________________
२०
''वधोऽनुग्रहणं चैव परिक्लेशस्तथैव च । इति दण्डविधानज्ञैर्दण्डोऽपि त्रिविधः स्मृतः ॥५॥" [कामन्दकीयनीतिसारः, ( उपायविकल्पः ), सर्ग: - १७, श्री९] इति । परिक्लेशो बन्धनताडनादिः । १ स्वार्थसम्पादनकारणानि उपायाः । उपैति एभिः श्रीरित्युपायाः । 'इण् गतौ' ( अ.प.अ.) करणे घञ् । एकं सामादिचतुर्णामुपाया इति । १० केचित्तु - "मायामुपेक्षामिन्द्रजालमिति त्रितयमुपायेष्वन्तर्भाव्य सप्तोपायानाहुः । उक्तं च
"साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् । मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः ॥६॥" [ कामन्दकीयनीतिसारः, (उपायविकल्पः ), सर्ग:-१७, श्रो३] इति । तत्र मायोपेक्षे दण्ड एवाऽन्तर्भवतः । इन्द्रजालं च भेद इति ग्रन्थकृदभिप्रायः । एतत्पाठक्रमेणैव "चतुर्थोपायसाध्येति शत्रौ सान्त्वमपि क्रियते (चतुर्थोपायसाध्ये तु रिपौ सान्तवमपक्रिया) [शिशुपालवधम्, सर्गः - २, श्लो-५४]" इति माघे दण्डश्चतुर्थोपायत्वेनोक्तः ॥ तत्र प्रथमं सामोपायमाह
३०
३२४
संहर्षोत्पादनम् (सङ्घर्षोत्पादनम् ? ) इति द्वितीयम् ( द्वितीयः) । ४ तेज: दमनं दण्डः शास्तिः । ' ञमन्ताड्डुः ' ( उणा - १११) । सोऽपि त्रिविधः । तदुक्तम्
"
अभिधानचिन्तामणिनाममाला
साम सान्त्वनम् ।
१ स्यति वैरमनेनेति साम, प्रियवचनादि, क्लीबे । ‘षोऽन्तकर्मणि’(दि.प.अ.), ' - सामन्दामन् - ' ( उणा - ५९० ) इति साधुः । शमयति विरोधमिति शाम, तालव्यादिरपि । २ सान्त्व्यतेऽनेन सान्त्वनम् । 'सान्त्व सामप्रयोगे' (चु.उ.से.), करणे ल्युट् । सान्त्वमपि । "साम सान्त्वम्" [ अमरकोषः ३।८।२१ ॥ ] इत्यमरः । द्वे साम्नः । दानोपायः प्रसिद्धत्वान्नोक्तः ॥ अथ भेदोपायमाह
उपजापः पुनर्भेदः
१ उपजपनम् उपजापः । 'जप जल्प व्यक्तायां वाचि' (भ्वा.प.से.), भावे घञ् । उपांशु जपनमुपजाप इति वा । २ संहतयोर्भेदनं भेदः । भावे घञ् । द्वे भेदस्य ॥
[ मर्त्यकाण्डः-३
दण्डः स्यात् साहसं दमः ॥७३६॥
१ दण्डनं दण्डः, पुंक्ली. । ' दण्ड दण्डने ' ( चु.उ.से.), भावे घञ् । २ सहो बलम्, तत्र भवम्, तेन निर्वृत्तं वा साहसम्, क्लीबे । वैजयन्ती तु " दण्डो दमः साहसोऽस्त्री''[वैजयन्तीकोषः ३ । ७ । ४६ ] इति पुंस्यप्याह । ३ दमनं दमः । 'दमु उपशमे' (दि.प.से.), भावे घञ्, 'नोदात्तोपदेश- ' ७ | ३ | ३४ ॥ इति वृद्ध्यभावः । त्रीणि दण्डस्य ॥७३६ ॥ प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे । . उपाच्चारः प्रदानं दाहारौ ग्राह्यायने अपि ॥७३७॥
१ प्रकर्षेण आ समन्ताद् भावेन भ्रियते प्राभृतम् । 'जीतः क्तः '३ । २ । १८७ ॥ इति वर्तमाने क्तः । २ ढौक्यते ढौकनम् । 'ढौकृ गतौ ' (भ्वा.आ.से.), ल्युट् । लीयते (लायते) प्रच्छन्नं गृह्यते लञ्चा, पुंस्त्री । 'ला आदाने ' ( अ.प.अ.), 'कूर्चभूर्चा (चूर्चा) - ' (हैमोणा - ११३ ) इति वप्रत्यये निपात्यते । ४ उत्कुच्यते भाष्यते उत्कोचः । उत्कोचयति गुर्वपि कार्यमल्पीकरोति वा । 'कुच शब्दे तारे' (भ्वा.प.से.), 'कुच कौटिल्याल्पीभावयो: ' (भ्वा.प.से.) वा, पचाद्यच् । ५ कुशलं प्रयोजनमस्य कौशलिकम् । 'तदस्य प्रयोजनम्' ५ । १ । १०९ ॥ ५० इति ठक् । ६ आमिषमिव आमिषम् परं प्रतिलोभनात्, पुंक्लीबलिङ्गः । अमत्यनेन स्वस्थीभावं वा । 'अम् (अम) गतौ ' (भ्वा.प.से.), 'अमेर्दीर्घश्च' (उणा - ४६ ) इति टिलोपः (टिषच्) । ७-१२ उपशब्दाच्चारादयः षड् योज्यन्ते । उपचर्यतेऽनेन उपचारः । उपप्रदीयते उपप्रदानम् । उपदीयते उपदा । उपह्रियते उपहारः । उपगृह्यते उपग्राह्यः । उप समीपेऽयन्ते गच्छन्त्यनेन उपायनम् । प्रदेशनं च । “प्राभृतं तु प्रदेशनम् । उपायनमुपग्राह्यमुपहारस्तथोपदा ''[ अमरकोषः २।८।२७-२८ ॥]इत्यमरः । " उपप्रदानमुत्कोच उपदा लञ्चया समा["]इत्यन्ये । “उपदा प्राभृतं प्रोक्तमुपग्राह्यमुपायनम् " ६० [ हलायुधकोश: २ ।४३४ ] इति हलायुधः । " चत्वारः समाः "[ ] इति तट्टीका । द्वादश प्राभृतस्य । 'भेटि' इति भाषा ॥ ७३७ ॥ मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः ।
Jain Education International
१. अनावश्यकोऽयम् ॥ २. 'वधोऽर्थ-' इति कामन्दकीयनीतिसारे, पृ.१९० ॥ ३. 'वा' इति१.२ ॥ ४ 'मायोपेक्षेन्द्रजालमिति' इति३.४ ॥ ५ ' दण्डश्च भेदश्चेति' इति कामन्दकीयनीतिसारे, पृ.१९० ॥ ६ एतस्यानुक्र-' इति३ ॥ ७ पूर्वोक्तसामशब्दटिप्पणी द्रष्टव्या ॥ ८ 'दण्ड दण्डनिपातने' इति स्वामिसायणौ, 'दण्ड निपातने' इति मैत्रेयः ॥ ९ 'ला दाने' इति १.२ ॥ १०. 'कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु' इति क्षीरतरङ्गिण्यादौ ॥ ११. 'प्रयोजनम्' इत्येवाऽष्टाध्याय्याम् ॥ १२. 'पुंक्ली. ' इति३ ॥ १३. 'यते' इति ॥ १४. 'गच्छत्य--' इति१.३ ॥ १५. अम. क्षीरस्वामिटीका२ ८ १२८ ॥ पृ. १८२ ॥ १६. इतोऽग्रे १प्रतौ 'प्रदेशम्' इति दृश्यते ॥
For Private Personal Use Only
४०
www.jainelibrary.org