________________
१०
२९२
कोशः, सान्तवर्ग:, श्लो - ३] इति दन्त्यान्तेषु मेदिन्यादयः । १ गुच्छार्धं षोडश लताः, अल्पत्वाद् माणव इव माणवकः ( माणवः) | १ माणवार्धमष्टौ लताः, मन्द्यते स्तूयते मन्दरः । 'मदि स्तुत्यादौ ' (भ्वा.आ.से.), अरन्प्रत्ययः ॥ ६६०॥ १ मन्दरार्धं चतस्रो लताः, गोस्तनवल्लम्बमानो गोस्तनः । चतुः संख्याया गोस्तनसंख्यत्वाद् गोस्तन इति वा । " चुतस्त्रिंशद्यष्टिको गोस्तनः, अभिमतरसक्षरणाद् गोस्तन इव"[ ] इत्यन्ये । १ गोस्तनस्यार्धं द्वे लते, गोपुच्छाकृतित्वाद् गोपुच्छः । अन्ये तु"चतुष्षष्टिलतो हारो यष्टिहीनो यथोत्तरम् । रश्मिकलापो१ माणवको २ अ ( 5 ) हारो३ ऽर्धगुच्छक: ४ ॥१॥ कलापः ५ छन्दो६ मन्दरश्च गुच्छे : सप्ततियष्टिकः ॥" [2] इत्याहुः । एके तु -" द्वात्रिंशल्लतिको गुच्छ, गुह्याच्छादनात्१, चत्वारिंशल्लतो गोस्तनो लम्बमानत्वात्र, गोपुच्छोऽपि३, पञ्चाशल्लतोऽर्धहार: देवच्छन्दार्धत्वात् ४, विंशतिलतो माणवकोऽल्पत्वात्५''[अम. क्षीर. २ । ६ । १०५ ॥ ] इति प्रोचुः ॥
उपसंहारमाह
इतिहाराष्टिभेदात्
अभिधानचिन्तामणिनाममाला
इति अमुना प्रकारेण यष्टिभेदात् चतुःषष्टिप्रकारा हाराः ॥
एकावल्येकर्यष्टिका ॥६६१॥
२० कण्ठिकाऽपि
१ यष्टिर्लता सरिकेत्येकार्थाः एकावली । २ एका यष्टिरस्या एकयष्टिका ॥ ६६१॥ ३ कणति कण्ठी । 'कण शब्दे' (भ्वा.प.से.), 'कणेष्ठ : ' ( उणा - १०३ ) इति ठः, बाहुलकान्न ठस्येकः, कनि, केऽणः ७ १४ । १३ ॥ इति ह्रस्वत्वे कण्ठिका | त्रीणि एकावलीति ख्यातहारभेदस्य ॥
अथ नक्षत्रमाला तत्संख्यमौक्तिकैः ।
१ नक्षत्राणां सप्तविंशतित्वान्नक्षत्रमालेव नक्षत्रमाला, तानि नक्षत्राणि संख्या येषां तानि तत्संख्यानि तानि च मौक्तिकानि, तै: नत्रक्षसंख्यैः, सप्तविंशत्या मौक्तिकैरित्यर्थः ॥
Jain Education International
For Private
[ मर्त्यकाण्डः - ३
केयूरमङ्गदं बाहुभूष
१ के बाहुशीर्षे यौति केयूरम् । पृषोदरादिः । के कफोणिशिरसि प्रगण्डे यौति वा । खर्जूरादित्वादूर इति वा, सप्तम्यलुक् । २ अङ्गं प्रगण्डरूपमवयवं दापयति घर्षणाच्छोधयति अङ्गदम् । 'दैप् शोधने' (भ्वा.प.अ.), 'आतोऽनुपसर्गे कः’३।२।३॥ । “अङ्गदो दोर्भूषा " []इति पुंस्यप्यमरः । ३ बाह्वोर्भूषा बाहुभूषा । त्रीणि 'बहिरखा' इति नाम्नः ॥ अथ करभूषणम् ॥६६२॥
१. 'गुत्सः' इति ॥ २. द्र अम क्षीरस्वामिकृतटीका२ ६ । १०५ ॥ पृ. १५६ ॥ तत्र " चतुःषष्टिलतो हारोऽथाष्टहीना यथोत्तरम् । रश्मिः कलापो माणवकोऽर्धगुच्छकः ॥ कलापच्छन्दो मन्दरश्च गुच्छः सप्ततियष्टिकः ।" इति दृश्यते ॥ स्वोपज्ञटीका३ ।६६१ ॥, पृ.१४८ ॥ ३. 'चतुःपञ्चा-' इति अम.क्षीरस्वामिटीकायाम् ॥ ४. ' - त्वं' इति४ ॥ ५. ' - ख्याकानि' इति३ ॥ ६. अमरकोषे न दृश्यते ॥ ७. ' - णः' इति४ ॥ ८. द्र. टीकासर्वस्वम्, भा-२, २६ ॥ १०८ ॥ पृ. ३६७॥, पदचन्द्रिका, भा-२, मनुष्यवर्ग:, श्रो-३६६, पृ. ४५३ ॥ रामाश्रमी २ ६ ॥ १०८ ॥ पृ. ३०९ ॥ ९. 'वल संवरणे' इति क्षीरतरङ्गिणी, 'वल वल्ल संवरणे' इति धातुप्रदीपः ॥ १०. 'ऋहलोर्ण्यत् '३ ।१ ।१२४ ॥ इत्यनेन ण्यद् युक्तः ॥ ११. स्वामिकृतामरकोशटीकायां न दृश्यते ॥ १२. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३६५, पृ.४५१ ॥ १३. 'पुंक्ली.' इति३ ॥
कटको वलयं पारिहार्यावापौ च कङ्कणम् ।
हस्तसूत्रं प्रतिसरः
१ करस्य भूषणं करभूषणम् । करो भूष्यतेऽनेनेति ४० करणे ल्युट् वा । करं भूषयतीति । 'ण्यासश्रन्थो:- '३ ३ ।१०७ ॥ इति युचि वा । मण्डनसूत्रेऽप्येतत् । "क्लीबं स्याद् मण्डने सूत्रे कङ्कणंकरभूषणम्"[ ] इति रभसः ॥ ६६२ ॥ २ आवृणोति, कटति स्थानान्तरं गच्छति वा कटकः । 'कटे वर्षावरणयो:' (भ्वा.प.से.), 'क्वुन् शिल्पिसंज्ञयो: ' (उणा - १९०) इति क्वुन् । ३ वलति (वलते) वलयम् । 'वल वल्ल संवरणे [सञ्चरणे] चं'(भ्वा.आ.से.), 'वलिमलितनिभ्यः कयन्' (उणा५३९ ) । ४ परिहर्तुं शक्यते परिहार्यः । 'अचो यत् ३ ११ १९७ ॥ इति यत्, प्रज्ञाद्यणि पारिहार्यः । आदिस्वरादिरप्ययमित्यन्ये । ५ " आङ्पूर्वी वपिर्न्यासार्थ: "[" ] इति स्वामी । आ उप्यते । ५० 'अकर्तरि च - '३।३।१९ ॥ इति कर्मणि घञि आवापः । ६ कं सुखाय, कं सुखं वा यथा स्यात् तथा कणति शब्दायते कङ्कणम् । कमिति प्रकृते शब्दे, "मस्तकेऽपि सुखेऽपि " [मेदिनीकोशः, मान्ताव्ययवर्गः, श्लो-५२] इति मेदिनिः । कलमव्यक्तं मधुरं वा कणतीति पृषोदरादिर्वा । ७ हस्ते सूत्र्यते हस्तसूत्रम् । एते सप्तापि पुंनपुंसकलिङ्गः । ८ प्रतिसरति प्रतिसरः, त्रिलिङ्गः।
Personal Use Only
३०
www.jainelibrary.org