________________
३२०
योरनादेशाभावः, अनुनासिकत्वप्रतिज्ञानाद्वा । ११ सपत्नीव सन्तापहेतुत्वात् सपत्नः । 'व्यन् सपले '४ । १ । १४५ ॥ इति निर्देशादकारः । १२ न सहते असहनः । षह मर्षणे ' (भ्वा.आ.से), युच् । १३ विरुद्धः पक्षो विपक्षः । "पक्षो मासार्धके पार्श्वे ग्रहे साध्या (साध्य)विरोधयो: "[विश्वप्रकाशकोशः, क्षान्तवर्ग:, श्रो-५] इति मेदिनि: (विश्वः) । १४ द्वेषणशीलो द्वेषी । 'द्विष्(द्विष) अप्रीतौ' (अ.उ.अ.), सम्पृचादित्वाद् घिनुण् । १५ द्वेष्टीति द्विषन् । 'द्विषोऽमित्रे' ३ ।२ । १३१ ॥ इति शतृप्रत्ययः । द्विषन्तौ, द्विषन्तः इत्यादि । १६ वीरस्य कर्म वैरं विरोधः, १० ‘- वैरमैथुन (नि)कयो : ' ४ | ३ | १२५ ॥ इति निर्देशादण् । “युवादित्वादण्''[]इत्यन्ये, तदयुक्तम्, तत्र पाठादर्शनात् । तद्योगाद् वैरी । मत्वर्थे इनिः । १७ हिताचरणाद् हितः, न हितः अहितः । नास्ति हितमस्माद्वा अहितः । १८ हन्तुमिच्छति जिघांसति, जिघांसतीत्येवंशीलो जिघांसुः । 'सनाशंसभिक्ष उः '३।२।१६८॥ १९ क्रोधेन दुष्टं हृदयमस्य दुर्हृत् । 'सुहृदुर्हृदौ मित्रामित्रयो:'५।४।१५०॥इति हृदयस्य हृदादेशः । दुर्हृदौ, दुर्हृदः इत्यादि । २० - २१ परेः परिशब्दात् पन्थिकपन्थिनौ योज्येते, परित: पन्थयति गच्छति परिपन्थि (न्थ ) क: । 'पथि गतौ'(चु.उ.से.), णिजन्तः ण्वुल् । परि दोषाख्यानं पन्थयति २० गच्छति परिपन्थी । 'पथि गतौ ' ( चु.उ.से.) इत्यास्माच्चुरादेग्रहादित्वाणिनिः । परिशब्दं प्रकृत्य ( प्रकृते) "दोषाख्याने निरसने पूजांवास्थ्योश्च(पूजाव्याप्त्योश्च) भूषणे " [मेदिनीकोशः, अव्ययवर्गः, श्रो- ६८ ] इति मेदिनि: । २२ द्वेष्टीति द्विट् । 'सत्सूद्विष- '३ ।२।६१ ॥ इत्यादिना क्विप् । २३ प्रतिकूलमवश्यमर्थयतें प्रत्यर्थी । 'अर्थ याच्ञायाम् ' (चु.उ.से.), आवश्यके णिनिः । २४ अमति गच्छति वैरम् अमित्रः । 'अम् (अम) गतौ' (भ्वा.प.से.)। अमति (आमयति) रुजतीति वा । 'अम रोगे' (चु.उ.से.), 'अमेर्द्विषि पिच्च ' ( उणा - ६१३) इति इन् । मित्रविरुद्धकर्माचरणाद्वा अमित्रः । "लोकाश्रयत्वात् पुंस्त्वम् " ३० [“]इत्यन्ये। असृहृदपि । २५ अभिमाति क्रुध्यति अभिमाति: । 'मा माने ' ( अ.प.अ.), 'क्तिच्तौ च संज्ञायाम् ' ३ | ३ |१७४ ॥ इति क्तिच् । २६ इयर्ति अराति: । 'ऋ गतौ ' (जु. -
अभिधानचिन्तामणिनाममाला
[ मर्त्यकाण्डः-३ प.अ.), 'रा दाने' (अ.प.अ.), बाहुलकाद् 'हरसिभ्यां तिः ' ( ) इति राधातोरपि तिः । षड्विंशतिः शत्रोः ॥ ७२९॥
वैरं विरोध विद्वेषः
Jain Education International
१ वीरस्येदं कर्म वैरम् । 'तस्येदम् ' ४ | ३ |१२० ॥ इत्यण् । २-३ विरोधनं विरोध: । विद्वेषणं विद्वेषः । उभयत्र भावे घञ् । त्रीणि वैरस्य ॥
वयस्यः संवयाः सुहृत् ।
स्निग्धः सहचरो मित्रं सखा
१ वयसा तुल्यो वयस्यः । 'नौवयो- '४ १४ ।९ १ ॥ इत्यादिना यत् । शब्दशक्तिस्वाभाव्यात् तुल्यवयस्कै : प्रियवाचकः । २ समानं वयोऽस्येति सवयाः । 'अत्वसन्तस्य चाधातो: '६ १४ ११४ ॥ इति दीर्घः । सवयसौ, सवयसः इत्यादि । ३ सोभनं हृदयमस्य सुहृत् । 'सुहृत्दुर्हृदौ मित्रामित्रयो: '५४/१५० ॥ इति निपातः । ४ स्निह्यति स्निग्धः । 'ष्णि प्रीतौ ' (दि.प.से.), 'मतिबुद्धिपूजार्थेभ्यश्च ३ ।२ ।१८८ ॥ इति चकाराद् वर्तमाने क्तः । ५ सहचरतीति सहचरः । एवं सहायोऽपि । ६ मे स्निह्यति मित्रम्, क्लोबे । 'ञिमिदा स्नेहने' (दि.प.से.), ‘अमिचिमिदिशसिभ्यस्त्र: '(उणा-६०३) । “मित्र- ५० माविष्टलिङ्गम् "[ ]इति मिश्राः । ७ समानः ख्यायते जनैः समानं ख्यातीति वा सखा । 'ख्या प्रकथने ' ( अ.प.अ.), 'समान: (समाने ) ख्यः, स चोदात्तः ' ( उणा - ५७६ ) इतीण्, स च डित्, 'वेञो डित्-(वातेर्डिच्च) '(उणा-५१२) इत्यनुवृत्ते : डित्त्वाट्टिलोपो यलोपश्च, '-य[लोपः]- '(उणा-५७५ ) इत्यनुवृत्तेः समानस्य सभाव:, 'अनङ (अनङ् ) सौ ७।१।९३ ॥ इत्यन | सप्त मित्रस्यै ॥
१. कप्रति - ' इति ॥ २. 'न्यः' इति१.२ ॥ द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग:, श्रो-४६४, पृ. ५४८ ॥ ३. 'पर' इति१. २ । ४. ' - ति' इति३.४ ॥ ५. 'याचनायां' इति४, मैत्रेयसम्मतोऽयं धात्वर्थ:, 'उपयाच्ञायाम्' इति स्वामिसायणौ ॥ ६. अमेर्द्विपति चित्' इत्युणादिगणे ॥ ७ -द्धं' इति१.२ ॥ ८. द्र. पदचन्द्रिका, भा-२, क्षत्त्रवर्ग:, श्रो- ४६५, पृ. ५४९ ॥ ९ तुलनीयोऽमरकोषः १।७।२५ ॥ १०. 'विशेषेण रोधो विरोध:' इति४ ॥ ११ इतोऽग्रे १प्रतौ 'धर्म' इति दृश्यते ॥ १२. ' वयसः' इति३ ॥ १३. दीर्घत्वे 'ज्योतिर्जनपद- '६ ।३ ।८५ ॥ इत्येनन समानस्य स इत्यपि बोध्यम् ॥ १४. 'स्निह' इति३ ॥ १५. ‘मिद्यति' इति२.४, ‘मिद्यते' इति३ ॥ १६. ' -भ्यः का:' इत्युणादिगणे ॥ १७. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग:, श्रो- ४६६, पृ.५५० ॥ १८. इतोऽग्रे ४प्रतौ 'सखा' इति दृश्यते ॥ १९. 'मित्रस्य सप्त' इति३.४ ॥
For Private Personal Use Only
४०
www.jainelibrary.org