघोषसूरेः श्रीमहेन्द्रसूरेः श्रीसिंहप्रभसूरेः श्रीअजितसिंहसूरेः श्रीदेवेन्द्रसिंहसूरेः श्रीधर्मप्रभसूरेः श्रीमहेन्द्रप्रभसूरेः श्रीमेरुतुङ्गसूरेः श्रीजयकीर्तिसूरेः श्रीजयकेसरिसूरेः श्रीसिद्धान्तसमुद्रसूरे: श्रीभावसागरसूरेः श्रीगुणसागरसूरेः श्रीधर्ममूर्तिसूरेः श्रीक्षेमसागरसूरेः वाचक श्रीपुण्यचन्द्रविजयस्य वाचकमाणिक्यचन्द्रस्य वाचकश्रीविनयचन्द्रस्य वाचकश्रीरविचन्द्रस्य शिष्यो वाचक श्रीदेवसागरगणी बभूवेति प्राप्यते ।
वाचकपुण्यचन्द्रविजयानन्तरं सर्वप्रतिषु परम्परा समानैव ॥ प्रतिकाण्डं प्रशस्तिश्लोकेषु च निजगुर्वादीन् प्रशस्तभावतो मुक्तकण्ठं ग्रन्थकृदस्तवीत् ॥ आम्नायद्वये रचनावर्षः वि. सं. १६८६ संवद् दृश्यते, तद्यथा- "वर्षे षड्वसुतर्कनिक्पतिमिते" इति ॥ प्रत्यन्तरे मासतिथ्यादिकमपि वर्तते, "संवद् रसाष्टषट्चन्द्रमिते वर्षे शरदृतौ आश्विनार्जुनसप्तम्याम्' इति ॥ रचनास्थलमाम्नायद्वये विभिन्नमस्ति, "हाल्लारदेशे नपे लाखाख्ये सति भव्यनव्यनगरे चैत्यावलीशालिनि" इति ।। प्रत्यन्तरे तु "स्तम्भतीर्थाभिधे पुरि'' इत्युल्लेखोऽस्ति ॥
डॉ. शिवप्रसादसम्पादिते 'अचलगच्छ का इतिहास' नामकग्रन्थे वाचकदेवसागरपरिचय इत्थं मिलति ॥ गुरुपरम्परा यथावस्थितैव, परं तन्निर्मितग्रन्थत्रयोल्लेखः प्राप्यते ॥
(१) वि. सं. १६७४वर्षे कपिलकेवलिरासो रचितः ॥ (२) वि. सं. १६८६वर्षे व्युत्पत्तिरत्नाकरवृत्तिर्ग्रथिता ॥
(३) वि. सं. १६७५तमे वर्षे श्री शत्रुञ्जयगिरौ हाथीपोलमध्ये श्रीश्रेयांसनाथचैत्ये या प्रशस्तिरस्ति, तस्यां "वाचकश्रीविनयचन्द्रगणिनां शिष्यमुदेवसागरेण विहिता प्रशस्तिः" इति दृश्यते ॥ .
तत्र लिखितलेखेन तेषां विद्वत्ताऽनुमीयते ॥ "यावद्विभाकरनिशाकरभूधरार्य-रत्नाकरध्रुवधराः किल जाग्रतीह ।
श्रेयांसनाथजिनमन्दिरमत्र तावन् , नन्दत्वनेकभविकौघनिषेव्यमानम् ॥१॥" इति ॥ एवं तत्रैव चैत्यान्तरे वि. सं. १६८३वर्षीयशिलालेखेऽपि- "भट्टारककल्याणसागरसूरिभिः प्रतिष्ठितम्, वाचकदेवसागरगणीनां कृतिरियम्" इति तेषामुल्लेखः ॥
Jain Education Intemational
Jain Education Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org