________________
६८५-६८९ ]
दशां वर्तिकामाकर्षति दशाकर्षः । ७ दशैवेन्धनमस्य दशेन्धनः । सप्त दीपस्य । 'जोइक्खो' देश्याम् । "दोषातिलकः [ इत्यपि ], शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः " [ त्रिकाण्डशेषः २ १६ १४३ ॥ ] इति त्रिकाण्डशेषः ॥
व्युत्पत्तिरत्नाकरकलिता
व्यजनं' तालवृन्तम्
१ व्यज्यते क्षिप्यते वायुरनेन व्यञ्जनम् (व्यजनम्)। 'अज गतौ क्षेपणे च' (भ्वा.प.से.), करणे ल्युट् । 'बहुलं संज्ञाच्छन्दसो :- ' (वा - २१४१५४ ॥ ) इति न वीभावः । २ तालवृन्तविकारत्वात् तालम्, तालस्य वृन्तं घटधारेव शैत्यजनक१० त्वात् तालवृन्तम् । " वृन्तं प्रसवबन्धे स्याद् घटधाराकुचाग्रयोः"[विश्वप्रकाशकोशः, तान्तवर्ग:, श्री - ३१] इति विश्वः । अन्यत्राऽपि व्यजनमुपचारात् । द्वे व्यजनस्य ॥
तद् धवि॑त्रं मृगचर्मणः ॥६८७ ॥
१ तद्धि व्यजनं मृगश्चर्मणश्चेद् धूयतेऽग्निरनेन धवित्रम् । 'धूञ् कम्पने '(स्वा.क्र्या.चु.उ.वे.), 'अर्त्तिलूधूसूखनसहचर इत्र : '३।२।१८४ ॥ इतीत्रः । 'धू विधूनने' (तु.प.से.), तुदादिः, 'कुटे : किच्च ' ( उणा - ५२० ) इत्यादिज्ञापकाद् ‘गाङ्कुटादिभ्योऽञ्णिङित् ' १ ।२ ।१ ॥ इत्यस्याऽनित्यत्वाद् गुणः । हरदत्तस्तु ङित्त्वमेवेच्छन् धुवित्रमित्युवङमे२० वा । एतच्च यज्ञोपकरणे प्रसिद्धम् ॥
आलावर्तं तु वस्त्रस्य
१ आरादावर्त्यते आलावर्तम् । पृषोदरादिः । वस्त्र - स्येत्यर्थाद् व्यजनमेकम् ॥
कङ्कतः केशमार्जनः ।
प्रसाधनश्च
१ कङ्कते याति शिरः कङ्कतः, त्रिलिङ्गिः । ककिवर्किश्वकित्रकिढौकृ[त्रौकृ] ष्वष्केत्यादयो गत्यर्थाः, बाहुलकातच् । स्त्रियां गौरादित्वात् कङ्कती । स्वार्थे कनि 'केऽणः ७ १४।१३ ॥ इति ह्रस्व:, टाप्, कङ्कतिका । "कङ्कत
Jain Education International
३०५
एव कङ्कतिका, संज्ञायां कनि, टापि, प्रत्ययस्थात्- '७।३।- ३० ४४ ॥ इतीत्वम् [ मा.धातुवृत्तिः, भ्वादिगणः, धातुसं - ७७] इति माधवः। कस्य शिरसोऽङ्का कङ्काः केशाः, शकन्ध्वादित्वात् पररूपत्वम्, कङ्के अतति गच्छति, ('केऽणः ७ १४ ॥ १३ ॥ इति ह्रस्वत्वे टाप्यतचि वा क्वन्) । " कङ्कती तु प्रसाधनी " [] इति त्रि(स्त्री)काण्डेऽमरमाला । " कङ्कतं तु प्रसाधनं''[] इति क्लीबकाण्डं च । कङ्कान् दन्तान् तनोतीतिं, 'अन्येभ्योऽपि (अन्येष्वपि ) - १३ ।२ । १०१ ॥ इति डो वा । २ केशा मार्ण्यन्तेऽनेन केशमार्जन: । 'मृजूष् शुद्धौ ' ( अ.प.से.), करणे ल्युट् । ३ प्रसाध्यन्ते केशा अनेन प्रसाधनः । 'साध संसिद्धौ' (स्वा.प.अ.), करणे ल्युट् । "प्रसाधनी कङ्कतिका "[ अमरकोष: २ । ६ । १३९ ||]इत्यमरः । त्रीणि 'कांकसी' इति ख्यातायाः ॥
अथ बालक्रीडनके गुंडो गिरिः ॥६८८॥ गिरियको गिरिगुडः
१ बालाः क्रीडन्त्यनेन बालक्रीडनम् । 'क्रीड (क्रीड) विहारे' (भ्वा.प.से.), नन्द्यादिः, ततः स्वार्थे कनि बालक्रीडनकम्, तत्र । २ गुड्यते गुडः । 'गुड रक्षणे (तु-प.से.), घञ् । गुडतीति इगुपधत्वात् को वा । ३ गीर्यते गिरिः, पुंसि । 'गृ निगरणे' (तु.प.से.), 'इक् कृष्यादिभ्यः' (वा - ३ | ३ | १०८ ॥ ) इतीक् ॥ ६८८ ॥ ४-५ गीर्यते गिरियकः । गीर्यते" गुड्यते च गिरिगुडः । द्वावपि पृषोदरादी । भ्रमरकोऽपि, यन्महेश्वरः-‘“भ्रमरको जले भृङ्गे गिरिकै चूर्णकुन्तले" [विश्वप्रकाशकोशः, कान्तवर्ग:, - १८४ ] इति । यथा- "हेलाहतभ्रमरकभ्रमिमण्डलीभिः " ["]इति । पञ्च बालक्रीडनस्य । "लट्टू भ्रमर' इति भाषा ॥
समौ कन्दुकगेन्दुकौ ।
१ कन्द्यत आहूयते क्रीडार्थिभिरिति । 'कदि [क्रदि] क्लदि वैक्लव्ये'(भ्वा.आ.से.), बाहुलकाद् 'भृतृर्मृ-'(उणा७) इत्यादिना उ:, कन्दुः, ततः स्वार्थे कनि कन्दुकः, पुंक्ली. ।
१. ‘त्रिकाण्डः' इति३ ॥ २. 'व्यञ्ज-' इति१.३.४ ॥ ३. 'व्यञ्ज्यते' इति२ ॥ ४. 'कुट:' इत्युणादिगणे ॥ ५. द्र मा.धातुवृत्तिः, तुदादिः, धातुसं - १००, पृ. ४७९ ॥ तत्र " 'कुटे: किच्च' इत्यादिज्ञापकात् कुटादिङित्त्वान्नित्यत्वाद् गुण इति केचिदिति कुटतावुक्तम् । 'विदिभिदि' इति सूत्रे हरदत्तस्तु ङित्वमेवेच्छन् धुवित्रम् इत्युवङमेवाह" इति दृश्यते ॥ ६. स्वामी न पठति ॥ ७ सर्वप्रतिषु कोष्ठान्तवर्गतपाठश्चलितो दृश्यते ॥ ८. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३९७, पृ.४८५ ॥ रामाश्रमी२ ६ ॥ १३९ ॥ पृ.३२३ ॥ ९ इतोऽग्रे १प्रतौ 'वा' इति दृश्यते ॥ १०. 'कन्' इति२ ॥ ११ इतोऽग्रे ३प्रतौ 'च' इति दृश्यते ॥ १२. इतोऽग्रे ३प्रतौ 'गुड्यते' इति दृश्यते ॥ १३. 'गिरिजे' इति विश्वप्रकाशकोशे, पृ.१७॥ १४. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ४।२४ ॥ पृ.३२३ ॥ १५. 'लट्ट' इति३ ॥ १६. 'भृमृशीतृ-' इत्युणादिगणे ॥
For Private Personal Use Only
४०
५०
www.jainelibrary.org