SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कोषप्रकाराः ये केचन शब्दकोषा अधुना समुपलभ्यन्ते तेषामवलोकनतः कोशानां त्रैविध्यं दरीदृश्यते(१) एकार्थकनामामाला, (२) अनेकार्थकनाममाला, (३) एकाक्षरनामामाला चेति ॥ (१) एकार्थकनाममाला - एकार्थकानां समानार्थकानां पर्यायवाचिनां शब्दानां सङ्ग्रहो मुख्यतया यत्र भवति, तादृशी नाममाला। यथा पृथ्वीवाचका ये शब्दाः संस्कृतभाषायामुपलभ्यन्ते तेषां सर्वेषां सङ्ग्रह एकत्रैव भवति ॥ भागुरेः त्रिकाण्डः, वाचस्पतेः शब्दार्णवः, विक्रमादित्यस्य संसारावर्तः, वररुचेर्नाममाला, व्याडेरुत्पलिनीकोशः, शाकटायनस्य आपिशलिरित्यादयः कोशा लुप्तप्रायाः, मात्रोल्लेखरूपेण यत्र तत्र मिलन्ति ॥ १९ अधुना ये वर्तन्ते तेषां प्राचीनतमोऽध्ययनादिषु प्रसिद्धोऽमरसिंहकृतोऽमरकोष इति प्रथितः, केशवस्वामिकृतः शब्दकल्पद्रुमः, महेश्वरकृतो विश्वप्रकाशः, धनञ्जयनाममाला, अभिधानचिन्तामणिनाममाला, केशवदैवज्ञस्य कल्पद्रुमः, अप्पयदीक्षितस्य नामसङ्ग्रहमालाप्रभृतयोऽनेके कोशा वर्तन्ते ॥ (२) अनेकार्थनाममाला – एकाधिकार्थवाचकशब्दानां सङ्ग्रहो यत्र वर्तते एतादृशी नाममाला । यथा गोशब्द: पृथ्वी-धेनू - वाणी- किरण-स्वर्गवाचक:, अतः सोऽनेकार्थवाची । यथा केशवकृतो नानार्थार्णवसंक्षेपः, अनेकार्थसङ्ग्रहः, मेदिनी, नानार्थरत्नमाला, श्रीधरसेनकृतो विश्वलोचनकोशः, महिपरचितोऽनेकार्थतिलकः, अजयपालस्य नानार्थसङ्ग्रहः मजस्यानेकार्थकोश इत्यादयो कोशाः सन्ति ॥ हलायुध - वैजयन्ती-शब्दरत्नाकर-शब्दरत्नावलीप्रभृतयस्तु पूर्वोक्तोभयप्रकाराः सन्ति ॥ (३) एकाक्षरनाममाला - स्वरमन्तरेण व्यञ्जनानां प्रयोगो दुर्लभः, एवं च मात्रस्वराणां स्वरयुक्तानां व्यञ्जनानां, संयुक्तव्यञ्जनानां च सार्थकाणां सङ्ग्रहो यत्रैषा एकाक्षरनामामाला । यद्यपि पूर्वोक्तेषु कोशेष्वपि श्री- भू-गोप्रभृतिशब्दा एकाक्षरात्मका वर्तन्ते एव, तथापि स्वतन्त्रस्तेषां सङ्ग्रहस्वरूपः कोशोऽत्र गण्यते । यथा धनञ्जयकृत एकाक्षरीकोशः, माधवकृता एकाक्षरशब्दमालादयः ॥ कोषनिर्माणरीति : (१) प्रथमाक्षरानुसारिकोशा: केचन शब्दस्याद्यवर्णमनुसृत्य को विभागं कुर्वन्ति, यथा कादयः, खादयः शब्दाः । यथा नानार्थरत्नमाला - मेदिनीकोशादयः ॥ - (२) अन्तिमवर्णानुसारिकोशा:- केचित् शब्दानामन्त्यवर्णमाश्रित्य कोशं रचयन्ति, कान्ताः, खान्ताः इत्यादयः । यथा विश्वप्रकाश- कोशकल्पतरुप्रभृतयः ॥ (३) अक्षरसङ्ख्यानुसारिकोशाः - केऽपि एकस्वर- द्वयक्षर- त्र्यक्षर- यावत्षडक्षरादिकमाश्रित्य कोशे विभागं कुर्वन्ति । यथा नानार्थरत्नसंक्षेप-शब्दरत्नसमन्वय- हेमचन्द्राचार्यकृतानेकार्थसङ्ग्रहादयः ॥ (४) लिङ्गानुसारिकोशाः - पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गानुसारिशब्दानाश्रित्य कोशं रचयन्ति । यथा अमरकोशे तृतीये काण्डे, एवमन्यत्रापि ॥ (५) विषयानुसारिकोशा :- येषु येषु विषयेषु ये ये शब्दाः प्रयुज्यन्ते, तान् स्वीकृत्य विषयविभागो यत्र सन्ति, तादृशाः कोशाः । Jain Education International (६) पर्यायपरिमाणानुसारिकोशा :- शब्दानां यावन्तः पर्यायाः, तान् लक्षीकृत्य कोशाः प्रवर्तन्ते ॥ यथा अनेकार्थसमुच्चय- पाइयलच्छीनाममालादयः ॥ अधुना तु विभिन्नप्रकारैः शब्दसङ्ग्रहस्वरूपाः विश्वकोशादयो भवन्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy