________________
"भ्रातः! संवृणु पाणिनिप्रलपितं, कातन्त्रकन्था वृथा मा कार्षीः कटु शाकटायनवचः, क्षुद्रेण चान्द्रेण किम् ? । किं कण्ठाभरणादिभिर्वठरयत्यात्मानमन्यैरपि
श्रूयन्ते यदि तावदर्थमधुरा, श्रीसिद्धहेमोक्तयः ॥१॥" (प्रबन्धचिन्तामणौ) इति ॥ ये केचन ग्रन्था निर्मिताः, ते स्वपाण्डित्यं प्रदर्शयितुं न, किंतु सर्वजनहितायैव ॥
"क्लप्तं व्याकरणं नवं विरचितं, छन्दो नवं व्याश्रयालङ्कारौ प्रथितौ नवौ प्रकटितं, श्रीयोगशास्त्रं नवम् । तर्कः सञ्जनितो नवो जिनवरा-दीनां चरित्रं नवं बद्धं येन न केन केन विधिना, मोहः कृतो दूरतः ॥२॥" इति ॥
चिन्तामणिनिभाऽभिधानचिन्तमणिनाममाला
तत्रभवतां पूज्यपादानां ग्रन्थेषु कोशसाहित्ये च नाममालेयं शेखरायते । विद्वद्भिः कृतिरेषा स्वोक्तिभिरेवं समादृता'अभिधानकोशतः पदार्थनिश्चयः' इति महाकविवामनकृते काव्यालङ्कारे (१।३५॥)
"सम्यग्ज्ञाननिधिर्गुणैरनवधिः, श्रीहेमचन्द्रप्रभोः ।
ग्रन्थे व्याकृतिकौशलं विलसति, क्वाऽस्मादृशां तादृशम् ॥" इत्यनेकार्थसङ्ग्रहवृत्तौ कैरवाकरकौमुद्यां प्रशस्तिश्लोकेषु श्रीमहेन्द्रसूरयः ॥ टीकाकृत् स्वयं टीकाप्रशस्त्यां समस्तवाङ्मयप्रासादस्य ताली(चावी)रूपेणेमां वर्णयति
__ "श्रीनाममालां प्रभुहेमनिर्मितां, प्रतीय तालीं समवाङ्मयौकसः" इति॥ (१) अभिधानचिन्तामणिनाममाला, (२) अनेकार्थसङ्ग्रहः, (३) निघण्टुः, (४) देशीनाममालेति कोशचतुष्टयं
रचितवन्त आचार्याः ॥ तत्र(१) अनेकार्थसंग्रहे सप्त काण्डाः, एक-द्वि-त्रिस्वरीयादिशब्दक्रमेण षट् काण्डाः, सप्तमे चाव्ययानि सन्ति, १८२९पद्यानि
वर्तन्ते ॥ (२) निघण्टुकोशो धन्वन्तरिनिघण्टु-अमरकोषीयवनौषधिवर्गसदृशो वृक्ष-धान्यादिशब्दानां सङ्ग्रहरूपो ३९६पद्यात्मको वर्तते।
कोशचतुष्टये निघण्टुरचनाऽन्तिमा कृतेति निघण्टुप्रथमश्लोकेनाऽनुमीयते ॥
"विहितैकार्थनानार्थ-देश्यशब्दसमुच्चयः । निघण्टुशेषं वक्ष्येऽहं, नत्वाऽर्हत्पदपङ्कजम् ॥१॥" इति ॥ (३) देशीनाममालायां ३९७८देशीशब्दानां ७८३गाथाभिरकारादिवर्णक्रमतः सङ्कलनं कृतम्, विद्यमानानां सर्वासां भाषाणां - मूलमस्यामेवेत्याधुनिका प्राज्ञा गाढं मन्यन्ते, अस्यां च ये शब्दाः प्रकृति-प्रत्ययतो न सिध्यन्ति, एतादृशा रूढा देशीशब्दाः कालान्तरे लोकभाषायां प्रचलिताः, ते समाविष्टाः । तच्च स्वयमेव तस्यास्तृतीयस्यां गाथायामाह
"जे लक्खणेण ण सिद्धा, ण पसिद्धा सक्कयाहिहाणेसु ।
ण य गउडलक्खणा-सत्तिसंभवा ते इह णिबद्धा ॥१॥" इति ॥ ये शब्दा व्याकरणेन न सिद्धाः, संस्कृताभिधानेषु न प्रसिद्धाः, गौडलक्षणा शक्तिसंभवाश्च न, तेऽस्यां नाममालायां सगृहीताः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org