SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ६५५-६६१ ] न्नन्तात् 'तृभूवहिवसि-'(उणा - ४०८ ) इति बाहुलकाद् ललोऽपि - (ललेरपि ) झच् षित्त्वं च षित्त्वात् ङीष् संज्ञायां कनि 'केऽणः'७।४।१३ ॥ इति ह्रस्वत्वं च । एकं सामान्येन 'वाडलु हांसली' इत्यादिभाषाप्रसिद्धकिञ्चिल्लम्बमानकण्ठभूषायाः ॥ प्रालम्बिका कृता हेम्ना १ सैव ललन्तिका, स्वर्णरचिता, प्रालम्बते' प्रालम्बिका । एकं सामान्येन 'कांठलालहकुटंकावलिमालाचंपकुलीचउकी' इत्यादिभाषाप्रसिद्धप्रलम्बमानकण्ठभूषायाः ॥ उरः सूत्रिका तु मौक्तिकैः ॥६५७॥ १ सैव ललन्तिका मुक्ताभी रचिता उरसो वक्षसः सूत्रमुरस्सूत्रं सूत्रावली, तत्प्रतिकृतित्वात् कन् उरस्सूत्रिका । एकं सामान्येन प्रलम्बमानमौक्तिकरचितकण्ठभूषायाः ॥ ६५७॥ होरो प्रालम्बस्त्रक्कलापावलीलताः । मुक्तातः १ निर्विशेषेण हारशब्दो मुक्तावल्यामेव वर्तते । ह्रियते मनोऽनेनेति हारः, पुंस्त्री । 'हृञ् हरणे ' ( भ्वा.उ. अ.), कर्मणि घञ् । भिदादिपाठाद् हाराऽपि । "हारा मुक्तावली हारः "[] इति रभसः । २-६ मुक्ताशब्दात् परे प्रालम्बादयः, तेन मुक्ताप्रालम्बः, मुक्तास्त्रक्, मुक्ताकलापः, मुक्तावली, मुक्तानामावली दीर्घा पङ्क्तिः, सा च ग्रथितैव भूषणप्रकरणात्, मुक्ता२० लता । षट् सामान्येन हारस्य ॥ *अथ तद्विशेषानाह १० देवच्छन्दः दः शतम् व्युत्पत्तिरत्नाकरकलिता १ देवैरपि छन्द्यते संव्रियते, 'छद संवरणे ' ( चु.प.से.), 'छदि-' (चु.प.से.) च इत्यतः कर्मणि घञ्, देवच्छन्दः । देवानामपि छन्दोऽभिप्रायोऽत्रेति वा । शतमित्युत्तरत्र "पञ्च हारफलं लता:" [ अभिधानचिन्तामणि : ३ |६६० ] इत्यतो लता इति सम्बध्यते, तेन शतं लता इति लभ्यते, तेन शतलतिक इत्यर्थः । " यष्टिर्लता सरः सरिके (सरिरि) त्ये कार्था: " [ अम.क्षीर. २ । ६ । १०५ ॥ ] इति क्षीरस्वामी । " अष्टो३० त्तरशतलतिकोऽयम्" [] इति केचित् । एकं शतलतिकस्य ॥ २९१ साष्टं त्विन्द्रच्छन्दः सहस्रकम् ॥६५८॥ १ अष्टोत्तरं सहस्रं लताः, इन्द्रस्य छन्दोऽत्रं इन्द्रच्छन्दः ||६५८ ॥ तदर्धं विजयच्छन्दः Jain Education International १ तस्येन्द्रच्छन्दस्यार्धं चतुरधिकानि, लतानां पञ्चशतानीत्यर्थः, विजयाय छन्दोऽत्र विजयच्छन्दः ॥ होरस्त्वष्टोत्तरं शतम् । १ लतानामष्टोत्तरशतं हारः ॥ अर्धं रश्मि 'कलापोऽस्य १ अस्य हारस्यार्धम्, चतुःपञ्चाशल्लता इत्यर्थः, रश्मीनां ४० कलापो रश्मिकलापः ॥ द्वादश त्वर्धमाणवः ॥ ६५९॥ १ द्वादश लता उत्तरस्मादर्धेन माणव इव लघुत्वाद् अर्धमाणवः ॥ ६५९ ॥ द्विर्द्वादशार्धगुच्छः स्यात् १ द्विगुणिता द्वादश द्विर्द्वादश, चतुर्विंशतिरित्यर्थः, गुच्छस्यार्धम् अर्धगुच्छः ॥ १ पञ्च लता, हारस्य फलमत्र हारफलम् ॥ अर्धहारश्चतुःषष्टिः पञ्च हारफलं लताः । १ चतुःषष्टिर्तताः, अर्ध एकदेशस्तत्कृतो हारोऽत्र अर्धहारः । अर्धं हारस्य अर्धहार इति वा । गुच्छमाणवमन्दराः ॥६६०॥ अपि गोस्तनगोपुच्छावर्धमर्धं यथोत्तरम् । १ यथोत्तरम्, अर्धमर्धम्, यथा अर्धहारस्यार्धं द्वात्रिंशल्लताः, गुह्यछादनात् गुच्छः । पृषोदरादिः । गुत्स इत्यपि । 'गुत्सः स्यात् स्तबके स्तम्बे हारभिद्ग्रन्थपर्णयोः ''[मेदिनी १. 'लो' इति३, 'लू' इति४ ॥ २. 'डी' इति१ ॥ ३. - म्बेति' इति३ ॥ ४. - षणं' इति२ ॥ ५. 'प्रवर्तते' इति३ ॥ ६. द्र टीकासर्वस्वम्, भा-२, २१६ ॥१०५॥, पृ.३६४॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री - ३६३, पृ. ४४९ ॥, रामाश्रमी २६।१०५ ॥ पृ. ३०८ ॥ ७. मैत्रेयसायणसम्मतोऽयं धातुपाठः, 'छदि संवरणे' इति स्वामी ॥ ८. 'सारः' इति ॥ ९ द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३६२, पृ.४४९ ॥ तत्र 'लतिकेयम्' इति दृश्यते ॥ १०. - त्रेति' इति३ ॥ ११. 'भाषा' इति ॥ १२. ३.४प्रत्योर्नास्ति ॥ For Private & Personal Use Only ५० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy