________________
६६१-६६४ ]
व्युत्पत्तिरत्नाकरकलिता
२९३
'सृ गतौ’(भ्वा.प.अ.), अच् । अष्टौ करभूषणस्य । 'कङ्कण- कलापो रसना ( रशना) सारसनं काञ्ची च सप्तकी वलय' इति भाषा । केचित्तु कङ्कणादीन् त्रीन् मङ्गल्यसूत्रवाचकत्वेन पृथगाहु:, तन्मते आद्यानि पञ्च स्वर्णरूप्यमयकङ्कणनामानि अन्तिमानि त्रीणि विवाहमङ्गल्यसूत्रनामानि । यद्विश्वः - "कङ्कणं करभूषायां हस्तसूत्रेऽपि शेखरे " [ विश्वलोचनकोश:, णान्तवर्ग:, श्रो-४१] इति ॥
ऊर्मिका त्वङ्गुलीयकम् ॥६६३॥
१ ऊर्मिस्तरङ्गभेदः आवर्ताख्यस्तत्प्रतिकृतित्वाद् ऊर्मिका । 'इवे प्रतिकृतौ ५ ।३ ।९६ ॥ इति कन् । ऊर्मिं १० प्रशंसां (प्रकाशं) कायतीति । 'आत: '३ ।२।३ ॥इति को वा ।
“ऊर्मिः स्त्रीपुंसयोर्वाच्या(र्वीच्या) प्रकाशे वेगभङ्गयोः ''[मेदिनीकोशः, मान्तवर्गः, श्लो-३] इति मेदिनि: । २ अङ्गुलौ भवं विद्यमानम् अङ्गुलीय[क]म् । 'जिह्वामूलाङ्गुलेश्छः '४।३। ६२॥ इति छ:, ततः कन् । कपिरि (लि) कादित्वाद् अङ्गुरीयकमपि । पुंलिङ्गेऽप्ययम् । ‘“अथ मैथिल्यभिज्ञानं काकुत्स्थस्याङ्गुरीयर्क:"[भट्टिकाव्यम्, सर्ग: ८, श्री - ११८ ] इति भट्टि प्रयोगात् । द्वे 'वींटी' इति ख्यातायाः ॥६६३॥
सा
साक्षराऽङ्गुलिमुद्रा
१ सा ऊर्मिका साक्षराऽक्षराङ्किता, अङ्गुल्यां मोदते २० अङ्गुलिमुद्रा, पृषोदरादिः । अङ्गुलीं मुद्रयतीति, पचाद्यचि वा। ऊर्मिकाया अङ्गुलिस्थत्वादङ्गुलेर्मुद्रा अङ्गुलिमुद्रा वा । यद्धलायुधः-‘“कथ्यतेऽङ्गुलिमुद्रा सा या भवेल्लिखिताक्षरों " [हलायुधकोश: २ ।५५९] । वेदिरपि यन्महेश्वरः- “वेदिरङ्गुलमुद्रायां बुधेऽलङ्कृतभूतले "[विश्वप्रकाशकोशः, दान्तवर्ग:, श्री - ११] इति । एकं साक्षरोर्मिकायाः ॥
कटिसूत्रं तु मेखला ।
॥६६४ ॥
१ कटे: सूत्रं कटिसूत्रम् । २ मेहनस्य मूत्रस्य यत् खमिन्द्रियं भगम्, तस्य माला मेखला । "पृषो- ३० दरात् "[ ] इति माधवी । मीयते प्रक्षिप्यते, डुमित्र: 'कलचादयश्च(कम्बलादयश्च) (द.पा. ८ । ११४ ) इति [ कल: ], गुण:, प्रत्ययककारस्य खत्वम्, निपातनादिति वा । ३ कल्पते प्रेर्यते कलापः । ‘कल प्रेरणे ं’( ), 'कलेराप: ' (हैमोणा-२०८) इत्यापः । ४ अश्नुते व्याप्नोति कटीमिति रशना, स्त्रीक्ली. । 'अशु (अशू) व्याप्तौ ' (स्वा.आ.वे.), 'अशेरश च' (उणा - २३३ ) इति युः, रेशादेशश्च "[" ]इति माधवी । रसति शब्दायते रसनेति वा । 'रस शब्दे' (भ्वा.प.से.), 'चलनशब्दा[ र्था]दकर्मकाद् युच् ३ ।२ । १४८ ॥ इति युच् ।
44
"क्षुभितसिन्धुमनीरशनै: शनै: "[ किरातार्जुनीयम्, सर्ग: ५, ४० श्ले - ११] इति भारवियमकात्, “रसनाबन्धो रतिकलहेषु स दानानुमितिर्षु'"[ सुबन्धुकृतवासदत्ता, पृ.५८]इति वास– वदत्ताश्रूषात् तालव्यदन्त्यमध्यरचना । ५ सह आरसनेन ईषद्ध्वनिना वर्तते सारसनम् । सारमुत्कृष्टं यथा स्यात् तथा सनति भजते, 'सन(षण) संभक्तौ (भ्वा.प.से.), अचि वा I "सारसनम् स्त्रीकट्यां वस्त्रग्रन्थनम् " [अम. क्षीर. २ । ६ । १०९ ॥ ] इति स्वामी । "मेखलायां सारसनमुरस्त्रे च तनुत्रिणाम् [ " ] इति दन्त्यादौ रभसः । द्विदन्त्योऽयम् । ‘“साहसिकः सारसनं सारसा: स्रोतस : "["] इति द्विदन्त्य - सभेदात् । ६ कञ्चते दीप्यते, [कञ्च्यते] बध्यते वा काञ्चि । ५० 'कचि दीप्तिबन्धनयो:'(भ्वा.आ.से.), '-ई: ' ( ) इति इ:, 'अन्येभ्योऽपि (अन्येषामपि ) - ६।३।१३७ ॥ इति दीर्घः I “काञ्चिदामपिहितैकरोरुम् " [ शिशुपालवधम्, सर्गः - १०, श्री८३] इति माघः । 'कृदिकारात्- ' ( गणसू- ४११ ०४५ ॥ ) इति ङीषि काञ्ची । “काञ्चीगुणस्थानमनिन्दितायाः ''[ कुमार
Jain Education International
44
१. ' इत्यादि -' इति ॥ २. 'लीयकः' इति भट्टिकाव्ये, पृ. २२४ ॥ ३. 'वी ' इति ॥ ४ च भवेद् या लिखिताक्षरा' इति हलायुधकोशे, २५५९॥, पृ.६३ ॥ ५. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्ग:, - ३६६, पृ.४५३ ॥ तत्र पृषोदरादिः' इति दृश्यते ॥ ६. क्षीरतरङ्गिण्यादौ प्रेरणार्थककलधातुर्न दृश्यते । ७. 'रसना' इति३ ॥ ८. 'रस' इति३ ॥ ९. 'रसा-' इति३ ॥ १०. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३६६, पृ. ४५४ ॥ ११. 'रश-' इति३ ॥ १२. किरातार्जुनीयकाव्ये 'व्यथित' इति दृश्यते, ५११ ॥, पृ.१०० ॥ १३. वासवदत्तायां 'रशनाबन्धो रतिकलहेषु न दानानुमतिषु' इति दृश्यते, पृ.५८ ॥ १४. 'वन पण भक्तौ' इति स्वामी, 'वन पण संभक्तौ' इति मैत्रेयसायणौ ॥ १५. द्र टीकासर्वस्वम्, भा-२, २६ ॥ १०९ ॥, पृ. ३६७॥, पदचन्द्रिका, भा-२, मनुष्यवर्ग:, श्रो- ३६७, पृ. ४५४ ॥ रामाश्रमी २ । ६ । १०९ ॥, पृ. ३१० ॥ १६. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्ग:, श्रो- ३६७, पृ. ४५४ ॥ १७. 'द्विदन्त्यभेदात्' इति३ ॥ १८. 'सर्वधातुभ्य इन्' इत्युणादिगणसूत्रम् ॥ १९. शिशुपालवधे 'काञ्चिधाम्नि पिहितैकतरोरु' इति दृश्यते, १०१८३ ॥ पृ. २६० ॥
For Private & Personal Use Only
www.jainelibrary.org