________________
३०६
कं सुखं ते ददाति वा । 'दय दानगति [ रक्षण] हिंसादानेषु ' (भ्वा.आ.से.), मित्रद्या (मितवा ) दित्वात् कुः, ततः स्वार्थे कनि कन्दुकः, पुंक्ली । २ गच्छन् वर्तुलत्वादिन्दुप्रतिकृतिः गेन्दुकः । पृषोदरादिः । " क्रीडास्थाने युवतीभिः सह क्रीडार्थं गेन्दुकादिरपेक्ष्यते'''[ ]इति शय्याप्रस्तावेऽस्याऽभिधानमिति नाऽप्रस्तुतोक्तिशङ्का । द्वे 'दडा' इति ख्यातस्य ॥ राजा रोट् पृथिवीशक्रमध्यलोकेशभूभृतः ॥६८९॥
अभिधानचिन्तामणिनाममाला
9
10
11
महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू - प्रजा - नृपः ।
१ राजतेऽमात्यादिभिरिति राजा । रञ्जयति प्रजां १० वा । 'राजू दीप्तौ ' (भ्वा.उ.से.), 'रञ्ज रागे' (भ्वा.उ. अ.) वा, 'कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः' (उणा - १५४ ) इति कनिन् । २ राजतेऽसौ राट् । 'राजू दीप्तौ ' ( भ्वा.उ.से.), 'सत्सूद्विष- '३ ।२।६१ ॥ इति क्विप्, 'व्रश्चभ्रस्ज- '८।२।३६ ॥ इति षत्वम्, 'झलां जशोऽन्ते - १८ । २ । ३९ ॥ इति डत्वम्, [' वाऽवसाने '८ १४ १५६ ॥ इति विकल्पेन चर्त्वम् राट् - ड् ] । ३ पृथिव्यां शक्र इव पृथिवीशक्रः । ४ मध्यलोकस्येशो मध्यलोकेशः । ५ भुवं विभर्ति भूभृत् । क्विबन्तः ॥ ६८९ ॥ ६ महीं क्षितवान् प्राप्तवान्, महीं क्षयत्यधिवसति वा महीक्षित् । 'क्षि निवासगत्योः' (तु.प.अ.), क्विप्, 'ह्रस्व२० स्य - ६ ११ ७१ ॥ इति तुक् । ७ पृथिव्या ईश्वरः पार्थिवः । ‘सर्वभूमिपृथिवीयामणञौ '५ । १ । ४१ ॥ इत्यनुवृत्तौ ' तस्येश्वर : ' ५।१।४२ ॥ इत्यञ् । ८ मूर्धन्यभिषिच्यते स्म मूर्धाभिषिक्तः । 'षिचिर् क्षरणे '(तु.उ.अ.), निष्ठा । मूर्धावसिक्तोऽपि । ९११ भूप्रजानृभ्यः प इति योज्यते, तेन भुवं पाति भूपः । 'पा रक्षणे ' ( अ.प.अ.), 'आत :- '३ ।२।३ ॥ इति कः । प्रजाः पाति रक्षति प्रजापः । नृन् पाति नृपः । यौगिकत्वाद् भूपाल:, नरपाल, लोकपाल इत्यादयः । एकादश सामान्येन राज्ञः ॥ मध्यमो मण्डलाधीशः
१ मध्यमः सामान्योऽग्रेतनापेक्षया । २ मण्डलस्य ३० देशमात्रस्याऽधीशो मण्डलाधीशः । द्वादशराजमण्डलमध्याद्
[ मर्त्यकाण्डः-३ मण्डलमात्रस्याऽधीश इत्यर्थः । " स्यान्मण्डलं द्वादशराजके च देशे च विश्वे (बिम्बे) च कदम्बके च " [ विश्वप्रकाशकोशः, लान्तवर्ग:, श्रो- ८१] इति विश्वः । " नृपोऽन्यो मण्डलेश्वर: " [ अमरकोषः २ ।८।२ ॥]इत्यमरः । " अन्यो भूम्येकदेशे यो नृपः " [ अम.क्षीर. २।८।२ ॥] इति तट्टीका । " मध्यमो मण्डलेश्वरः " [हलायुधकोशः २ ।४२२ ॥]इति हलायुधः । " भूम्येकदेशेश्वरे द्वौ " [ ] इति तट्टीका । द्वे मण्डलीकस्य ॥
सम्राट् तु शास्ति यो नृपान् ॥६९०॥
१ यः सर्वमण्डलस्येशो राजसूयं च योजयेत्, यो नृपान् शास्ति भृत्यवद् व्यापारेषु नियोजयति, यः सर्वमण्ड- ४० लस्य द्वादशराजचक्रस्येशः च पुनः यो राजसूयं यज्ञविशेषमयजत्, स सम्राट् इत्यर्थः ।
Jain Education International
"येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।
शास्ति यश्चाज्ञया राज्ञः स सम्राट् ॥ " [ अमरकोषः २८ । ३ ॥ ] इत्यमरः । एकं द्वादशराजमण्डलाधिपते राज्ञः ॥ चक्रवर्ती सार्वभौमः
१ चक्रे भूमण्डले द्वादशराजमण्डले च वर्तितुं प्रभुत्वलक्षणां वृत्तिं घटां (चेष्टां) कर्तुं शीलमस्य, णिनिः । चक्रे राजसमूहे ऽवश्यं स्वामित्वेन वर्तते वा । आवश्यके णिनिः चक्रवर्ती । " चक्रवर्ती वल्लगणे (चक्रो गणे) चक्रवाके" ५० [विश्वप्रकाशकोशः, रान्तवर्ग:, श्रो- ४९ ] इति विश्वः । चक्रेण चक्रायुधरत्नेन वर्तितुं शीलमस्येति वा । २ सर्वभूमेरीश्वरः (समुद्रपरिवृताया भूमेरीश्वरः), 'सर्वभूमि - '५ ।१ ४१ ॥ इत्यनुवृत्तौ, 'तस्येश्वर : '५ ।१ ४२ ॥ इत्यण्, 'अनुशतिकादीनां च ' ७।३।२० ॥ इत्युभयपदवृद्धि:, [ सार्वभौमः ] । द्वे चक्रिणः । " अधीश्वरः''[ शेषनाममाला३ | १३८ ॥ ] शैषिकम् ॥
ते तु द्वादश भारते ॥ ६९१॥
१ ते चक्रिणो भारते वर्षे द्वादश अवसर्पिणीकाले भवन्ति स्म ॥६९१॥ अथ तान्
क्रमेणाऽऽह
१. 'दयति' इति३.४ ॥ २. क्षत' इति३ ॥ ३. 'प्रजामिति' इति३ ॥ ४. 'षिच क्षरणे' इति क्षीरतरङ्गिण्यादौ ॥ ५. 'नृन्' इति१. २.४ ॥ ६. यजयत्' इति३, ' - योजयत्' इति४ ॥ ७ यः स्वाज्ञया' इति३ ॥ ८ तुलनीयोऽमरकोषः २ १८ ।२ ॥ ९. इतोऽग्रे ४प्रतौ 'च' इति दृश्यते ॥ १०. कोष्ठान्तर्गतपाठः ३ प्रतौ न दृश्यते ॥
For Private & Personal Use Only
६०
www.jainelibrary.org