________________
२२
(४) अभिधानचिन्तामणिनाममालायां च (१) अमरकोशात् सार्द्धगुणाः शब्दा विद्यन्ते, तथा (२) प्राचीनार्वाचीनशब्दानां समन्वयः कृतः ॥ (३) अमरकोशे लिङ्गनिर्देशो मूले एव कृतः, अत्र तु 'लिङ्गं तु ज्ञेयं लिङ्गानुशासनात्' इति तैरेव दर्शितं यत् लिङ्गानुशासनाद्
लिङ्गनिर्णयः कार्यः ॥ समानशब्दयोगतः शब्दान्तरविधानशैली अपि स्वीकृता, परं 'कविरूढ्या ज्ञेयोदाहरणावली' इति स्वोक्त्या ये शब्दाः कविसमयमान्याः प्रयुक्ताः प्रचलिताश्च तेषामेव सिद्धिः, यथा गौरीशब्दपर्यायवाचिशब्दनिर्माणे शिवशब्देन सह कान्ताशब्दयोगतः
शिवकान्ता-शिवप्रियादयो भवन्ति, न तथा परिग्रहशब्दसंयोगे शिवपरिग्रहादयः शब्दा मान्याः ॥ (५) प्राकृतापभ्रंशदेश्यशब्दानामपि समावेशः कृतः, यथा लड्डक-चोटी-गेन्दूकादयः ॥ (६) जैनकोशेष्वयमेव कोशो यत्र नाऽऽद्याक्षरान्त्याक्षर-विषयानुसारादिक्रमतः काण्डाः परिगृहीताः, किंतु जैनत्वरक्षणाय,
जैनत्वख्यापनाय च तथाप्रकारेण काण्डविभागः कृतो यथा जैनत्वावबोधोऽपि भवेत्, तद्यथा(१) देवाधिदेवकाण्डे प्रथमे अतीताऽनागतवर्तमामजैनतीर्थङ्करचतुर्विंशतीनामेकादशगणधराणां लाञ्छनातिशयादीनां च नामानि
८६पद्येषु समाविष्टानि ॥ (२) देवकाण्डे २५०श्लोकेषु देव-देवसम्बन्धि-षडारकादिनामानि गुम्फितानि ॥ (३) मर्त्यकाण्डे ५६७श्लोकेषु मनुष्यसम्बन्धिनामानि सङ्ग्रहीतानि ॥ (४) तिर्यक्काण्डे ४२३पद्येषु पृथ्व्यप्-तेजो-वायु-वनस्पस्त्यादिपञ्चविधैकेन्द्रिय-विकलेन्द्रिय-जलस्थल-खेचरादित्रिविध
पञ्चेन्द्रियादिनामानि गृहीतानि ॥ (५) नरककाण्डे सप्तश्लोकेषु नरकसम्बधिनामानि सन्ति ॥ (६) साधारणकाण्डे १७८श्लोकेष्ववशिष्टं सर्वमव्ययानि च विद्यन्ते । एवं च १५४२श्लोका वर्तन्ते ॥
नाममालाया टीकाः (१) स्वोपज्ञवृत्ति:- नाममालोपरि स्वयं श्रीहेमचन्द्राचार्याः तत्त्वाभिधायिन्याख्यस्वोपज्ञवृत्तिं निर्मीय निजान्तर्गतपदार्थान्
प्रदर्शितवन्तः, सार्द्धसप्तसहस्रश्लोकात्मको ग्रन्थो विद्यते, मूलस्य विशदीकरणम् , क्लिष्टपदानामर्थः, मूलानुक्तपदार्थानां
विस्तृतीकरणम् , ५६ ग्रन्थकारणां ३१ ग्रन्थानां चोल्लेखः, एवं विविधविषयैर्ग्रन्थः समृद्धो जातः ॥ (२) टीका- कुशलसागररचिता ॥ (३) सारोद्धारः-खरतरगच्छीयज्ञानविमलशिष्यश्रीवल्लभगणिकृतः दुर्गपदप्रबोधनाम्नाविश्रुतः,वि.सं.१६६७तमेवर्षेरचितः ॥
(अस्य संशोधन-सम्पादनकार्यमात्मवल्लभसमुदायवाचार्यश्रीविजयधर्मधुरन्धरसूरिवरैः क्रियते )। (४) टीका- साधुरत्नकृता, द्वितीया चारित्रसिंहगणिकृता च ॥ (५) व्युत्पत्तिरत्नाकराख्या वृत्तिर्वाचकदेवसागरगणिनिर्मितेयम् ॥ (६) अवचूरि:- अज्ञातकर्तृका ४५००श्लोकमाना ॥ (७) बीजकं- जगद्गुरुहीरविजयसूरिशिष्यत्रयरचितम् ॥ (८) रत्नप्रभा- पं. वासुदेवरावजनार्दनकृता, एवमन्या अपि ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org