________________
वरीवर्तन्ते जगति जैनकोशकाराः
विश्ववाङ्मये विविधविषयेषु यथा योगदानं जैनाचार्याणां विदुषां जैनानां च तथैव कोषसाहित्येऽपि ॥ अद्यत्वे ये जैनकोषा लभ्यन्ते तेषु महाकविधनञ्जयकृतं कोशचतुष्टयं
( १ )नाममाला( २ )अनेकार्थनाममाला ( ३ ) अनेकार्थनिघण्टु( ४ ) एकाक्षरीकोशादि प्राचीनतमम् ॥
शब्दैः सह शब्दान्तरं संयुज्याभिनवशब्दनिर्माणपद्धतिः, प्राकृतसाहित्ये पाइयलच्छीनाममालाख्यस्य कोशरचना च धनञ्जयकविना प्रथमा प्रारब्धा । श्रीहेमचन्द्राचार्यैरपीयं रचनापरम्परा अभिधानचिन्तामणिनाममालायां प्राकृते 'देशीनाममाला' इत्याख्ये कोशे च स्वीकृता ॥
२०
श्रीधरसेन - श्रीजिनदेव- श्रीशुभशीलगणी - श्रीपद्मसुन्दर - श्रीभानुचन्द्रगणी - श्रीहर्षकीर्तिसूरिप्रभृतिभिरपि विविधकोशानां निर्माणं कृतम् ॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याः
श्रीहेमचन्द्रसूरीणामपूर्वं वचनामृतम् । जीवातुर्विश्वजीवानां, राजचित्तावनिस्थितम् ॥१॥
( श्रीप्रभाचन्द्रसूरिः) ।
श्रीहेमचन्द्रसूरीणां विद्यमानकालतोऽद्यावधि ये ये विद्वांसः समुत्पन्नाः, ते सर्वे विविधस्तुतिभिरवश्यं स्तुत्यांस्तान् स्वानुभवतो मुक्तकण्ठं स्तुवन्त्येव ॥
अत्रापि श्लोके वर्णितं तत्रभवतामनुपमं वचनपीयूषं जगति सर्वेषां जीवानामाधाररूपम् ॥
आधुनिका विद्वांसोऽप्येकध्वनितः स्वीकृतवन्तः- “श्रीहेमचन्द्राचार्याः न कस्याश्चित् जातेः समुदायस्य वा कृते स्वजीवितं व्यतीतवन्तः, न वा केवलं संस्कृतसाहित्यसर्जनमेवादृतम्, किंतु सांस्कृतिक-राजनैतिक-सामाजिकादिसमस्तगतिविधिषु नवीनं दृष्टिकोणं दर्शितवन्तः, ततस्ते गुर्जरराज्यस्यास्मिताया आविष्कर्तार आसन्" इति ॥
वि. सं. ११४५तमे वर्षे कार्तिके शुक्लपूर्णिमायां धंधुकानगरे चाचदेवपितुः पाहिणीमातुश्च कुक्षौ चाङ्गदेवनान पुत्रोऽजायत । कदाचित् चन्द्रगच्छीय श्रीदेवचन्द्रसूरिपास्तत्र समागताः । जिनालयात् प्रत्यागच्छद्भिः पूज्यैर्निजासने उपविष्ट बालश्चाङ्गदेवो दृष्टः, निरीक्ष्य तेषां वदनाम्बुजाच्छब्दा निःसृताः
" अयं यदि क्षत्रियकुले जातस्तदा सार्वभौमचक्रवर्ती, यदि वणिग्विप्रकुले जातस्तदा महामात्यः, चेद् दर्शनं (जैनत्वं ) प्रतिपद्यते तदा युगप्रधान इव कलिकालेऽपि कृतयुगमवतारयिष्यसि " इति ॥
जननीपाहिणीसमक्षं पुत्ररत्नं ययाचे । गुरुनिश्रायां वसन् न्याय-व्याकरण-साहित्यादिग्रन्थान् शीघ्रमधीतवान् । मन्त्रीश्वरोदयनो नैपुण्येन पितुः सम्मतिमादाय वि. सं. ११५४तमेऽब्दे दीक्षां प्रदत्तवान् । 'मुनिसोमचन्द्रः' इति नाम्ना विश्रुतः । वि. सं. ११६६तमे वर्षे वैशाखे सुदि तृतीयायां नागोरनगरे आचार्यपदं प्राप्य 'श्रीहेमचन्द्राचार्याः' समभवन्।
अजारीग्रामे भगवतीसरस्वत्या अनुपमा साधना समाराधिता, तस्याः साक्षात्कारं कृतवन्तः ॥
पूर्णविद्वत्तातो महाराजसिद्धराजजयसिंहं परमार्हतकुमारपालक्षीतीशं च प्रबुद्ध्य जैनदर्शनानुरागिणौ कृतवन्तः ॥ शब्दानुशासन-लिङ्गानुशासन-छन्दोनुशासन- काव्यानुशासन- न्याय - योग- कोश- चरित्र - स्तोत्रादिग्रन्थानां सपादकोटिप्रमाणोपेतं निर्माणं कृत्वा 'कलिकालसर्वज्ञः' इति श्रुत्या जगति प्रसिद्धिं प्राप्ताः । सिद्धहेमव्याकरणं तु सर्वत्र विश्रुतं व्याकरणेषु च प्रधानं जातम् । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org