SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २० ६१५- ६२२] उ.अ.), ‘स्फायितञ्चि-’(उणा - १७० ) इत्यादिना रक् । अङ्गुष्ठश्चाङ्गुलयश्च अङ्गुष्ठाङ्गुलयः, तासां मध्यं अङ्गुष्ठाङ्गुलिमध्यम्, तत्र, सप्तम्यर्थे तसिल् । यद्वाग्भट:-" अङ्गुष्ठाङ्गुलिमध्यस्थं क्षिप्रमाक्षेपमारणम्''[ अष्टाङ्गहृदयम्, शारीरस्थानम्, अध्यायः४, श्रो-३]इति । एकमङ्गुष्ठाङ्गुलिमध्यभागस्य ॥ व्युत्पत्तिरत्नाकरकलिता क्ष १ क्षिप्रस्याङ्गुष्ठाङ्गुलिमध्यस्योपरि द्व्यङ्गुलस्योपरिष्ठात् कूर्चम् इत्यन्वयः । यद्वाग्भट:- "तस्योर्ध्वं द्व्यङ्गुले कूर्च: पादभ्रमणकम्पकृत् ''[ अष्टाङ्गहृदयम्, शारीरस्थानम् अध्यायः - ४, १० श्ले - ४] इति । एकमङ्गुष्ठाङ्गुलिमध्योपरितनभागस्य ॥ अंह्रिस्कन्धः कूर्चशिरः समे ॥६१७॥ १ अंङ्गैः स्कन्धः अंह्रिस्कन्धः | २ कूर्चस्य शिरः कूर्चशिरः । यद्वाग्भट:- "गुल्फसन्धेरधः कूर्चशिरः शोफरुजाकरम्''[ अष्टाङ्गहृदयम्, शारीरस्थानम् अध्यायः - ४, श्रो४] इति । द्वे गुल्फसन्धेरधः प्रत्यङ्गस्य ॥ ६१७॥ तलहृदयं तु तलं मध्ये पादतलस्य तत् । १ तलस्य हृदयं तलहृदयम् । २ तलति तलम् । 'तल प्रतिष्ठायाम् ' ( चु.प.से.) अच् । तच्च पदे तलस्य मध्ये भवति । यद्वाग्भटः "मध्ये पादतलस्याहुरभितो मध्यमाङ्गुलिम् । तलन्नाम रुजया तत्र विद्धस्य पञ्चता ॥१॥" [ अष्टाङ्गहृदयम्, शारीरस्थानम् अध्यायः - ४, श्ले-२-३] । अत्र तलहृदिति पर्यायेणोक्तम् । एकं पादतलमध्यस्य ॥ तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ॥६१८॥ १ तिलप्रतिकृति : तिलकः । 'इवे प्रतिकृतौ '५ ।३ ।९६ ॥ इति तन् । २ काल एव कालकः । ३ अपिप्लवते पिप्लुः, पुंसि, पृषोदरादिः । ४ जडति जडुलः । 'जड घायें ' (भ्वा.प.से.), बाहुलकादुलन् । ५ तिल इव कालकः तिलकालकः । ३० पञ्च देहस्थकृष्णचिह्नस्य ॥ ६१८ ॥ रसासृग्मांसमेदोऽस्थिमज्ज ( मज्जा ) शुक्राणि धातवः । Jain Education International २७३ सप्तैव देश वैकेषां रोमत्वक्स्नायुभिः सह ॥६१९॥ १ दधति शरीरमिति धातवः पुंसि । 'डुधाञ् धारणादौ ' (जु.उ. अ.), 'सितनिगमिमसिसिचि (सचि) - ' (उणा६९) इति तुन् । रसो देहधातुः १, असृक्र, मांस: ३, मेदो वपाशुद्धमांसस्य स्नेह इत्यर्थ: ४, अस्थि हड्डम् (५), मज्जा अस्थिमध्यगतमीजिकां६, शुक्रं रेतः ७, एते सप्त, एवेत्यवधारणे, वा अथवा, एकेषाम् अन्येषां मतेन रोमत्वक्स्नायुभिः सह दश स्युः, एते दशाऽपि धातवः प्रोच्यन्त इत्यर्थः ॥६१९॥ For Private अथ रसादीन् क्रमेणाऽऽह, तत्र प्रथमधातुमाहरस आहारतेजोऽग्निसंभवः षड्रसासवः । आंत्रेयोऽसृक्रो धातुर्घनमूलमहापरः ॥६२० ॥ १. ' पादमध्यस्य' इति ॥ २. घात्येऽर्थे जडधात्वाभावादत्र 'जल घातने' इति युक्तः, तथा च डलयोरैक्याद् जडुलशब्दसिद्धिः ॥ ३. 'मध्यगामंजिका ' इति४, ' -मजिका' इति ॥ ४. 'रस आस्वादस्नेहनयो:' इति क्षीरतरङ्गिण्यादयः ॥ ५. आहारसंभव:' इति१.२.३ ॥ ६. 'घः' इति३ ॥ ७. 'वाशि- ' इति१ ॥ ८. 'इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्' इत्युणादिगणसूत्रम् ॥ १ रसयति स्नेहयति रसः । 'रस स्नेहे ' ( चु.उ.से.), अच् । २ आहारस्य तेजो निर्यास आहारतेजः, क्लीबे । आहारतेजसी, आहारतेजांसि इत्यादि । ३ अग्नेर्जाठराग्नेः संभवति अग्निसंभवः, अच् । ४ षण्णां मधुरादीनाम् [ रसानाम् ] आसवः षड्रसासवः । ५ अत्रेरपत्यम्, तज्जन्यत्वाद् आत्रेयः । ६ असृक् रक्तं करोति असृक्करः । 'डुकृञ् करणे' (त.उ.अ.), 'कृञो हेतुताच्छील्य-'३ ।२।२० ॥ इति र्ट: । ७-९ घनादित्रिभ्यः परो धातु:, तेन घनधातुः, मूलधातुः, महाधातुः । नव रसस्य । ५० 'देहधातु' इति भाषा ॥६२० ॥ ४० अथ द्वितीयधातुमाह रक्तं रुधिरमाग्नेयं वस्त्रं तेजोभवे रसात् । शोणितं लौंहितमसृग् वासि॑िष्ठं प्राणैदाऽऽसुरे ॥६२१॥ क्षतैंजं मांसैकार्यस्त्रम् १ रक्तवर्णत्वाद् रक्तम् । २ रुध्यते चर्मणा शिराभिश्च । रुणद्धि स्रोतांसि वा रुधिरम् । रुधिर् आवरणे' (रु.उ.अ.), 'इषिमदिमुदिखिदिछिदि (च्छिदि) भिदिमेदितिमिचिमिदितिमिमिहिमुहिमुचिरुधिशुषिबधिभ्यः किरच् ' ( उणा - ५१) । ३ अग्नये हितम् आग्नेयम् । 'अग्नेर्दक्' ४ । २ । ३३ | ४ विस्यति ६० Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy