________________
६३७-६४१ ]
“कुङ्कुमागरुकर्पूरकस्तूरीचन्दनानि च । महासुगन्ध इत्युक्तं नामतो यक्षकर्दमः ॥२॥" [धन्वन्तरिनिघण्टुः, वर्गः-७, ले-४५]इति धन्वन्तरिः । "कर्पूरागरुकस्तूरीकक्कोलघुसृणानि च । एकीकृतमिदं सर्वं यक्षकर्दम इष्यते ॥३॥" [']इति व्याडिः ॥
44
व्युत्पत्तिरत्नाकरकलिता
व॑र्तर्गात्राऽनुलेपनीँ ।
१ वर्तयन्ति शुक्षीकुर्वन्ति तामिति वर्तिः । बाहुलकाद् युजपवादः ण्यन्तात् क्तिन्, स्त्रीलिङ्गः । यदा च 'अच १० इ: ' (उणा-५७८), तदा 'कृदिकारात् - ' ( गणसू- ४ । १ । ४५ ॥ ) इति ङीषि वर्ती च । " वर्तिर्गात्रानुलेपन्यां' वर्तिर्दीपदशासु च ''[विश्वलोचनकोश:, तान्तवर्ग:, श्रो- ५२ ] इति श्रीधरः । २ गात्रमनुलिप्यतेऽनया गात्रानुलेपनी । करणे ल्युट् । द्वे नटादीनां गात्रमुखादिषु चित्रकरणस्य ॥ चन्दनागरुकस्तूरीकुङ्कुमैस्तु चतुः समम् ॥६३९॥
१ चन्दनादीनि चत्वारि समान्यत्रेति चतुस्समम्, (चतुःसमम्) । एकं चन्दनागरुकस्तूरीकुङ्कुमानां चतुर्णां समीकृतानाम् ॥६३९॥
अगुर्वगरु राजार्ह लौह कृमिजवंशिर्के ।
२० अनार्यजं जोङ्गकं च
१ लघुनामत्वान्न गुरु अगुरु । लघुपर्यायमविद्यमानं गुरु महत् श्लाघ्यमस्मादिति वा अगुरु, पुंक्ली. । २ अगति प्राप्नोति महार्घ्यतामिति अगरु, पुंक्ली., प्रथमस्वरद्वयः । 'अग गतौ ' (भ्वा.प.से.), बाहुलकादरुप्रत्ययः । ३
Jain Education International
२८३
राजानमर्हति राजार्हम् । ‘अर्ह मर्ह पूजायाम्' (भ्वा.प.से.), अच् । ४ लूयते लोहम्, पुंक्ली । लूञ् छेदने (क्र्या.उ.से.), 'लूजो ह : ' ( स. क. २ । ३ । १८२ ॥ ) इति हः । रोहतीति वा । 'रुह बीजजन्मनि (भ्वा.प.अ.), अच् । ५ कृमिभिर्जन्यते कृमिजम् । 'अन्येभ्योऽपि (अन्येष्वपि ) - ' ३।२।१०१॥ इति डः । कृमिजग्धमित्यपि । ६ वंशोऽ- ३० स्याऽस्ति वंशिकम्, स्त्रीक्ली । 'अत इनिठनौ ५ ।२ ।११५ ॥ इति ठन् । " वंशाभं वंशकम्, क्लीबम् प्रथमस्वरमध्यम्, 'इवे प्रतिकृतौ '५ । ३ ।९६ ॥ इति कन् " [ अम. क्षीर. २ १६ ।१२६ ॥] इति स्वामी । ७ अनार्यदेशे जातम् अनार्यजम् । ८ जोङ्गगिरिभवत्वाद् जोङ्गकम् । जुङ्गति वर्जयर्ति दौर्गन्ध्यं जोङ्गकं वा । 'जुगि वर्जने' (भ्वा.प.से.), चवर्गादिः, बाहुलकौ वुन्गुणौ । अष्टौ सामान्येनाऽगुरुकाष्ठस्य । शेषश्चात्र
"अगुरौ प्रवरं शृङ्गं शीर्षकं मृदुलं लघु । वरद्रुमः परमद: प्रकरं गन्धदारु च ॥१॥" [शेषनाममाला ३ । १३० - १३१ ॥] ॥ अथाऽगुरुविशेषानाह
मङ्गल्या मल्लिगन्धि यत् ॥६४०॥
१ यदगुरु मल्लिगन्धि तत्, मङ्गले साधुः मङ्गल्या । 'तत्र साधुः ४ | ३ |९८ ॥ इति यत् । अत्र मल्लिशब्द: केतकीपर्याय इकारान्तः । मल्लेर्विकारोऽवयवो वा पुष्पं मल्लिः । 'पुष्पफलमूलेषु बहुलम् ' (वा - ४ | ३ |१६६ ॥ ) इत्यणो लुक् । मल्ले: पुष्पस्येव गन्धोऽस्य मल्लिगन्धि । 'उपमानाच्च' ५ १४ । १३७ ॥ इति गन्धस्येकारो ऽन्तादेशः । पुष्पसदृग्गन्धागुरुर्ण । 'केवडीओ अगर' इति भाषा ॥ ६४० ॥
कालागुरुः काकेतुण्डः
१ काल: कृष्णश्चासावगुरुश्च कालागुरुः । २
१. १.२.४ प्रतिषु नास्ति ॥ २. द्र अम. क्षीरस्वामिटीका र १६ ११३३ ॥ पृ. १६१ ॥, स्वोपज्ञटीका३ ॥६३९ ॥, पृ.१४३ ॥ पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्ले - ३९१, पृ.४७८ ॥, मल्लिनाथसूरिकृतामरपदपारिजातटीका, भा-१, २१६ । १३३ ॥ पृ. ४४६ ॥ रामाश्रमी २६ । १३३ ॥ पृ. ३२० ॥ तासु टीकासु "कर्पूरागरुकस्तूरी कर्पूरं चन्दनं तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्दमः ॥" इति दृश्यते ॥ ३. द्र टीकासर्वस्वम्, भा-२, २६ १३३ ॥ पृ.३८५ ॥, मल्लिनाथसूरिकृतामरपदपारिजातटीका, भा-१, २ ६ १३३ ॥ पृ.४४६ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्ले - ३९१, पृ. ४७८ ॥, रामाश्रमी २६ ॥ १३३ ॥ पृ.३२० ॥ ४. ‘-पिनी' इति३ ॥ ५. इतोऽग्रे ३प्रतौ 'च' इति दृश्यते ॥ ६ पिन्यां ' इति३ ॥ ७. 'सामा-' इति १ ३ ॥ ८. २प्रतौ नास्ति ॥ ९. ' - वंशके ' इति४॥ १०. ‘महर्घ-' इति३ ॥ ११. 'अगुरु' इति १.२.३ । १२. 'अक अग कुटिलायां गतौ' इति क्षीरतरङ्गिण्यादयः ॥ १३. 'अर्ह पूजायाम्' इत्येव क्षीरतरङ्गिण्यादयः ॥ १४. 'लूङ्' इति३ ।। १५. स्वामिमतेऽयं पाठः, 'रुह जन्मनि प्रादुर्भावे' इति मैत्रेयः, 'रुह बीजजन्मनि प्रादुर्भावे च' इति सायणः ॥ १६. '-ग्धिमित्यपि' इति ॥ १७. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३८४, पृ.४७३ ॥ तत्र " वंश इव 'वंशकम्' । क्लीबम् । "इवे प्रतिकृता " विति कन् (पा-५।३।९६॥ ) इति तु स्वामी " इति दृश्यते, अम. क्षीरस्वामिटीकायाम् 'वंशाभं वंशकम्, वंशिकेत्येके' इति दृश्यते ॥ १८. 'वर्जति' इति३ ॥ १९. 'लघुः' इति३ ॥ २०. ' सदृशगन्धागरुण:' इति२.३ ॥ २१. ' - डीउ' इति२ ॥ २२. ' - गरुः' इति१ ॥
For Private Personal Use Only
४०
५०
www.jainelibrary.org