________________
३००
१ कक्षायाः कच्छाटिकायाः पटो वासः कक्षापटः । 'कक्षापुट: ''[ ] इत्येके । २ कूपप्रवेशनमर्हति कौपीनम् । 'शालीनकौपीने ' अधृष्टा-'५।२।२०॥इति साधुः । द्वे पायूपस्थावरचीवरखण्डस्य । 'कछोटओ' तणीओ' इति भाषा ॥
समौ नक्त
।
"
अभिधानचिन्तामणिनाममाला
१ अज्यते स्म अक्तः स्फुट:, न अक्तं कं सुखमस्मादिति त्रिपदे बहुव्रीहौ शकन्ध्वादित्वात् पररूपत्वें नक्तकः । “लक्यते हीनैरास्वाद्यतेऽनुभूयते, 'रक लक आस्वादने '(चु.उ.से.), चुरादेर्विकल्पितण्यन्तात् कर्मणि क्तः लक्तः, ततः १० स्वार्थे कनि लक्तक इत्यपि पाठ : " [ ] इति मिश्राः । येन द्रवद्रव्यं पूयते, तत्राऽयं रूढः, तत्तुल्ये वस्त्रेऽपि वर्तते । कल्पते कुत्सायै कर्पट: पुंक्ली । 'कृपू सामर्थ्ये' (भ्वा.आ.वे.), शकादित्वादन् । किरत्यवयविनं कर् । 'कृ विक्षेपे' (तु.प.से.), विच् । कर् चासौ पटश्चेति कर्पट इति वा । कर्पटशब्दः सामन्यवस्त्रवाच्यपि । द्वे 'गलणउं' इति ख्यातस्य । “इमे द्वे मलिनत्वादिदुष्टजीर्णवस्त्रखण्डस्य"[]इति तु मिश्राः । " वस्त्रमात्रस्य [ इति ] केचित् " [ ] इति सुभूतिः ॥ निचोलः प्रच्छेदपटो निचुलश्चोत्तरच्छदः ॥६७६॥
१०
१ निचोल्यते समुछ्राय्यतेऽवगुण्ठ्यते वाऽनेन निचोलः । २० 'चुल समुच्छ्राये' (चु.उ.से.), करणे घञ्, पुंसि । " निचोलनं (निचोलं ) तु क्लीबम् "[ ]इति रभसात् क्लीवेऽपि । "स्त्रियां निचोलीत्यपि "[ ] इति राजदेवः । २ प्रकर्षेण छाद्यतेऽनेन प्रच्छदः । 'छद अपवारणे' (चु.उ.से.), अस्माण्ण्यन्ताद् घञ्, 'छादेर्घे - '६ १४ ।९६ ॥ इति ह्रस्वः । प्रच्छदश्चासौ पटश्च प्रच्छदपटः । ३ निचोलति निचुलः, पुंसि । 'चुल समुच्छ्राये' (चु.उ.से.), 'इगुपध - '३ । १ । १३५ ॥ इति कः । गौडस्तु"निचोलकस्तु निचुलकम् " [ "]इति क्लीबमाह । ४ उत्तरं छाद्यतेऽनेन उत्तरच्छदः । 'पुंसि संज्ञायाम् '३ | ३ |११८ ॥ इति
[ मर्त्यकाण्डः - ३
घ:, 'छादेर्घे - '६४ ९६ ॥ इति ह्रस्वत्वम् । चत्वारि उत्तरपटस्य । 'उच्छाडखाटपछेडी' इति भाषा ॥ ६७६ ॥
३०
Jain Education International
उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते ।
वस्त्रमाल्यादि तत् पूर्णपात्रं पूर्णानिकं च तत्
॥६७७॥
१ पूर्णपात्रमस्मिन् पूर्णपात्रम् । २ पूर्ण आनकोऽत्र पूर्णानकम् ।
"हर्षादुत्सवकाले यदलङ्काराम्बरादिकम् ।
आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ||१|| " [ हारावली, श्लोकावधि:, श्रो- १९] इति हारावली । एते सामान्येन जलादिभृतभाजननाम्नी अपि । यन्महेश्वरः"पूर्णपात्रं वस्तुपूर्णपात्रे वर्धापकेऽपि च ' ' [ विश्वप्रकाशकोशः, ४० रान्तवर्गः, श्ले-२७०]इति । "उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते वस्त्रमाल्यादि स वर्धापनकै: "[ अनेकार्थकैरवाकरकौमुदीटीका४ ॥ २७२ ॥ ] इत्यनेकार्थटीका । "क्लीबे" पूर्णानक (पूर्णानकं ) पूर्णपात्रे पटहपात्रयोः " [विश्वलोचनकोशः, कान्तवर्ग:, श्रो- २०४] इति श्रीधरः । द्वे पूर्णपात्रस्य । ''वैधामणी' इति भाषा ॥६७७॥
तत्तु स्यादाप्रपदीनं व्याजोत्याप्रपदं हि यत् ।
१ यद् वस्त्रमाल्यादि आप्रपदं पादाग्रं मर्यादीकृत्य व्याप्नोति न तदतिक्रम्य वर्तते, तद् वस्त्रमाल्यादिकम् आप्रपदीनं स्यादित्यन्वयः । प्रगतं पदं प्रपदम् पादाग्रमित्यर्थः, ५० प्रपदाद् आ इत्याप्रपदम्, तद् व्याप्नोतीति आप्रपदीनम् । 'आप्रपदं व्याप्नोति ( प्राप्नोति) ५ ॥२॥८ ॥ इति द्वितीयान्तात् खः, खस्य ईनादेशः । " स्यात् त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ''[ अमरकोषः २ |६ । ११९ ॥ ] इत्यमरः । एकं सामान्येन पादाग्रव्यापिवस्त्रादेः ॥
१. ' - कौपने' इति१.२.३ ॥ २. ' -च्छोटो' इति३, च्छोटौ' इति४॥ ३. तुलनीयोऽमरकोषः २ १६ । ११५ ॥ ४. इतोऽग्रे ३प्रतौ 'च' इति दृश्यते ॥ ५. 'रूपे' इति१ ॥ ६. यद्यपि क्षीरतरङ्गिण्यां 'रग लग आस्वादने' (चुरादिः, धातुसं १८७) इत्यत्र टिप्पण्यां मीमांसकमहोदयेन " चान्द्रधातुपाठे नैवेमौ धातू पठ्येते ।" इत्युक्तम्, तथापि तत्रैव धातुपाठव्याख्यावसरे स्वामिना "रक लकेति चन्द्रः" इत्युक्तमतश्चन्द्रसम्मतोऽयं धातुपाठः ॥ ७ तुलनीया पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३७३, पृ.४६१ ॥ ८. 'कल्प्यते' इति १ २ ॥ ९. ' - णौ ' इति३.४ ॥ १०. द्र टीकासर्वस्वम्, भा-२, २६॥११७॥, पृ.३७४॥, तत्र 'निचोला स्यान्निचुल:' इति दृश्यते ॥ पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- ३७४, पृ. ४६३ ॥, रामाश्रमी २।६।११६ ॥ पृ.३१३ ॥, तयो: 'निचोलं तु नपुंसकम्' इति दृश्यते ॥ ११. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री ३७४, पृ.४६३ ॥, रामाश्रमी २ । ६ । ११६ ॥ पृ. ३१३ । १२. द्र. स्वोपज्ञटीका३ । ६७६ ॥, पृ. १५१ ।। १३. 'उच्छाडखाडपछेवडी' इति३, 'उच्छावडखाटपछेवडी' इति४ ॥ १४. 'वर्धापक : ' इत्यनेकार्थकैरवाकरकौमुदीटीकायाम्, भा-२, ४।२७२ ॥ पृ.३९४ ॥ १५. 'क्लीबं' इति विश्वलोचनकोशे, पृ.३५ ॥ १६. 'ब-' इति४ ॥ १७. इतोऽग्रे ४प्रतौ 'अकृत्य' इति दृश्यते ॥
For Private & Personal Use Only.
www.jainelibrary.org