________________
२७२
'सृ गतौ ' (भ्वा.प.अ.), 'गत्यर्थाकर्मक- '३।४।७२ ॥ इति कर्तरि तः । प्रकृष्टं सृतं गमनमनया वा । ४ नलिके ( नलके ) विद्यतेऽस्या नलकिनीं । व्रीह्यादित्वाट्ठन् । सामान्यतः त्रीणि जङ्घायाः ॥ ६१४॥
प्रतिजङ्घा त्वग्रजङ्घा
अभिधानचिन्तामणिनाममाला
१ जङ्घां प्रतिगता प्रतिजङ्घा । २ जङ्घाया अग्रभागः अग्रजङ्घा । द्वे जङ्घाग्रभागस्य ॥
पिण्डिका तु पिचण्डिका ।
१ मांसस्य पिण्डोऽस्त्यस्याः पिण्डिका । ' अत इनि१० उनौ २ ।५ ।१०२ ॥ इति ठन् । २ पिचण्डप्रतिकृति: पिचण्डिका । 'इवे प्रतिकृतौ '५ ।३ ।९६ ॥ इति कन्, 'प्रत्ययस्थात् - ७ । ३ । ४४ ॥ इतीत्वम् । द्वे पिण्डीति ख्यातायाः ॥ गुल्फस्तु चरणग्रन्थिर्घटकों घुण्टंको घुटेः ॥६१५॥
३
१ गलति गुल्फः । 'गल अदने ' ( भ्वा.प.से.), 'गलेश्च' ( ) इति फक्, अत उच्च । २ चरणस्य ग्रन्थिः चरणग्रन्थिः । ३ घुट्यते परिवृत्यतेऽनेन घुटकः । 'घुट परिवर्तने'(भ्वा.आ.से.), 'क्वुन् शिल्पिसंज्ञयो :- ' (उणा-१९०) इति क्वुन् । ४ घुणत्यनेन घुण्ट: । 'घुण् (घुण) भ्रमणे ' (तु.प.से.), ‘घटाघाटा-'(हैमोणा-१४१)इति टप्रत्यये साधुः, स्वार्थे कनि २० घुण्टकः । सर्वेऽपि पुंस्त्रीलिङ्गाः । ५ घुटति घुटः । 'घुट प्रतीघाते' (तु.प.से.) तुदादि:, 'इगुपध- '३।१।१३५ ॥ इति कः । पञ्च चरणग्रन्थे । 'गिरि' इति भाषा ॥६१५॥
चरणः क्रमणः पादः पंदोंऽह्निश्चलनः क्रमः ।
१ चरत्येनन चरणः, पुंक्ली. । 'चर गतौ ' (भ्वा.प.से.), करणे ल्युट् । २ क्रामन्त्यनेन क्रमणः । क्रमु पादविक्षेपे' (भ्वा.प.से.), करणे ल्युट् । ३ पद्यतेऽसौ पादः । 'पद गतौ' (दि.आ.अ.), 'पदरुजवि [ रा ] स्पृशो घञ् ' ३ | ३ |१६ ॥ कर्तरि । पद्यते गम्यतेऽनेनेति । 'हलश्च ३ । ३ । १२१ ॥ इति घञि वा । ४ पद्यते गम्यतेऽनेनेति पदः, पुंक्ली. । 'पद गतौ' (दि.आ.अ.),
Jain Education International
[ मर्त्यकाण्डः-३
'आ खनो घ च '३ । ३ । १२५ ॥ इति घित्करणादन्यतोऽपि घः । ३० पदमिति क्लीबेऽपि, अत्र च 'अनुदात्तं पदमेकवर्जम् '६ । १ । १५८ ॥ इति सामान्यज्ञापकम् । पाद् पद् इति व्यञ्जनदकारान्तावपि । पत् पद्, पदौ, पदः इत्यादि । पात् पाद्, पादौ पादः इत्यादि । "पद्मादंहिश्चरणोऽस्त्री "[ ] इति व्याडि: । ५ अंह्यतेऽनेन अंह्निः, पुंसि । 'अहि गतौ' (भ्वा.आ.से.), 'वङ्क्यादयश्च' (उणा-५०६) इति क्रिनि साधुः । अंयादयो घकारश्रुतिकृतोऽपि । " अंहो हो द्रुहिणाः संहर्षां च घश्रुतिकृतयः "[ ] इति । " पदंघ्रिः " [ अमरकोषः २ |६ ॥ ७१ ॥ ] इत्यमरश्च । ६ चलन्त्यनेन चलनः । ‘चल चलनें '(भ्वा.तु.प.से.), 'चलनशब्दार्थादकमर्काद् युच्' ३ । २ । १४८ ॥ इति युच् । ७ क्रामन्त्यनेन क्रमः । क्रमु ४० पादविक्षेपे' (भ्वा.प.से.), करणे घञ्, 'नोदात्तोपदेशस्य- '७।३।३४ ॥ इति वृद्धिनिषेधः । सप्त चरणस्य ॥
पादमूलं गहिरं स्यात्
१ पादयोर्मूलं पादमूलम् । २ गुह्यते गोहिरम् । 'गुहू संवरणे' (भ्वा.आ. वे.), बाहुलकाद् 'इषिमदि- ' ( उणा - ५१ ) इति किरचि साधुः । द्वे पादमूलस्य । 'पगतली' इति भाषा ॥ पार्ष्णिस्तु घुटयोरधः ॥६१६॥
१३
१ पृष्यते सिच्यते प्रक्षालनकाले भूरनेन पार्ष्णिः, पुंस्त्रीलिङ्गैः । " पार्ष्णिः स्त्रीपुंसयोः पादमूले स्याद् ध्वजिनीकटौ["]इति रन्तिदेवः । 'पृषु सेचने ' (भ्वा.प.से.), ५० 'घृणिपृष्णि(पृश्नि) पार्ष्णिभूष्णि - ' ( उणा - ४९२ ) इत्यादिना साधुः । घुटयो: 'गिरिया' इति प्रसिद्धनाम्नोरधस्तात् पश्चाद्भाग इत्यर्थः । एकं ‘पानही"' इति ख्यातार्यांः ॥६१६॥
पादग्रं प्रपदं
१ पादस्याग्रं पादाग्रम् । २ प्रकृष्टं पदं प्रपदम् । प्रादिसमासः । प्रगतं पदमस्माद्वा । द्वे पादाग्रस्य ॥
क्षिप्रं त्वङ्गुष्ठाऽङ्गुलिमध्यतः ।
१ क्षिप्यतेऽनेन क्षिप्रम् । क्षिप प्रेरणे' (दि.प.अ.तु.
१. 'नलि-' इति२.३ ॥ २. 'घुटि-' इति मुद्रिताभिधानचिन्तामणिनाममालायाम्, स्वोपज्ञटीकापि तमाश्रित्यैव ॥ ३. 'गलश्च' इति२.३ ॥। ४. अयं ग्रन्थो घुटशब्दविवरणात् पश्चादुचितः ॥ ५. ' या ' इति४ ॥ ६. 'क्रमत्य-' इति३ ॥ ७. 'आ' इत्यष्टाध्यायां नास्ति ॥ ८. द्र. स्वोपज्ञटीका ३१६१६ ॥, पृ.१३९ ॥, तत्र 'पत्पादोंहि-' इति दृश्यते ॥ ९ द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री - ३२९, पृ. ४१२ ॥ रामाश्रमी २।६।७१ ॥, पृ. २९२ ॥ १०. 'चलने' इत्यर्थे चलधातुर्न दृश्यते ॥ ११. 'षट्' इति१.२.४ ॥ १२. 'पुंस्त्री' इत्येव३ ॥ १३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री - ३३०, पृ.४१३ ॥, रामाश्रमी २।६।७२ ॥ पृ. २९२ ॥ १४. ' - भूष्णि-' इत्युणादिगणसूत्रे न दृश्यते ॥ १५.' हीन' इति ३ ॥ १६. 'ख्यातस्य' इति ३ ॥
For Private Personal Use Only
www.jainelibrary.org