________________
७०३-७१० ]
पौलस्त्यो रावणो रक्षो-लङ्केशो दशकन्धरः ।
व्युत्पत्तिरत्नाकरकलिता
१ पुलस्तेरपत्यं पौलस्त्यः । गर्गादित्वाद् यञ् । पुलस्त्यस्याऽपत्यमिति [वा ] । 'ऋष्यन्धकवृष्ण - '४ ।१ ।११४ ॥ इत्यण् । २ विश्रवसोऽपत्यं रावणः । 'णश्च विश्रवसो विश(विश्) लुक् च' (हैमसू- ६ । १ ६५ ॥ ) इति णे साधुः । व लोकानिति, नन्द्यादित्वाल्ल्युर्वा । ३-४ रक्षसां लङ्कायाश्च ईश:, तेन रक्षसामीशो रक्षईशः, लङ्केशः । यौगिकत्वाद् राक्षसेशः, लङ्कापतिः । ५ दश कन्धरा ग्रीवाऽस्य दशकन्धरः । पञ्च
रावणस्य ॥
१० रावणिः शक्रेजिन्मेघनादो मन्दोदरीसुतः ॥ ७०६॥
१ रावणस्याऽपत्यं रावणिः । 'अत इञ् २४ । १ । ९५ ।। । २ शक्रं जितवान् शक्रजित् । 'जि अभिभवे' (भ्वा.प.अ.), क्विप्, ‘ह्रस्वस्य-- '६।१ ।७१ ॥ इति तुक् । ३ मेघस्येव नादोऽस्य मेघनादः । ४ मन्दोदर्याः सुतो मन्दोदरीसुतः । चत्वा रावणसुतस्य ॥७०६ ॥
अजातशत्रुः शल्यारिर्धर्मपुत्रो युधिष्ठिरः ।
कंड्रोऽजमीढः
१ न जाताः शत्रवोऽस्य अजातशत्रुः । २ ( शल्यस्य राज्ञोऽरिः) शल्यारिः । ३ धर्मस्य पुत्रो धर्मपुत्रः । ४ युधि २० सङ्ग्रामे स्थिरो युधिष्ठिरः । 'हलदन्तात् सप्तम्याः संज्ञायाम् ' ६ । ३ १९ ॥ इति सप्तम्यलुक्, 'गवियुधिभ्यां स्थिर : '८ । ३ ।९५ ॥ इति पत्वम् । ५ कङ्कः बाह्मणलिङ्गत्वात् । यद्गौड :- "कृतान्ते लोहपृष्ठे च कङ्को बाह्मणलिङ्गिनि "[] इति । युधिष्ठिरो हि विप्रछद्मना विराटावासेऽवात्सीदिति । ६ अजास्त्रिवार्षिका यवा मीढा अस्य, अनेन वा अजमीढः । आजमीढ इति द्वितीयस्वरादिरपि । यद्भागवतम् -' - " संज्ञाश्रिता यदनुभावितमाजमीढ तेनाहमुद्यमुषितः पुरुषेण भूम्ना "[ ] इति । पड् युधिष्ठिरस्य ॥ भीमस्तु मरुत्पुत्रो वृकोदरः ॥७०७||
Jain Education International
३११
कीर्मीर-कीचक-बक-'हिडिम्बानां निसूदनः ।
"1
१ बिभेत्यस्मादिति भीमः । 'जिमी भये ' ( जु.प.अ.), ३० 'भियः षुक् च (वा) ' ( उणा - १४५ ) इति मक् । २ मरुतो वातस्य पुत्रेो मरुत्पुत्रः । ३ वृको भीमजठराग्निः, स उदरेऽस्य वृकोदरः ॥७०७॥ ४-७ किरति विक्षिपति किर्मीरः । 'कृ(कृ) विक्षेपे' (तु.प.से.), ईरनि साधुः । “कर्मीरोऽपि ' [शब्दभेदप्रकाशः, भो-२४ ] इति शब्दप्रभेदः । कच्यते बध्य भीमेन कीचकः । 'कच बन्धने' (भ्वा.आ.से.), क्वुनि साधुः । बक इव शाठ्येन बकः । हिण्डते वनमध्ये हिडिम्बः । 'हिडि गतौ ं’(भ्वा.आ.से.), ‘हिडिविले: किम्बो नलुक्' (हैमोणा३२४ ) इति साधुः । एतेषां चतुर्णां निसूदनः, तेन किर्मीरनिसूदनः, कीचकनिसूदनः, बकनिसूदनः, हिडिम्बनिसूदनः । यौगिकत्वात् किर्मीरारित्यादयः । सरा भीमस्य ॥ अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः ॥७०८॥ राधांवेधी किरीट्यैन्द्रिर्जिष्णुः श्वेतहयो नरः । बृहन्नटो गुडाकेशः सुभद्रेशः कपिध्वजः ॥७०९ || बीभत्सः कर्णेत्ि
४०
11
15
५०
१ अर्जयति (अर्जति) कीर्तिम् अर्जुनः । 'अर्ज सर्ज अर्जने ' (भ्वा.प.से.), 'अर्जेर्णिलुक् च ' ( उणा - ३३८)इत्युनन् । २ फलति फल्गुनः । 'फल निष्पत्तौ ' (भ्वा.प.से.), 'फलैर्गुक् च' (उणा - ३३६) इत्युनन् स एव फाल्गुनः । 'प्रज्ञादिभ्यश्च' ५१४ १३८ ॥ इति स्वार्थेऽण् । ३ पृथायाः कुन्तायाँ अयं पार्थः । ‘तस्येदम्’४।३।१२० ॥ इत्यण् । ४ सव्येनाऽपि सचते बाणान् वर्षतीति सव्यसाची । 'षच सेवायाम् ' (भ्वा.आ.से.), ग्रहादित्वाणिनिः । ५ धनं गोधनं विराटनगरे कौरवेभ्यो जयति धनञ्जयः । 'जि अभिभवे' (भ्वा.प.अ.), 'संज्ञायां भृतृवृजिधारिसहित पिदमः १३ |२| ४६ ॥ इति खच्, 'अरुर्द्विपत्- '६ ३ ६७ ॥ इति मुम् ॥७०८ ॥ ६ राधां वेध्यविशेषं वेधयति राधावेधी । 'वेध (विध) वेधने ं ' ( ), ग्रहादित्वांण्णिनिः । ७ किरीट
१. कोष्ठान्तर्गतपाठस्थाने ४प्रतौ 'शल्याऽरयोऽस्य' इति 'ऽथवा शल्यस्य राज्ञोऽरिः शल्यारि:' इति टिप्पणी च दृश्यते ॥ २. द्र स्वोपज्ञटीका ३७०७॥, पृ.१५७ ॥ ३. 'हिड-' इति३ ॥ ४. 'विक्षिप्यति' इति३ ॥ ५. 'हिण्ड्यते' इति२.४ ॥ ६. 'हिडि गत्यनादरयो:' इति क्षीरतरङ्गिण्यादौ ॥ ७. 'कुन्त्या' इति ॥ ८. 'संचते' इति४, 'सचति' इति२ ॥ ९. 'षच सेचने' इति क्षीरतरङ्गिण्यादौ, मा. धातुवृत्तावुत्तोदाहरणैः सेवनार्थकोऽपि स्वीकृतः ॥ १०. 'विध वेधने' इत्येवाकरस्थः पाठः । पाठान्तरं तु प्रामादिकमन्धपरम्परायातमिति मल्लिनाथ, नैपधमहाकाव्यटीका, भा-१, ३११२७॥, पृ.१९१ ॥
For Private Personal Use Only
www.jainelibrary.org