________________
६६५-६६७ ]
[अलङ्कारशेषश्चात्र-‘“पादाङ्गुलीयके] पादपालिका [पादकीलिका ] " [शेषनाममाला३ | १३६ ॥ ] अपि ॥
व्युत्पत्तिरत्नाकरकलिता
अंशुकं वस्त्रमम्बरम् । सिचयो वसनं चीराऽऽच्छादौ सिंक चलवासी
10
॥६६६॥
11
12
पैटः प्रोत:
१ अंशुभिः सूक्ष्मतन्तुभागैः काशते अंशुकम् । 'कासृ (काशृ) दीप्तौ ' (भ्वा.आ.से.), 'अन्येष्वपि - ' ( ३।२ ।१०१ ॥ ) इति डः, डित्त्वाट्टिलोपः । अंशून् तन्तून् कायतीति १० वा । अश्नुते व्याप्नोत्यङ्गाः (-ङ्गानि ) । 'अशूङ् व्याप्तौं' (स्वा.आ.वे.), बाहुलकादुकन् । २ वस्यते आच्छाद्यतेऽनेन वस्त्रम्, पुंक्ली । 'वस आच्छादने' (अ.आ.से.), '-ष्ट्रन् ' (उणा - ५९८ ) । ३ अमत्यनेन शोभाम् अम्बरम् । 'अम्(अम) गत्यादौ' (भ्वा.प.से.), अरन्प्रत्यये साधु । ४ सिच्यते सिचयः । 'षिचिर् क्षरणे'' (तु.उ.अ.), "बाहुलकात् कयन् " [मा. धातुवृत्ति:, तुदादिः, धातुसं १४२ ] इति माधवः । ५ वस्ते आच्छादयति वसनम् । 'वस आच्छादने' (अ.आ.से.), नन्द्यादित्वाद् ल्युः, करणे ल्युटि वा । ६ चीयते तन्तुभिः चीरम् | 'चिञ् चयने ' ( स्वा. उ. अ.), 'शूसिचिमिभ्यो दीर्घश्च २० क्रन्' (उणा - १८२ ) इति क्रन्दीर्घौ । ७ आच्छाद्यतेऽनेन आच्छादः । 'छद अपवारणे ' ( चु.उ.से.), णिजन्तः, करणे घञ् । ल्युटि आच्छादनमपि । ८ सिञ्चति सिच्यते वा सिक्, स्त्रीलिङ्गः । 'षिचि क्षरणें ' ( तु.उ.से.), क्विप् । सिचौ, सिचः इत्यादि । ९ चेलत्याच्छादयति चेलम् । 'चिल निवसने ' ( तु.प.से.), अच् । चिल्यतेऽनेनेति करणे घञि वा । “चिलेश्चौरादिकादपि वा "[[ ]इति तु सुभूतिः । गौरादिङीषि चेली । १० वस्यतेऽनेन वासः, क्ली । 'वस आच्छादने'(अ.आ.से.), 'वस्यसि (वस्यगि) भ्यां णित्,
Jain Education International
२९५
( चान्द्रोणा - ३।१०२ ॥ ) इत्यसुन्, णित्त्वाद् वृद्धिः । वाससी, वासांसि इत्यादि ॥६६६ ॥ ११ पटते पटः, त्रिलिङ्गः । ३० अमरस्तु - "सुचेलक : पटोऽस्त्री "[ अमरकोषः २ १६ | ११६ ] इत्याह । 'पट विस्तारे' (चु.उ.से.), घञर्थे कः, तत: प्रशंसायामर्श आद्यचि पटः । पटेदी ( र्दी ) प्त्यर्थपक्षे पाटयति दीपयति धारकं पचाद्यचि वा । १२ प्रकर्षेण ऊयते प्रोतः । पुंसि गौडः, क्लीबे वाचस्पति: । 'ऊयी तन्तुसन्ताने' (भ्वा.आ.से.), घञ् । द्वादश सामान्येन वस्त्रस्य । शेषश्चात्र" वस्त्रे निवसनं वस्नं सत्त्रं कर्पटमित्यपि " [शेषनाममाला३ । १३७] ॥
अञ्चलो ऽस्यान्तः
१ अस्य वस्त्रस्य प्रान्तः, अञ्चति प्राप्नोति वस्त्रं ४० शोभामिति अञ्चलः, पुंक्ली । 'अञ्जु गतिपूजनयो:'(भ्वा.प.से.), वृषादित्वात् कलच् । एकं वस्त्रप्रान्तस्य ॥ वर्तिर्वस्तिश्च तद्दशाः ।
१ वर्ततेऽञ्चलान्ते वर्तिः । 'वृतु वर्तने ' (भ्वा.आ.से.), ‘हृपिधृ-'( ) इत्यादिना ति ( 'हपिशि- ' ( दश. उ. ११४७ ) इतीन् ) । २ वस्यते आच्छाद्यतेऽनेन वस्तिः । वस्यन्ते छिद्यन्ते आब्रियन्ते । 'वस स्नेहनछेदनावरणेषु'' (चु.उ.से.), चुरादिः, ततोऽनित्यण्यन्ताद् 'वसेस्ति: '(उणा६१९) इति तिः । ३ दश्यते प्रायेण छिद्यते दशा: । 'दंश दशने ' (भ्वा.प.अ.), भिदादित्वादङ् । पुंस्त्रीलिङ्गोऽयम्, बहु- ५० वचनान्तश्च 1 " दशा वर्त्यामवस्थायां वस्त्रान्ते भूम्नि पुंस्त्रियो: "[ " ]इति रभसः । " स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्त्र (र्वस्त) योर्द्वयोः ''[ अमरकोषः २ १६ ॥ ११४ ॥ ] इत्यमरः । तस्य वस्त्राञ्चलस्य दशास्तद्दशाः । त्रीणि 'दशीआवड' इति ख्यातस्य । “वस्त्रपेश्यैः”[ शेषनाममाला३ | १३७ ॥ ] इति शैषिकें ॥
१४
पत्रोर्ण धौतकौशेयं
१. 'अशू व्याप्तौ' इति स्वामी, 'अशू व्याप्तौ सङ्घाते च ' मैत्रेयसायणौ ॥ २. ' कञ्' इति४ ॥ ३. 'रक्षणे' इति३, 'षिच क्षरणे' इति क्षीरतरङ्गिण्यादौ ॥ ४. मा. धातुवृत्तौ 'कयनन्तः' इति दृश्यते, तुदादिः, धातुसं - १४२, पृ. ४९३ ॥ ५. 'शुसिचिमीनां दीर्घश्च' इत्युणादिगणसूत्रम् ॥ ६. 'पिचि' इति ॥ ७. 'षिच क्षरणे' इति क्षीरतरङ्गिण्यादौ ॥ ८. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३७३, पृ.४६१ ॥ ९ २प्रतौ नास्ति ॥ १०. 'वसते' इति३॥ ११. 'वस्त्यगिभ्यां णित्' (हैमोणा- ९७० ) इति हैमोणादिगणसूत्रम्, 'वसेर्णित्' (उणा - ६५७ ) इति पाणिनीयसम्मतोणादिगणे ॥ १२. क्षीरतरङ्गिण्यादौ ङकारानुबन्धो न दृश्यते ॥ १३. 'वस स्नेहच्छेदाहरणेषु' इति स्वामी, 'वस स्नेहच्छेदापहरणेषु' इति मैत्रेय:, 'वस स्नेहनच्छेदनापहरणेषु' इति सायणः ॥ १४. द्र टीकासर्वस्वम्, भा-२, २।६।११४ ॥ पृ. ३७२ ॥ पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३७२, पृ. ४५९ ॥ तयोष्टीकयोः 'वर्त्यामवस्थायां' इत्यस्य स्थाने 'वताववस्थायां' इति दृश्यते ॥ रामाश्रमी २ । ६ । ११४ ॥ पृ. ३१२ ॥ १५. ' - वेश्य: ' इति १.४ ॥ १६. ' - कं' इति३ ॥ १७. तुलनीयोऽमरकोषः २ १६ ।११३ ॥
For Private & Personal Use Only
www.jainelibrary.org