________________
२९६
अभिधानचिन्तामणिनाममाला
१ लकुचवटादीनां पत्रेषु कृमिलालोर्णाकृतं पत्रोर्णम् । पृषोदरादिः ॥
" वयन्ति चारुवातानि व्यूयन्ते पटपट्टिकाः । वयन्ते चित्रपत्रोर्णं यत्कृते शिल्पिनः सदा ॥१॥" [ ] इति हलायुधकाव्यम् । मिश्रास्तु " लकुचवटादिपत्रेषु कृमिभिरूर्णाभिः कृतत्वात् पत्रोर्णम् । पत्रसम्बन्धीनि ऊर्णाऽत्रेति पत्रोर्णम् । पत्रोर्णं कौषे (शे) यमेव धौतं प्रक्षालितं पत्रोर्णाख्यमिति तु सुभूत्यादय:" [ ] इति प्रोचुः । २ धाव्यते स्मेति धौतम् । ‘धावु गतिशुद्ध्योः’(भ्वा.प.से.), भ्वादिरुभयपदी । १० धौतं च तत् कौशेयं च कृमिकोशोत्थं धौतकौशेयम् । [द्वे धौतकौशेयस्य ] ॥
उष्णीषो मूर्धवेष्टनम् ॥६६७॥
१ ओषत्यश्रियम् उष्णीषः, पुंक्ली । 'उष दाहे ' (भ्वा.प.से.), पृषोदरादिः। २ मूर्धा वेष्ट्यतेऽनेन मूर्धवेष्टनम् । 'वेष्ट वेष्टेन'(भ्वा.आ.से.), करणे ल्युट् । द्वे 'पाघडी' इति
ख्यातायाः ॥६६७ ॥
तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युम् ।
१ यद्धौतयोः प्रक्षालितयोर्वस्त्रयोर्युगं तद् उद्गमनीयम् इत्यन्वयः । शोषणायोद्गमनार्हत्वादुद्गमनीयम् । 'गम्लृ २० गतौ'(भ्वा.प.अ.), 'तव्यत्तव्यानीयर : '३ । १ ।९६ ॥ इत्यनीयर् । "उद्गम्यतेऽ भिलष्यते "[]इति तु माधवी । " अत्र युगमिति प्रायिकम्, तेनैकमपि, ‘धरैरुद्रमनीयं तु धौतवस्त्रमुदाहृतम् [] इति मुनि: । [ लक्ष्यं च ] "गृहीतवत्युद्गमनीयवस्त्रा''[कुमारसम्भवम्, सर्गः - ७, श्रो- ११ ] इति । एकं धौतवस्त्रयुगस्य ॥ त्वक्फलकृमिरोमभ्यःसंभवात् तच्चतुर्विधम् ॥६६८॥ क्षौमकार्पासकौशेयराङ्कवादिविभेदतः ।
तदिति वस्त्रं त्वक्फलकृमिरोमभ्य उपादानकारणेभ्यः
[ मर्त्यकाण्डः-३ संभवादुत्पत्तेः क्षौमकार्पासकौशेयराङ्कवादिविभेदतश्चतुर्विधं चतुःप्रकारम् । त्वग् वल्कलं छल्लिरिति पर्यायाः, तज्जं क्षौमादि । " वाल्कलं' क्षौमादि" [ अमरकोषः २ । ६ । १११ ॥ ] इत्यमरः । ३० " आदिशब्दाद् भाङ्गादि [ अम. क्षीर. २ । ६ । १११ ॥ ] इति क्षीरस्वामी । भाङ्गं शणनिष्पन्नं 'त्रापड' इति प्रसिद्धिः । फलं सस्यम्, तज्जं कार्पासादि । कृमि: कीटस्तज्जं कौशेयादि । रोमतनूरुहम्, तज्जं राङ्कवादि ॥ अथैतानि क्रमेणाह -
Jain Education International
क्षौमं दुकूलं दुगूलं स्यात्
१ क्षुमाऽतसी, तस्या विकारः क्षौमम्, पुंक्ली. । 'तस्य विकारः '४।३।१३२ ॥ इत्यण् । सौत्रवस्त्रादधिकं क्षौति । 'टुक्षु शब्दे'(अ.प.से.), धर्मवन्मन्, बाहुलकाद् वृद्धिः । “क्लीबमाविष्टलिङ्गम्’[ ]इति तु सुभूतिः । स्त्रियां क्षौमी । २-३ ४० दुनोति शत्रुमनांसि, बाहुलकात् 'टुदुर्व् उपतापे'(स्वा.प.से.), अस्मात् पिञ्जादित्वादुलच् कुंग्गुगागमश्च दुकूलम्, दुगूलं च । क्षौमदुकूलशब्दौ सूक्ष्मवस्त्रनाम्नी अपि, अधोतरीत्यादिभाषा । यन्महेश्वर:-" क्षौमं मदे" दुकूले स्यादतसीवसनेऽपि च "[विश्वप्रकाशकोशः, मान्तवर्गः, श्रो- ६] इति, "दुकूलं [तु] क्षौमे " सुक्ष्मांशुकेऽपि च ' [ विश्वप्रकाशकोशः, लान्तवर्ग:, श्रो- ११५] इति । त्रीणि सामान्येनाऽतसीत्वग्निष्पन्नस्य वस्त्रस्य ॥ कार्पासं तु बादरम् ॥६६९॥
१-२ कर्पासफलस्य विकारः कार्पासम् । 'तस्य विकारः'४।३।१३४॥ इत्यण् । एवं बदरस्य विकारों बादरम् । ५० कर्पासीबदराभ्यां फले विकारेऽण्, तस्य 'फले लुक् ४ | ३ | १६३ ॥ इति लुक्, ततोऽण् । फालमपि । " फालं तु कार्पासं बादरं च तत् "[ अमरकोषः २ । ६ । १११ ॥ ] इत्यमरः । " फालं 'सीरोपकरणे कार्पासादिकवाससि [विश्वप्रकाशकोशः, लान्तवर्ग:, श्रो- २०] इति महेश्वरश्च । द्वे सामान्येन कार्पासवस्त्रस्य ॥६६९॥
१. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- ३७१, पृ.४५८ ॥ २ तुलनीयोऽमरकोषः २ १६ ॥ ११२ ॥ ३. द्र. स्वोपज्ञटीका३ । ६६८ ॥ पृ. १४९ ॥ ४. 'सुभूति:' इति४॥ ५. 'वाल्कं' इत्यमरकोषे ॥ ६. 'द्धेः' इति ॥ ७. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३७१, पृ.४५९ ॥ तत्र ‘“क्षौममिति । सौत्रवस्त्रादिकम् । क्षौति । टुक्षु शब्दे । धर्मवन् ( Vo. 1. 1. P. 162) मनू (उ. ११३९) । क्षोममवृद्धादि क्लीबमाविष्टलिङ्गम्इति सुभूति: ।" इति दृश्यते ॥ ८. 'दुञ्' इति २. ३, क्षीरतरङ्गिण्यादौ ञकारानुबन्धो न दृश्यते ॥ ९. 'दुक्वोः कुक् च' इत्यनेन ॥ १०. 'क्षौममट्टे' इति विश्वप्रकाशकोशे, पृ. ११० ॥ ११. 'क्षोमे' इति३ ॥ १२. 'का-' इति२ ॥ १३. 'बदरविकारो' इति३ ॥ १४. 'शिरो-' इति विश्वप्रकाशकोशे, पृ. १५० ॥
For Private & Personal Use Only
www.jainelibrary.org