________________
२९०
अभिधानचिन्तामणिनाममाला [ मर्त्यकाण्डः-३ ताडपत्रमयं भूषणम्, तदा "पुंभीति प्रसिद्धिः, यदि रूप्यादि- ३० मयम्, तदा 'अकुटा' इति प्रसिद्धिः । अपरौ द्वौ कीलिकाविनिर्मुक्तौ अकुटाभेदावेव 'कुण्डल' इति भाषाप्रसिद्धौ ॥ उत्क्षिप्तिका तु कर्णान्दुः
१ उत्क्षिप्यते स्म उत्क्षिप्ता, सैव उत्क्षिप्तिका । २ कर्णयोरन्द्यते बध्यते कर्णान्दुः, स्त्रीलिङ्गः । 'अदि बन्धने' (भ्वा.प.से.), बाहुलकाद् 'भृमृस्वस्निर्हि - '(उणा-१०) इत्यादिना उः । वैजयन्ती तु षष्ठस्वरान्तमाह-" अन्दू: "[ वैजयन्तीकोषः६।२।१॥]इत्यपि । द्वे 'गण्ठुडौं ' इति ख्यातस्य । कर्णान्दुशब्दो बालिकानामाऽपि । ‘“उत्क्षिप्तिकायां कर्णान्दुः कर्णपाश्या स्त्रियाम् ''[विश्वलोचनकोश:, दान्तवर्ग:, श्रो- २० ] इति हला- ४० युधः (श्रीधरः) । " कर्णपाशी बालिका "[ ] इति तट्टीका ॥ वालिका कर्णपृष्ठगा ॥६५६॥
अल्पविस्तृतत्वात् पत्रमिव पाश्या पत्रपाश्या । २ ललाटस्यालङ्करणं ललाटिका । 'कर्णललाटात् कनलङ्कारे '४।३।६५॥ इति कन्, टाप्, 'प्रत्ययस्थात्- '७।३ १४४ ॥ इतीत्वम् । ‘“रचिता ललाटपट्टे ललाटिका कथ्यते रेखा "[हलायुधकोशः २ । ५४१ ॥] इति हलायुधः । द्वे आडिप्रभृतिललाटमण्डनस्य ॥ बालपाश्या पारितथ्यां
१ बालपाशे केशवृन्दे साधुः बालपाश्या, शोभाकरत्वात् । प्राग्घिताद् यत् । २ परितः सर्वतो ज्योतिर्मयत्वात् तथाभूता परितथा, कर्मणि ष्यञ् पारितथ्यम्, तद्योगा१० दर्शआद्यचि पारितथ्या । द्वे सीमन्तस्थितायाः स्वर्णादिरचितपट्टिकायाः । मींढिकायां मुक्ताकृतबांगणु स्वर्णचूर्णिकाकृतं चउकीमोरडी इत्यादि पृथक्पृथगारभरण इति भाषा अत्र लोकतो ज्ञेयाः ॥
कर्णिका कर्णभूषणम् ॥६५५॥
१ कर्णस्यालङ्कारः कर्णिका । 'कर्णललाटात् कनलङ्कारे '४ | ३ |६५ ॥ इति तन्, टाप्, इत्वं च । २ कर्णयोर्भूषणं कर्णभूषणम् ॥६५५॥
ताडेङ्कस्तु ताडेपत्रं कुण्डलं कर्णवेष्टकः ॥
१ ताड्यते कर्णोऽनेन ताडङ्कः । 'तड आघाते' २० (चु.उ.से.), चुरादिः, बाहुलकादङ्कन् । २ ताडपत्रनिर्मितत्वात् ताडपत्रम्, तेनाऽपि कर्णभूषाजननात् तच्च स्वर्णादिकृतमपि वलयिततालपत्राकारत्वात् तालपत्रमुच्यते । २ कुडतं संहतं भवति, कुण्डति दहत्यशोभामिति वा कुण्डलम्, पुंक्ली । 'कुर्डिं तुडि सङ्घाते" ( ), 'कुडि दाहे' (भ्वा.आ.से.) च वृषादित्वात् कलच् । ४ कर्णैकदेशे कर्णः कर्णो वेष्ट्यतेऽनेन कर्णवेष्टकः । चत्वारि कुण्डल - स्य । शेषश्चात्र- "अथ कुण्डले कर्णादर्श: "[शेषनाममाला ३ । १३४ - १३५ ॥ ] । द्वौ द्वौ भिन्नार्थावित्येके, तदाऽऽद्यौ द्वौ कीलिकासहितौ, ‘अकुर्टा' इत्यादिभाषाप्रसिद्धौ यदि
Jain Education International
१ वलते वालिका । 'वल संवरणे' (भ्वा.आ.से.) 'कृञादिभ्यो वृञ् (वुन्) ' (उणा- ७१३), 'प्रत्ययस्थात्- ' ७।३।४४ ॥ इतीत्वम् । कर्णपृष्ठं गच्छति कर्णपृष्ठगा । एकं वालिकायाः ||६५६॥
ग्रैवेयकंकण्ठभूष
१ ग्रीवायाः सर्व भूषणं ग्रीवायां भवं ग्रैवेयकम् । ‘कुलकुक्षिग्रीवाभ्यश्चालङ्कारे " "४।२।९६ ॥ इति ढकञ् । 'ग्रीवाया अण् च ' ४ | ३ |५७ ॥ इति ढञि ग्रैवेयमपि । "सग्रै- ५० वेयस्त्वमतिफणित "[]इति राजशेखरः । कण्ठो भूष्यतेऽनया कण्ठभूषा । 'भूष अलङ्कारे' (भ्वा.प.से.), 'गुरोश्च हल:'३ ।३ ।१०३ ॥ इत्यकारः । सामान्येन 'चीडेंनुविसरीओमौक्तिकविसरीओकण्ठसिरीमौक्तिकबिसरीओकण्ठसिरीसोनानींचीड इत्यादिभाषाप्रसिद्धकण्ठाभरणस्यैकम् ॥
लम्बमानाललन्तिका ।
१ लम्बते सा लम्बमाना भूषा । ललति सा ललन्ती, ललन्त्येव ललन्तिका । 'ललें' विलासे' (भ्वा.प.से.), शतृक
१. ‘-स्तृत्वात्' इति१.२.३॥ २ तुलनीयोऽमरकोषः २ ६ १०३ ॥ ३. इतोऽग्रे ३प्रतौ 'तु' इति दृश्यते ॥ ४. ' - कृतं ' इति३ ॥ ५. 'बांगुणं' इति३ ॥ ६. ' - कृत्' इति१.२ ॥ ७. 'चउकडी' इतिर, 'चोकी' इति३ ॥ ८. 'वलयति' इति२, 'वलयति-' इति३ ॥ ९ 'कुडति' इति३ ॥ १०. 'कडि' इति३ ॥ ११. ईदृग्धातुपाठः क्षीरतरङ्गिण्यादौ न दृश्यते ॥ १२. 'कोटा' इति३ ॥ १३. 'बूं-' इति३ ॥ १४. 'भृमृ' इत्युणादिगणसूत्रे नास्ति ॥ १५. ‘कंठोड्य' इति३॥ १६. ' - पाल्यामपि' इति विश्वलोचनकोशे, दान्तवर्ग:, श्रो- २०, पृ. १७० ॥ १७. तुलनीयोऽमरकोषः २ १६ । १०४ ॥ १८. ‘सर्व-’ इति३ ॥ १९. 'कुलकुक्षिग्रीवाभ्य: श्वास्यलङ्कारेषु ४ २ २९६ ॥ इत्यष्टाध्याय्याम् ॥ २० णिता' इति१.२ ॥ २१. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री - ३६२, पृ. ४४८ ॥ तत्र 'सग्रैवेयस्त्वमसि फणिना' इति दृश्यते ॥ २२. 'चीडनु' इति१.२ ॥ २३. 'कंठसिरीओ मौक्तिकविसरीओ' इति ॥ अत्र भाषाविद्भिः शुद्धाशुद्धपाठो विचारणीयः ॥ २४. डलयोरेक्यादत्र 'लड' इति बोध्यम्, विलासार्थकललधातोरभावात् ॥
For Private Personal Use Only
www.jainelibrary.org