________________
६४६-६५० ]
धूपो वृकात् कृत्रिमाच्च तुरुष्कः
२०
सिल्ह(सिह्न) पिण्डकौ ।
१-२ वृकशब्दात् कृत्रिमशब्दाच्च परो धूप:, तेन वृकान् धूपयति वृकधूपः । ‘धूप दीप्तौ' '(चु.उ.से.), चुरादिः, अच् । शीघ्रसञ्चारिगन्धत्वात् कृत्रिमश्चासौ धूपश्च कृत्रिम - धूपः । ३ तूर्यते हिनस्ति दौर्गन्ध्यं तुरुष्कः, पुंस्त्री । 'तुरी(तूरी) [गति ] त्वरणहिंसनयो:' (दि.आ.से.), 'बहुलमन्यत्रापि ' (उणा - २७८) इत्युसि प्रत्यये संज्ञायां कनि । ४ सहते सुखोपभोगं सिल्हकः (सिल्हः, सिह्नः ), पृषोदरादिः । ५ पिण्डति १० (पिण्डते) गच्छति दूरं गन्धोऽस्य पिण्डकः । 'पिडि गतौ " (भ्वा.आ.से.), अच्, ततः कन् । ण्वुलि वा । पिण्डोऽपि । "पिण्डो देहांश (स) योरस्त्री निवासे (निवापे) सिल्हके पुमान् " [विश्वलोचनकोश:, डान्तवर्ग:, श्लो- १६] इति श्रीधरः । पिण्डितोऽपिं । यन्महेश्वर:-" पिण्डितः सिल्हके कव" [विश्वप्रकाशकोशः, तान्तवर्ग:, श्रो- १०९ ] इति धन्वन्तरिश्च“तुरुष्को` यावनः कल्कः पिण्याकः पण्डितः (पिण्डित:) कपिः''[धन्वन्तरिनिघण्टुः, सर्गः - ३, श्रो- २१] इति । अयं द्रव्यान्तरैः सह पिण्डितः स्वरूपान्न च्यवत इति । पञ्च शिलारसस्य ॥
पाय॑सस्तु वृक्षंधूपः श्रीवासः सरलद्रवः ॥६४८॥
१ पयसो द्रुमक्षीरस्याऽयं पायसः । 'तस्येदम् '४।३। १२० ॥ इत्यण् । दुग्धसमानत्वात् पय एवँ पायस इति स्वार्थेऽण् । “पायसं परमान्ने स्यात् श्रीवासेऽपि च पायस: " [विश्वप्रकाशकोश:, सान्तवर्ग:, श्लो- १९] इति श्रीधरः । वायसोऽपि । " वायसो नाडिज स्यात् श्रीवासे चागुरुद्रुमे "[विश्वप्रकाशकोशः, सान्तवर्गः, श्रो- २०] इति महेश्वरः । “सरलद्रवः श्रीपिष्टो दधिक्षीरघृताह्वयः"["]इति तु रभसः । २ वृक्षस्य धूपो वृक्षधूपः । वृकधूपोऽपि । वृकोऽपिं । "वृकः स्यात् कृत्रिमेऽनेकधूपेति(-धूपेऽपि ) सरलद्रवे" "["] इति रभसः ।
व्युत्पत्तिरत्नाकरकलिता
२८७
धूप्यतेऽनेन धूपः । वृकनामा धूपो वृकधूपः । ३ श्रीणां वासो ३० गृहं श्रीवासः । ४ सरलस्य देवदारुद्रुमस्य द्रवो निर्यासः सरलद्रवः । चत्वारि कणगूगलीति ख्यातायाः । शेषश्चात्र"वृक्षधूपे तु श्रीवेष्टो दधिक्षीरघृताह्वयः "[शेषनाममाला३।१३४ ॥ ] इति ॥ ६४८ ॥
स्थनात् स्थानान्तरं गच्छन् धूपो गन्धपिशाचिक ।
Jain Education International
१ एकस्मात् स्थानादन्यस्थाने गच्छन् व्रजन् धूपः गन्धपिशाचिका उच्यते । द्वे (एकम् ) धूपस्य ॥
स्थासकस्तु हस्तबिम्बम्
१ तिष्ठत्यङ्गे स्थासकः । तिष्ठतेर्वायसवदसच् स्थास:, ततः कन् । यद्वा स्थानं स्थाः स्थितिः, तया आसयति दीप- ४० यति देहं स्थासकः । 'अस गतिदीप्त्यादानेषु ' (भ्वा.उ.से.), णिजन्तः, ण्वुल् । २ हस्तस्य बिम्बं हस्तबिम्बम्, कुङ्कुमादिरचितम् । द्वे 'हाथ' इति ख्यातस्य ॥ अलङ्कारस्तु भूषणम् ॥६४९॥ परिष्काराऽऽभरणे च
१ अलक्रियतेऽनेन अलङ्कारः । करणे घञ् । कटककेयूरादिः । २ भूष्यतेऽनेन भूषणम्, पुंक्ली. । 'भूष अलङ्कारे' (भ्वा.प.से.), करणे ल्युट् ॥६४९॥ ३ परिस्क्रियतेऽनेन परिस्कारः । करणे घञ्, 'सम्पर्युपेभ्यः करोतेर्भूषणे, ६।१।१३७॥ सुट्, 'परिनिविभ्यः - ८ ।३ ७० ॥ इति षत्वम् । ४ ५० आ समन्ताद् भ्रियते शोभाऽनेन आभरणम् । 'डुभृञ् धारणपोषणयो:' (जु.उ. अ.), ल्युट् । चत्वारि सामान्येन कङ्कणकेयूराद्याभरणस्य ॥
चूडामणिः शिरोमणिः ।
१ चूडा शिखा, तत्र स्थितत्वात् चूडाया मणिः चूडामणिः । २ शिरसि मणि: शिरोमणिः । शिरोरत्नमपि ।
१. चुरादौ 'पटपुट-' इत्यादिदण्डकोऽयं धातुर्भाषार्थे दृश्यते ॥ २. ' -हिंसयो:' इति२, स्वामिसायणसम्मतोऽयं धातुपाठः, 'तूरी त्वरणहिंसयो:' इति मैत्रेयः ॥ ३ 'पिडि सङ्घाते' इति क्षीरतरङ्गिण्यादयः ॥ ४. 'पिण्डतोऽपि ' इति३ ॥ ५. 'पण्डितः सल्लके कवौ' इति विश्वप्रकाशकोशे दृश्यते, तान्तवर्ग:, श्ले-१०९, पृ.१०९ ॥ ६. 'तुरष्को' इति३ ॥ ७ इतोऽग्रे१.२ प्रत्योः 'वा' इति दृश्यते ॥ ८. श्रीधरकृतविश्वलोचनकोशे 'श्रीवासे पायसः पुंसि परमान्ने तु पायसम्' इति दृश्यते, तेनाऽत्र 'महेश्वरः' इति युक्तः ॥ ९ द्र टीकासर्वस्वम्, भा-२, २१६ ॥१२८ - १२९ ॥, पृ. ३८२ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्लो-३८६, पृ. ४७५ ॥ रामाश्रमी २ । ६ । १२८ ॥ पृ. ३१८ ॥ १०. १प्रतौ नास्ति ॥ ११. ' - द्रवः' इति३ ॥ १२ द्र. पदचन्द्रिका, १५. 'ल्युट्' इति२ ॥
भा-२, मनुष्यवर्गः, श्रो-३८७, पृ.४७५ ॥, रामाश्रमी २६ । १२९ ॥ पृ. ३१८ ॥ १३. ' - चका' इति३ ॥ १४. 'हाता' इति३ ॥ १६. 'सम्परिभ्यां करोतौ भूषणे '६ ॥१ ॥१३७॥ इत्यष्टाध्याय्याम्, 'सम्पर्युपेभ्यः करोतौ भूषणे' इति काशिकासम्मतः पाठः ॥
For Private Personal Use Only
www.jainelibrary.org