________________
३१६
" महामात्रः प्रधानं स्यात् " [ हलायुधकोशः २ ।४२७ ॥ ] इति हलायुधः । " पुरोहितामात्यप्रतीहारसेनापतिप्रभृतौ द्वौ " [] इति तट्टीका । द्वे सामान्येनाऽमात्यपुरोहितसेनापत्यादेः ॥
पुरोधास्तु पुरोहितः ॥७२०॥
अभिधानचिन्तामणिनाममाला
सौवस्तिकः
१ पुरोहितेषु दृष्टादृष्टफलेषु कर्मसु धीयते पुरोधाः । (पुरोधाञोऽसिं ) । पुरोधसौ, पुरोधसः इत्यादि । २ पुरो धीयते हिनोति स्मेति वा पुरोहितः । 'डुधाञ् धारणादौ' (जु.उ. अ.), निष्ठा, 'दधातेर्हि : ७ ४ ४२ ॥ इति हिरादेशः । १० ‘हि गतौ वृद्धौ च’(स्वा.प.अ.) इत्यतो वा क्तः ॥ ७२० ॥
१३ स्वस्तीत्याह सौवस्तिकः । स्वस्तिशब्दात् 'तदाहेति माशब्दादिभ्यष्ठग् वाच्यं:'(वा - ४१४ ॥ १ ॥ ) इति ठक्, 'न य्वाभ्यां पदान्ताभ्याम्- '७।३।३ ॥ इति वृद्धिनेषधे ऐचावागच्छतः । त्रीणि पुरोहितस्य ॥
अथ द्वारस्थ: क्षत्ता स्याद् द्वारपालकः । दौवारिकः प्रतीहारो वेत्र्युत्सारकदण्डिनः ॥७२१॥
१ द्वारे तिष्ठति द्वारस्थ: । 'आतोऽनुसर्गे कः ' ३।२।३ ॥, ' आतो लोप इटि च ६ |४ | ६४ ॥ इत्यालोपः । २ क्षदति संवृणोति द्वारं क्षत्ता । 'क्षद संवरणे' सौत्रः, 'तृन्तृचौ २० शसिं ( शंसि) क्षदादिभ्यः संज्ञायाम्- ' ( उणा - २५० ) इति तृच् । ३ द्वारं पालयति द्वारपालः । पचाद्यच् । कनि द्वारपालकः । ४ द्वारे नियुक्तौ दौवारिकः । 'तत्र नियुक्त: '४ ४ ६९ ॥ इति ठक्, ‘ठस्येक: '७।३५०॥, 'न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् ७।३।३ ॥ । ५ प्रतिह्रियते वार्यतेऽनेन प्रतिहारः । करणे घञ् ।‘उपसर्गस्य घञ्यमनुष्ये बहुलम् '६ ।२ ।१ २२ ॥ इति दीर्घत्वे प्रतीहारः । " प्रतिराभिमुख्ये । राज्ञोऽभिमुखं जनान् प्रतिहरति बहिः प्रापयति । 'ज्वलतिकसन्तेभ्यो णः ३ । १ ११४० ॥ इति ण: "[ ] एतत्पक्षे प्रतिहारः तृतीयस्वरवान् । " 'अन्येषामपि-'६।३।१३७॥इति दीर्घत्वे चतुर्थस्वरमध्योऽपि "[॰]इत्यन्ये ।
[ मर्त्यकाण्डः-३ "प्रतीहारो द्वारमधिकारविषयत्वेनाऽस्याऽस्तीत्यर्शआद्यचि प्रती- ३० हारः "["]इत्येके । ६ वेत्रं वेत्रदण्डोऽस्याऽस्ति वेत्री । 'अत इनिठनौ ५ २ ११५ ॥ इतीनिः । वेत्रधरोऽपि । ७ उत्सारयति जनानिति उत्सारकः । 'सृ गतौ ' ( भ्वा.प.अ.), ण्वुल् । ८ दण्डोऽस्त्यस्य दण्डी । अष्टौ द्वारपालस्य । शेषश्चात्र- " द्वाःस्थेद्वाः स्थितदर्शक: "[शेषनाममाला ३ । १४१ ॥ ] । द्वारि स्थित त्वात् द्वाः स्थितः कश्चिज्जनः तं राज्ञे दर्शयति बोधयति द्वा: स्थितदर्शक:, एकं नाम । " द्वाः स्थितो दर्शकश्चेति नामद्वयम्''[ ं]इत्येके । “स्याद् दर्शयिता प्रतीहारेऽपि दर्शर्क : " [ ] इति रुद्रः ॥७२१॥
1
रक्षिवर्गेऽनीकस्थ: स्यात्
Jain Education International
१ रक्षन्त्यवश्यं रक्षिणः अङ्गरक्षकाः, रक्षिणां वर्गो वृन्दं रक्षिवर्गस्तत्र । अवश्यं रक्षकत्वेन अनीकेन तिष्ठति अनीकस्थ: । 'सुपि स्थः ३ ।२१४ ॥ इति कः । " रक्षिवर्गस्त्वनीकस्थ: "[ अमरकोषः २ १८ १६ ॥ ] इत्यमरः । " अङ्गरक्षकवृन्द: ( अङ्गरक्षकवृन्दे) अनीके तिष्टत्यनीकस्थः, "राक्ष (राज) - शिक्षाविचक्षणो (-विचक्षणे) "[ शाश्वतकोशः, श्रो- ३४२] वा " [अम क्षीर. २ ८ १६ ॥ ] इति क्षीरस्वामी । एकमङ्गरक्षकस्य, राजशिक्षाविचक्षणस्य वा ॥
अध्यक्षाधिकृतौ समौ ।
१ अधिकृतोऽक्षेष्वायमुखेपु अध्यक्षः । अध्यक्ष्णोति ५० व्याप्नोति वा । अक्ष(अक्षू) व्याप्तौ सङ्घाते च (भ्वा.प.से.), अच् । अधिकान्यक्षाणीन्द्रियाण्यस्येति वा । २ अधिक्रियत उपरि नियुज्यते स्म अधिकृतः । द्वे सामान्येनाऽधिकारिणः । 'ऊपरू' इति भाषा ॥
पौरोगवः सूदाध्यक्षः
१ पुरः प्रथमं पाच्यवस्तुषु गौर्नेत्रमस्य पुरोगुः । ( गोस्त्रियो :- ११ १२ १४८ ॥ इति ह्रस्वत्वम्, ततः प्रज्ञाद्यणि पौरोगवः । [ यद्वा] पुरो गौर्जलमस्यां पुरोगुः रसवती),
१. कोष्ठान्तर्गतपाठः २प्रतौ न दृश्यते ॥ २. 'पुरसि च ' ( उणा - ६७० ) इत्युणादिगणसूत्रम् ॥ ३. ' - माशब्दादिभ्य उपसंख्यानम्' इति काशिकावृत्तौ भा-३, ४ ४ ११ ॥, पृ. ७३५ ॥ ४. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग:, श्रो- ४६०, पृ. ५४३ ॥ तत्र 'चतुर्थस्वरमध्योऽपि' इत्यस्य स्थाने 'दीर्घेकारोऽपि ' इति दृश्यते ॥ ५. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री- ४६०, पृ.५४३ ॥ तत्र 'अर्शआद्यचि' इत्यस्य स्थाने 'अर्शआदित्वादच्' इति तथा तृतीयस्वरवान् प्रतिहारशब्दो दृश्यते ॥ ६. 'दण्डोऽस्य' इतिर, 'दण्डोऽस्याऽस्ति' इति३ ।। ७. 'द्वाःस्थितिदर्शक:' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ८. द्र. पदचन्द्रिका, भा-२, क्षत्त्रवर्ग:, श्री - ४६०, पृ.५४४ ॥ ९ द्र रामाश्रमी २ ८ १६ ॥ पृ. ३४८ ॥ १०. तुलनीयोऽमरकोप : २ ८ १६ ॥ ११. ज्यन्ते' इति४ ॥ १२. 'उपरू' इति३ ॥ १३. कोष्ठान्तर्गतपाठः २प्रतौ न दृश्यते ॥ १४. - मस्त्यस्यां' इति३॥
४०
For Private Personal Use Only
www.jainelibrary.org