________________
२९४
सम्भवम्, सर्गः - १, श्री - ३७] इति कुमार: । ७ सपति समवैति सप्तकी । 'षप समवाये ' (भ्वा.प.से.), बाहुलकाद्
अभिधानचिन्तामणिनाममाला
‘हसिमृग्रिण्-'(उणा-३६६)इत्यादिना तन्, ततः स्वार्थे कन्, गौरादिः । सप्तकीत्यनेकोपलक्षणम् । सप्तेति बहव्यः किङ्किण्यः कायन्ति शब्दायन्तेऽस्याम्, मूलविभूजादित्वात् के वा । केचित्तु -
"एकयष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिका । रशना षोडश ज्ञेया कलापः पञ्चविंशकः ||१||” [] इति पठन्ति, परमिह त्वभेदात् पर्यायता । उत्तरत्र "सा १० शृङ्खला (शृङ्खलं ) पुंस्कटीस्था" [ अभिधानचिन्तामणिः ३ | ६६५ ] इत्युक्तत्वादत्र "स्त्रीकट्याम्" इति लभ्यते । यदमरः - "स्त्रीकट्यां मेखलाकाञ्चीसप्तकीरशनाः स्त्रियं : "[ अमरकोषः २ | ६ |१०८ ॥ ] इति । सप्त कटिमेखलायाः । शेषश्चात्र- " मेखला तु लालनी कटिमालिका " [शेषनाममाला३ | १३५ ॥] इति ॥ ६६४ ॥
सा शृङ्खलं पुंस्कटीस्था
१ सैव काञ्ची पुंस्कटीस्था, शृङ्गेण अग्रेण स्खलति शृङ्खलम्, त्रिलिङ्गः, पृषोदरादिः । शृणाति शैथिल्यं वा, 'कलचादयश्च (कम्बलादयश्च) ' (द.पा.८ । ११४ ॥ ) इति कलच्प्रत्ययो धातोः शृङ्खादेशश्च निपात्यते, तालव्यादिः । एकं पुंस्कटि२० स्थमेखलायाः ॥
किङ्किण क्षुद्रघण्टिकां ।
१ किमिति कणति नैरुक्त इत्वे गौरादिः किङ्किणी, ह्रस्वद्वीकारवती । निरिकाराऽपि " कङ्कणी "[ अम.क्षीर. २।६। ११०॥]इति स्वामी । घण्टैव घण्टिका, स्वार्थे कन्, 'केऽणैः ' ७ १४ ।१३ ॥ इत्वम् । क्षुद्राऽल्पा घण्टिका क्षुद्रघण्टिका । 'कङ्कणः स्यात् प्रतिसरः कङ्कणी क्षुद्रघण्टिका "["]इति
44
[ मर्त्यकाण्डः - ३ भागुरिः । द्वे 'घूघरी' इति ख्यातायाः । " घर्घरी [विद्या] विद्यामणिः ''[ शेषनाममाला३ | १३५ ॥ ] शैषिके ॥
नूपुरं तु तुर्लाकोटिः पादतः कटकाङ्गदे ॥६६५॥
मञ्जीरं हंसकं शिञ्जिनी"
Jain Education International
१ ऊनं" न्यूनं पूरयति नूपुरम्, पुंक्लीबलिङ्गैः । "मञ्जीरोऽस्त्री स नूपुर : "[ "]इति रभसः । २ तुलाया दण्डाकृतेर्जङ्घायाः कोटिरग्रमिव तुलाकोटिः । "तुला गृहदारुबन्धार्थं पीठिका, तस्याः कोटिरश्रिरिव तुलाकोटि: "["]इत्यन्ये । ३-४ पादशब्दात् कटकाङ्गदे योज्यौं, तेन पादस्य कटको वलयः पादकटकः । पादस्याऽङ्गदमिव पादाङ्गदम् ॥६६५ ॥ ५ मञ्जति मञ्जीरम् । मञ्जे ः सौत्राद् ''गम्भीरादयश्च' (चान्द्रोणा३।२९) इतीरन् । "बाहुलकाद् हिंसे (मजे ) रिरन् "["]इति माधवी । मञ्जू शोभनौ पादौ करोति, णिचि, टिलोपे, ततः पूर्ववदीरन्निति वा । मञ्जु (मञ्जु) मधुरमीरयतीति वा, पृषो- ४० दरादिर्वा । ६ हंस इव कायति शब्दायते हंसकम् । 'कै शब्दे' (भ्वा.प.अ.), मूलविभुजादित्वात् कः । "मधुरध्वनित्वाद् हंस इवेति इवार्थे कन् "["]इति माधव्यादयः । हंसाकृतिपादकटको हंस इव हंसक इति वा । पुंक्ली. एतौ । ७ शिङ्क्ते अव्यक्तं शब्दं करोति शिञ्जिनी" । " शिजि अव्यक्ते शब्दे ' ( अ.आ.से.), ग्रहादित्वाण्णिनिः । अवान्तरभेदस्त्वेषां भरतोक्तोऽत्र नाश्रितः ॥
तत्र "कलापो विंशकस्तथा' इति चतुर्थचरणं दृश्यते ॥, पदचन्द्रिका, भा-२,
१. ' रसना' इति३ ॥ २. द्र टीकासर्वस्वम्, भा-२, २६ । १०९ ॥ पृ. ३६७॥ मनुष्यवर्ग:, श्रो- ३६६, पृ. ४५४ ॥ तत्र 'रशना' इत्यस्य स्थाने 'रसना' इति दृश्यते, रामाश्रमी २१६ ॥१०९ ॥, पृ. ३१० ॥ तत्र "एका यष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिकाः । रसना षोडश ज्ञेयाः कलापः पञ्चविंशकः" इति दृश्यते ॥ ३. 'रशना तथा' इत्यप्यमरकोषे दृश्यते ॥ ४. 'लालना' इति४, 'लालिनी' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ५. 'ला' इति४ ॥ ६. २प्रतौ नास्ति ॥ ७. 'शृङ्खला- ' इति ॥ ८. 'किङ्कणी' इति २. ३, तथा मुद्रितमूलेऽपि, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ ९ तुलनीयोऽमरकोषः २ १६ ११० ॥ १०. 'किङ्कणी' इति३ ॥ ११. 'प्रत्ययस्थात्-' इति युक्तः ॥ १२ द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- ३६८, पृ. ४५६ ॥ रामाश्रमी २६ ॥ ११० ॥ पृ. ३१० ॥ १३. 'इति ख्याताया:' इति २प्रतौ नास्ति ॥ १४. २प्रतौ नास्ति ॥ १५. 'शिञ्जनी' इति३ ॥ १६. १ प्रतौ नास्ति ॥ १७. 'पुंक्ली' इति३ ॥ १८. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः श्रो ३६७, पृ.४५५ ॥ रामाश्रमी २।६।१०९ ॥, पृ. ३१० ॥ १९. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्ग:, श्रो-३६७, पृ.४५५ ॥ २०. ' योज्यो' इति२.३ ॥ २१. 'गभी-' इति१.४ ॥ २२. द्र. पदचन्द्रिका, भा२, मनुष्यवर्गः, श्रो-३६८, पृ.४५६ ॥ २३. 'हेजड-' इति३ ॥ २४. 'शाली' इति३ ॥ २५. 'पादशीली मन्दीरं' इति शेषनाममालास्वोपज्ञटीकयोः ॥
३०
“शिञ्जिनी पादकटकस्तुलाकोटिस्तु नूपुरम् ।
मञ्जीरं हंसकं स्त्रीणां चरणाभरणं स्मृतम् ॥१॥" [ हलायुधकोश : २ ।५६१ ॥ ] इति हलायुधवचनात् सामान्यतः ५० जहिडिप्रभृतयोऽप्येभिरुच्यन्ते । सप्त नूपुरस्य । शेषश्चात्र- "नूपुरे तु पादशालों मन्दारं" पादनालिका ''[शेषनाममाला३ ॥१३६॥]
For Private Personal Use Only
www.jainelibrary.org