________________
२८४
काकतुण्ड इव कृष्णत्वात् काकतुण्डः । द्वे कृष्णागुरुर्णः ॥ श्रीखण्डं रोहणद्रुमः ।
अभिधानचिन्तामणिनाममाला
गन्धसारो मलयजश्चन्दने
१ श्रिया सौरभश्रिया कृत्वाऽन्यद्रुगर्वं खण्डयति श्रीखण्डम् । 'खडि भेदने' (चु.उ.से.), णिजन्तः, अच् । २ रोहणाऽद्रेर्द्रुमो रोहणद्रुमः । ३ गन्धेन सारो गन्धसारः । गन्धो गन्धातिशयवान् सारः स्थिरभागोऽस्येति वा | ४ मलयगिरिभवत्वाद् मलयजः । ५ चन्द्यते आह्लाद्यतेऽनेन चन्दनम् । 'चदि आह्लादनदीप्त्योः' (भ्वा.प.से.), करणे ल्युट् । १० चन्दयतीति नन्द्यादित्वाद् ल्युर्वा । पुंक्लीबलिङ्गावेतौ । पञ्च सामान्येन चन्दनस्य । 'सूकडि' इति भाषा । शेषश्चात्र"चन्दने पुनरेकाङ्गं भद्रश्रीः फलकीत्यपि "[ शेषनाममाला ३ ॥१३१॥] ॥
हरिचन्दने ॥६४१॥
तैलपर्णिकगोशी
१ हरेरिन्द्रस्य चन्दनं हरिचन्दनम्, पुंक्ली. तत्र । हरिर्मण्डूकस्तदाकारे पर्वते भागे जातत्वाद्वा । हरि कपिलम्, तद्वर्णत्वाद्वा ॥ ६४१॥ २ तिलपर्णी वृक्षभेदस्ततो जातं तैलपर्णिकम् । शैषिकष्ठक् । तैलपर्णोऽद्रिराकारोऽस्त्य२० स्येति वा । ३ गोः शीर्षं गोशीर्षम् । " तदाकारे मलयैकदेशे जातं ' गोशीर्षम् "[] इति सुभूतिः । पुंस्येतौ । " धवलं सुशीतं चन्दनं तैलपर्णिकं मलयाद्रिदेशजमेव कालताम्रव्यामिश्रवर्णमुत्पलगन्धि गोशीर्षमिति चाणक्यटीका "[]इति माधवी । "अतिसुरभिशीतलतया सदैव सर्पैर्वेष्टितमिति सुरभि चॅ नामाऽस्य''[']इति सुभूत्यादयः । " क्लीबेऽपीमौ" [ ] इति केचित् । त्रीणि बावन्नाचन्दनस्य ॥
पत्त्राङ्गं रक्तचन्दनम् ।
कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥६४२ ॥
[ मर्त्यकाण्डः-३
१ पत्त्रमेवाङ्गमस्य पत्त्राङ्गम् । पत्त्रेष्वङ्ग इति वा । “पत्रङ्गमपि दृश्यते’[‘]इति शाब्दिकाः । " पत्रङ्गमित्यप- ३० भ्रंशं: ''[ स्वोपज्ञटीका३ ।६४२ ] इत्याचार्याः । २ रक्तं च तच्चन्दनं च रक्तचन्दनम् । ३ गन्धहीनत्वात् कुत्सितं चन्दनं कुचन्दनम् । ४ ताम्रेष्वरुणेषु सारं ताम्रसारम् । ५ रज्यतेऽनेन रञ्जनम्। करणे ल्युट् । ६ तिलस्येवं पर्णानि पत्त्रायस्यास्तिलपर्णी । 'पाककर्णपर्ण - ४ ११ ६४ ॥ इति ङीप् । सैव तिलपर्णिका | 'केऽण: ७ । ४ । १३ ॥ इति ह्रस्वत्वम् । “तिलपर्णी नदी आकारोऽस्य तिलपर्णिकः " [ ] इत्यन्ये । षड् 'रतांजणी' इति ख्यातायाः ॥६४२॥ जातिकोशं जातिफलम्
Jain Education International
१ जातेर्लतायाः कोशं जातिकोशम्। जात्या लताया ४० जातीकोशमित्यपि । जातिर्ह्रस्वान्ता, दीर्घान्ता च । 'जातीकोष' इति मूर्धन्योपधोऽपि । जातिरित्यपि नामाऽस्य । " जातिर्जातीफलेऽपि च"["]इति रभसः । कोष इत्यपि । “कोषो
I
१२
ऽ प्रकृते पेश्यां पात्रे जातिकोषे "[ ]इत्यपि रभसः । २ जाते: फलं जातिफलम् । जातीफलं दीर्घमध्यमपि । फलमपि नामाऽस्य । " फलं लाभे जातिकोषे बाणाग्रे फलकेऽपि च " [] इति रुद्रः । द्वे 'जाइफल' इति ख्यातस्य । ( शेषश्चात्र " जातीफले सौमनसं पुटकं मदशौण्डकं कोशफलम् ") [शेषनाममाला३ ॥१३२॥] ॥
कर्पूरो हिमवालुका । ५०
घनसारः सिताश्च चन्द्रः
१ कल्पते" मुखताम्बुलादिसौरभातिशयकरणायेति कर्पूरम्, पुंक्ली । 'कृपू सामर्थ्ये' (भ्वा.आ.वे.), 'खर्जिपिञ्जादिभ्यश्च-'(उणा-५३०)इति खर्जादित्वादूरः । यद्वा 'क्रप कृपायां" गतौ' (भ्वा.आ.से.), खर्जादित्वादूर, बाहुलकात् संप्रसारणं च । २ हिमा शीता चासौ वालुका च हिमवालुका । रेणुकेत्यपि । " रेणुकावर्णकर्पूरं चन्द्रं भस्महिमाह्वयम्"
इति२ ॥ ४. 'पण' इति४ ॥ ५. ' - शजातं ' इति ॥ ६. द्र. पदचन्द्रिका, ८. 'बावना-' इति ॥ ९. 'पत्रेष्वङ्गति पत्राङ्गं पतग त्वेतदपभ्रंश:' इति ११. द्र. स्वोपज्ञटीका३ ६४२ ॥, पृ. १४४ ॥ तत्र 'तिलपर्णी नदी आकारोऽस्या
१. ' - गरुण:' इति३ ॥ २. 'कारे जात इति१ ॥ ३. 'पर्वतभागे' भा- २, मनुष्यवर्गः, श्रो-३८९, पृ. ४७७ ॥ ७ ३प्रतौ नास्ति ॥ मुद्रितस्वोपज्ञटीकायाम् ३१६४२ ॥, पृ. १४४ ॥ १०. ' स्यैव' इति३ ॥ इत्येके' इति दृश्यते ॥ १२ द्र टीकासर्वस्वम्, भा-२, मनुष्यवर्गः, श्रो- ३९०, पृ. ४७८ ॥, रामाश्रमी २ । ६ ॥१३२॥, पृ. ३२० ॥ १३. ४प्रतौ नास्ति ॥ १४. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥ १५. 'कल्प्यते' इति१.२.३ ॥ १६. 'पुंक्लीबः' इति३ ॥ १७. 'कृपो रो लः' इत्यनेन लत्वप्रसङ्गः, बाहुलकात् तदभावो बोध्यः ॥ १८. 'क्रप कृपायां' इति स्वाम्येव ॥ १९. इतोऽग्रे ४प्रतौ 'च' इति दृश्यते ॥ २०. १प्रतौ नास्ति ॥
For Private Personal Use Only
www.jainelibrary.org