________________
२०
२९८
देहभागे आसज्यत इति वा । उत्तरशब्दो वामपार्श्ववचनोऽपि । यथा - उत्तरे चास्य सौवर्णं लक्ष्मपार्श्वे भविष्यति” [महा. ३ । १२७ ।२१] इति वनपर्वणि जन्तूपाख्याने । " उत्तरो वाम:" []इति तट्टीकाकृता विवृतम् । ४ बृहत्येव बृहतिका । 'बृहत्या आच्छादने' ५।४।६ ॥ इति कन्, 'केऽण: ' ७१४ | १३ || | "बृहती वसनान्तरे "[मेदिनीकोशः, तान्तवर्ग:, श्रो- १३७ ] इति मेदिनिः । चत्वारि 'उत्तरासण' इति ख्यातस्य ॥ वराशिः स्थूलशाटः स्यात्
१ वरमावरणमश्नुते व्याप्नोति हिमादिवारणाद् १० वराशि: । 'अशूङ् व्याप्तौ ' ( ), 'इन्' (उणा - ५५७ ) इतीन्, पुंस्ययम् । "वराशिर्ना" [] इति तालव्यान्ते शाब्दिकाः । वृणोत्यङ्गमिति इप्रत्यये पृषोदरादित्वाद्वा । "वरासि: स्यात् खड्गवरो(-रे) वराशिः स्थूलशाटके "[]इति दन्त्यान्तेषु रभसाद् दन्त्यान्तोऽपि । २ शटति गुरुत्वाद्रुजत्यवसादयति वा शटः। ‘शट रुजाविशरणगत्यवसादनेषु' (भ्वा.प.से.), अच्, ततः प्रज्ञाद्यणि शाटः । स्थूलश्चासौ शाटश्च स्थूलशाट: । ण्वुलि शाटकोऽपि, त्रिलिङ्गः, यथा शाटकः शाटिका, शाटकमिति । "सुचेलक: पटोऽस्त्री ना वराशिः स्थूलशाटक: '[अमरकोषः २।६।११६ ॥]इत्यमरः । द्वे स्थूलवस्त्रस्य ॥
परिधानं त्वधोंऽशुकम् ॥६७२॥ अन्तरीयं निवसनमुपसंव्यानमित्यपि ।
१ परिधीयत इति परिधानम् । 'डुधाञ् धारणादौ' (जु.उ. अ.), कर्मणि ल्युट् । २ अधः अंशुकं वस्त्रम् अधोंऽशुकम् ॥६७२ ॥ ३ अन्तरे कायस्य भवम् अन्तरीयम् । 'गहादिभ्यश्च '४ । २ । १३८ ॥ । ४ निवस्यतेऽनेन निवसनम् । 'वस आच्छादने' (अ.आ.से.) करणे ल्युट् । ५ उप व्याप्य संवीयतेऽङ्गमनेन उपसंव्यानम् । 'व्येञ् संवरणे' (भ्वा.उ.से.),
अभिधानचिन्तामणिनाममाला
[ मर्त्यकाण्डः-३
ल्युट् । सामान्येन पञ्च परिधानवस्त्रस्य । 'पोतिसूंथणिफेटियांप्रभृतिभाषा ॥
Jain Education International
तद्ग्रन्थिरुच्चयो नीवी
१ तस्य परिधानस्य ग्रन्थिराग्रन्थनं तद्ग्रन्थिः, उच्चीयते बध्यतेऽनेन उच्चयः । 'चिञ् चयने' (स्वा.उ.अ.), ‘एरच्’३।३।५६ ॥ इत्यच् । २ नीयते जघनस्थवस्त्रे नीवि: । 'णीञ् प्रापणे'(भ्वा.उ.अ.), बाहुलकाद् विप्रत्ययः । 'कृदिकारात्- '(गणसू-४।१।४५ ॥ ) इति ङीषि नीवी । 'व्येञ् संवरणे' (भ्वा.उ. अ.) निपूर्व:, " 'नौ व्यो पलभोप (यलोपः) पूर्वपदस्य (पूर्वस्य) च दीर्घ : ' ( उणा - ५७५) इति इकारप्रत्यये डित्त्वाट्टिलोपयलोपयोः पूर्वपददीर्घः नीवीं "[मा. धातुवृत्तिः, भ्वादिगणः, धातुसं - ७३३] इति माधवः । सारसनमपि । यदमरः-“ क्लीबे सारसनम् " [ अमरकोषः २।६। १०९॥]। “स्त्रीकट्यां वस्त्रग्रन्थनम् ' [ अम. क्षीर. २ ६ ११०९ ॥ ] इति क्षीरस्वामी । अन्येऽपि "मेखलायां सारसनमुरस्त्रे च तनुत्रिणां अधोवासोग्रन्थने च" [ " ] इति । स्त्रीकट्यामेव । यत्कात्यः-‘“नीविराग्रन्थनं नार्या जघनस्थस्य वासर्स : "[ ] इति । द्वे पाटलीति ख्यातायाः ॥
वरस्त्र्यर्धोरुकांशुकम् ॥६७३॥
१. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३७५, पृ.४६४ ॥ २. क्षीरतरङ्गिण्यादौ ङकारानुबन्धो न दृश्यते ॥ ३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री- ३७४, पृ. ४६२-४६३ ॥ रामाश्रमी २ ६ ॥ ११६ ॥, पृ. ३१३ ॥ ४. कः' इति१.४ ॥ ५. 'वराशि:' इति३.४ ॥ ६. 'पोत-' इति३ ॥ ७. 'सूथ- ' इति३.४ ॥ ८. 'निवी' इति४ ॥ ९. 'णीङ्' इति३ ॥ १०. वस्तुतः 'नौव्यो-' इत्यादि सायणेनोक्तं व्याख्यानं 'निविः' इत्यस्य, न तु 'नीवी' इत्यस्य, अतस्तत्र (मा. धातुवृत्तौ) स्थितम् "नीवी कृदिकारादक्तिनः इति वा ङीष्" इत्यग्रिमव्याख्यानमप्यत्र भाव्यम् द्र मा. धातुवृत्तिः भ्वादि:, धातुसं - ७३२, पृ. ३०३ ॥ ११. दन्त्यादौ रभसेऽपीत्यर्थः ॥ १२ द्र टीकासर्वस्वम्, भा-२, २१६ ॥ १०९ ॥, पृ. ३१०॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३६७, पृ. ४५४ ॥ रामाश्रमी २६ । १०९ ॥ पृ.३१० ॥ १३. 'वाससि' इति३ ॥ १४. ' - दनं' इति३ ॥ १५. कोष्ठान्तर्गतपाठः २प्रतौ न दृश्यते ॥ १६. 'पुंक्ली' इति३ ॥ १७. 'चल कम्पने' इति क्षीरतरङ्गिण्यादौ ॥ १८. द्र टीकासर्वस्वम्, भा-२ २६ ११९ ॥, पृ. ३७५ ॥ तत्र 'स्मृतः' इत्यस्य स्थाने 'पुमान्' इति दृश्यते ॥ पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- ३७७, पृ. ४६५ ॥ रामाश्रमी २६ । ११९ ॥, पृ. ३१४ ॥
३०
चण्डातकं चलनकः
१ ऊर्वोः सक्थ्योरर्धाच्छादकं वस्त्रमर्धोरुकांशुकम्, वरस्त्रीणामर्धो रुकांशुकं ( वैरस्त्र्यर्धोरुकांशुकम् ) ॥ ६७३ ॥ चण्ड तीव्रमतति चण्डातकम् । 'अत सातत्यगमने ' (भ्वा.प.से.), ५० ण्वुल् । अच्, ततः कन्निति वा । पुंक्लीबलिङ्गैः । २ चलतीत्येवंशीलः चलनः । 'चल चलने (भ्वा.प.से.), 'चलनशब्दा[ र्था] दकर्मकाद्युच्' ३ ।२।१४८ ॥ । कनि चलनकः । “अर्धोरुकं वरस्त्रीणां वासश्चण्डातकः स्मृतः "["] इति पुंस्काण्डे वोपालितः । द्वे 'चरणा' इति ख्यातस्य ॥
For Private Personal Use Only
४०
www.jainelibrary.org