________________
७३६ - ७४२ ]
१ माया रूपपरावर्तनादिका । २ उपेक्षा अवधारणम् । ३ इन्द्रजालं मन्त्रद्रव्यहस्तप्रयोगादिनाऽसम्भर्ववस्तुदर्शनम्, एतेषां द्वन्द्वे मायोपेक्षेन्द्रजालानि । एकं मायादित्रयाणां क्षुद्रोपायाः इति ।
मृगयाऽक्षाः स्त्रियः पानं वाक्पारुष्याऽर्थदूषणे
व्युत्पत्तिरत्नाकरकलिता
दण्डपारुष्यमित्येतद् हेयं व्यसनसप्तकम् ।
१ मृगया आखेटकः १ । २ अक्षाः पाशकास्ते च तोपलक्षणम् २। ३ स्त्रियः प्रसिद्धाः ३ । ४ पानं सुरादेः ४ । १० ५ ('वाचा पारुष्यं) वाक्पारुष्यं कर्कशवाक्त्वम् ५ । ६ अर्थस्य द्रव्यस्य दूषणम् अर्थदूषणम् । तच्चतुर्धा अदानम् १, आदानम् २, विनाशः ३, परित्याग४श्च ६ ॥ ७३८ ॥ ७ अर्थस्य दण्डेन पारुष्यं दण्डपारुष्यम्, तीव्रदण्डतेत्यर्थः ७ । एते सप्त व्यसनानि उच्यन्ते । व्यसनानां सप्तकं व्यसनसप्तकम् । तच्च राज्ञो हेयं त्याज्यमिति प्रसङ्गात् प्रोक्तम् ॥ पौरुषं विक्रमः शौर्य शौण्डीर्यं च पराक्रर्मः ॥७३९॥ १ पुरुषस्य भावः कर्म वा पौरुषम्, भयहेतावपि निर्भयमनस्कतेत्यर्थः । २ विक्रमणं विक्रमः । ३ शूरस्य भावः कर्म वा शौर्यम् । ४ शौण्डीरस्य भावः कर्म वा २० शौण्डीर्यम् । उभयत्र 'गुणवचनब्राह्मणादिभ्यः कर्मणि च ' ५ । १ । १२४ ॥ इति ष्यञ् । ५ पराक्रमणं पराक्रमः । भावे घञ् । पञ्च पौरुषस्य । 'मांटी पणउं' इति भाषा ॥७३९॥ यत्कोशदण्डजं तेजः स प्रभावः प्रतापवत् ।
44
॥७३८ ॥
१ कोशो धनम्, दण्डो दमस्तद्धेतुत्वात् सैन्यमपि दण्डस्ताभ्यां जायते यत् तेजः, उत्कटत्वमित्यर्थः । 'अधिक्षेपाऽवमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसनं तत्तेजः समुदाहृतम् ॥१॥”
[ नाट्यशास्त्रम्, सामान्याभिनयो नामाध्यायः - २२, श्री - ३९ ] इति भरतः । २ प्रभवत्यनेन प्रभावः । प्रपूर्वाद् भवते: 'कृत्यल्युटो
Jain Education International
३२५
बहुलम् '३ | ३ |११३ ॥ इति बाहुल्यात् 'श्रिणि (णी) भुव:- ' ३० ३।३।२४ ॥ इति घञ् । ३ प्रतापयत्यनेन [ प्रतापः ] । तत्परम(तपेर-)न्तर्भावितण्यर्थाद् 'हल '३ | ३ |१२१ ॥ इति घञ् । त्रीणि उत्कटत्वयै
भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा ॥७४० ॥
""
१ भिया भयेन, पुनः धर्मार्थकामैर्या परीक्षा परीक्षणम्, सा उपधा इत्यन्वयः । उपधीयते समीपे ढौक्यते परीक्षार्थमित्युपधा । 'आतश्चोपसर्गेः ३ । ३ । १०६ ॥ इत्यङ् । यत्कौटिल्य:-" उपधाभिः शौचाशौचपरिज्ञानममात्यानाम् [कौटिलीयमर्थशास्त्रम्, अधिकरणम् - १, अध्यायः - ९] इति । एकं धर्मार्थभयोपन्यासेनाऽमात्यानामाशयाऽन्वेषणस्य ॥७४० ॥ ४० तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः ।
11
१ तृतीयादीनामगोचरो यद् मन्त्रादि आलोचक्रीडादि, तद् अषडक्षीणम् उच्यत इत्यन्वयः । न षड् अक्षीण्यत्र अषडक्षीणम् । 'अषडक्षा - '५ ।४ ।७ ॥ इति खः । तृतीयाद्यगोचरोऽजहल्लिङ्गः । द्वौ विना तृतीयादयों न जानन्ति मन्त्रादिकं यत्, तस्यैकम् ॥
रहस्याऽऽलोचनं मन्त्रः
१ रहसि एकान्ते आलोच्यते आलोचनम् । कर्मणि ल्युट् । २ मन्त्रणं मन्त्रः । मत्रि गुप्तभाषणे' (चु.आ.से.), भावे घञ् । पञ्चाङ्गोऽयम् । यत्कात्य ( यत्कौटिल्य : ) - " कर्मणा - ५० रम्भोपायः १, पुरुषद्रव्यसम्पत् २, देशकालविभागः ३, विनिपातप्रतीकारः ४, कार्यसिद्धिश्च ५, "[ ] इति पञ्चाङ्गो मन्त्रः ''[ कौटिलीयमर्थशास्त्रम्, अधिकरणम् - १, प्रकरणम् - १०, अध्यायः - १४] । द्वे मन्त्रस्य ॥
रहश्छन्नमुपह्वरम् ॥७४१॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् ।
१ रहन्ति त्यजन्त्येतदिति रहः । 'रह त्यागे ' (भ्वा.प.से.), रहेर्भूते ' - असुन्' (उणा- ६२८) इत्यसुन् । रमन्तेऽत्रेति
१. ' - द्वस्तु-' इति १.२ ॥ २. कोष्ठान्तर्गतपाठः १.२. ४प्रतिषु न दृश्यते ॥ ३. 'कर्कशवाक्यम्' इति ॥ ४. ४प्रतौ नास्ति ॥ ५. ' - दण्डेत्यर्थः ' इति३ ॥ ६. 'क्रमम्' इति१.३.४ ।। ७. ' क्रमम्' इति ॥ ८. ' -पणउ' इति१, 'पणो इति३, ' - पणौ' इति४ ।। ९. 'पमानादे: ' इति नाट्यशास्त्रे, पृ. २४४ ॥ १०. 'प्रसहनं' इति१.२ ।। ११. 'बहुलश्च' इति४ ॥ १२. 'कटस्य' इति४ ॥ १३. 'यां' इति३ ॥ १४. ' - यादौ' इति३ ॥ १५. 'मंत्रि' इति२.४ ॥ १६. 'च' इति कौटिलीयमर्थशास्त्रे न दृश्यते, पृ. ४६ ॥ १७. द्र. स्वोपज्ञटीका३ १७४१ ॥ पृ. १६४ ॥ १८. 'त्यजन्ति पदिति' इति३ ॥
For Private Personal Use Only
www.jainelibrary.org