________________
१०
६०३-६०७]
व्युत्पत्तिरत्नाकरकलिता
तिलकं क्लोम
१ हृदयस्य दक्षिणे पार्श्वे तिलति स्निह्यति तिलः । 'तिल स्नेहने' (तु.प.से.), 'इगुपध - '३।१।१३५ ॥ इति कः, ततः कन् [ तिलकः ] । २ क्लवते क्षारद्रव्यं प्राप्य चलति क्लोम, क्लीबे ।'च्युङ् छुङ् (छ्युङ्) त्रुङ् प्रुङ् गतौं ' (भ्वा.आ.अ.), 'क्लुङ् इत्येके,' 'मनिन् ' ( उणा-५८४) इति मनिन् । क्लोममदन्तमपि सिध्मपर्याये उक्तम् । द्वे तिलकस्य । " ताड्यं क्लपुष्पं' क्लोमम्''[शेषनाममाला३ ॥ १२६ ॥ ] शैषिकाणि ॥ वा तु रक्तफेनः ।
पुष्पसः स्यात्
१ हृदयस्य वामपार्श्वे रक्तफेनाज्जातो रक्तफेनजः । २ पुष्पतीति पुष्पसः । असचि प्रत्यये निपात्यते । द्वे 'फोफस' इति
ख्यातस्य ॥
अथ प्लीहा गुल्मः
।
१ हृदयस्य वामभागे प्लेहति (प्लेहते) अन्तः प्रविशति तीक्ष्णप्रयोगाच्चरति प्लीहा । 'प्लिह गतौ' (भ्वा.आ.से.), 'हन् (हन) हिंसागत्योः' (अ.प.अ.) अस्य वा । श्वन्नुक्षन्पूषन् - प्लीहन्- क्लेदन्- स्नेहन्- मूर्धन्-मज्जनर्यमन्-विश्वष्ट्यन्(विश्वप्सन्) - परिज्मन् मातरिश्वन् मघवन् ' (उणा - १५७ ) इति २० कनि साधुः । प्लीहानौ इत्यादि पुंसि । प्लीहा टाबन्ताच्च ' यकृत् प्लीहे च सम्बद्धे "[]इति बालकाष्टः (वालकाप्यः) । २ गुड्यते रक्ष्यतेऽस्माद् गुल्मः, पुंक्लीबलिङ्गः । 'गुड रक्षणे' (तु.प.से.), ‘भीमादयोऽपादाने '३ | ४ | ७४ ॥ इति साधुः । गलत्यायुरिति वा । 'गल अदने ' (भ्वा.प.से.), 'गलेरुच्चोपधाया: ' ( ) इति मक् । द्वे हृदयवामभागस्थगुल्मस्य । 'पीहों' इति भाषा ॥ अत्र तु पुरीतति ॥ ६०५॥
44
१ अमत्यनेनाऽन्नमिति अन्त्रम् । 'अम् (अम) गतौ' (भ्वा.प.से.), ' - रोगे ' ( चु.अ.से.) वा, 'अमिचिमिदिशसिभ्यस्त्रन् ' (उणा - ६०३) । अन्तति बध्नाति कालखण्डादीन
Jain Education International
२६७ वा । 'अति बन्धने' (भ्वा.प.से.), '-ष्ट्रन् ' ( उणा - ५९८ ) इति ३० ष्ट्रन्, तदा द्वितकारावान् । २ पुरिं ( पुरीं ) शरीरं तनोति पुरीतत् । 'तनु विस्तारे' (तु.उ.से.), 'नहिवृतिवृषि- '६ |३ | ११६ ॥ इति क्विप् दीर्घत्वं च 'अनुदात्तोपदेश - '६ |४ | ३७ ॥ इति न्लोपः, 'ह्रस्वस्य-'६।११७१ ॥ इति तुक् । क्लीबेऽयम् । वाचस्पतिस्तु - " अन्त्रं पुरीतदस्त्रियाम् "[ ] इति पुंस्यप्याह, तत्र । द्वे अन्त्रस्य ॥ ६०५ ॥
रोमावली रोमलता
१ रोम्णामावली रोमावली, नाभेर्निर्गता रोमराजि: । २ रोम्णां लतेव रोमलता । द्वे रोमलतायाः ॥
नाभिः स्यात् तुन्दकूपिका ।
१ नह्यतेऽत्रायुरिति नाभिः, पुस्त्रीलिङ्ग: । 'नह (णह) बन्धने'(दि.उ.अ.), 'नहो भश्च' (उणा - ५६५ ) इतीञ्, भोऽन्तादेश: । २ तुन्दे कूपीव तुन्दकूपिका । द्वे नाभेः । " पुतारिका सिरामूलम् [ शेषनाममाला३ ॥ १२७ ॥ ] शैषिके ॥ नाभेरधो मूत्रपुटं वस्तिर्मूत्राशयोऽपि च ॥ ६०६॥
१ नाभेरधस्तान्नाभिगुह्ययोरन्तरमित्यर्थः । मूत्रस्य पुटमाधारो मूत्रपुटम् । २ वसत्यस्यां मूत्रं वस्तिः । वस्ते आच्छादयति मूत्राशयपुटं वा । 'वस निवासे' (भ्वा.प.अ.), 'वस आच्छादने ' (अ.आ.से.) अतो वा, 'दृवसिभ्यां क्तिन्' (चान्द्रोणा - १।८४ ॥ ) पुंस्त्रीलिङ्गोऽयम् । [ ३ मूत्रस्याऽऽशयो मूत्राशयः ] “मूत्राशयपुटो ५० वस्तिः "[ ]इति रत्नमाला । त्रीणि 'पेडू' इति ख्यातस्य ॥ ६०६॥ मध्योऽवलग्नं विलग्नं मध्यमः
१ मध्यशरीरे विद्यमानत्वाद् मध्यः । 'अ: (अ) सांप्रतिके ४ | ३ |९ ॥ इति अप्रत्ययः । मव्यते बध्यते मेखलादिकमत्र वा । ‘मव बन्धने ं'(भ्वा.प.से.), 'शिक्यास्य-' ( ) इति साधुः । २ अवलगति अवलग्नम्। 'लगे सङ्गे' (भ्वा.प.से.), 'क्षुब्धस्वान्त- ' ७।२।१८ ॥ इति साधुः । ३ विलगति विलग्नम्, अतिकृशत्वात् । ४ मां लक्ष्मीं शोभां धत्ते । 'अघ्न्यादयश्च' (उणा - ५५१) इति निपातनात् साधुः । मध्ये भवो मध्यमः ।
१. तुलनीयोऽमरकोषः २।६।६५ ॥ २. 'च्युङ् छ्युङ् ज्युङ् प्रुङ् प्लुङ् गतौ' इति स्वामी, 'च्युङ् छ्युङ् ज्युङ् भ्युङ् प्रुङ् प्लुङ् गतौ' इति मैत्रेयः, 'च्युङ् ज्युङ् प्रुङ् प्लुङ् गतौ' इति सायणः ॥ ३. 'क्लपुषं ' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ४. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३२४, पृ.४०६॥ ५. ‘फीहा' इति४ ॥ ६. ' -भ्यः काः' इत्युणादिगणे ॥ ७ प्रमादोऽयं प्रतिभाति, 'गमादीनाम्- ' (वा - ६ । ४ । ४० ॥ ) इति वार्तिकसत्त्वात्, वस्य झल्त्वाभावाच्च ॥ ८. द्र. स्वोपज्ञटीका ३।६०५ ॥, पृ.१३६ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- ३२४, पृ.४०५ ॥ रामाश्रमी २६ ६६ ॥ पृ. २८९ ॥ ९. ' - ऽत्र वायुरिति' इति४, 'नह्यते स्नायुभिरिति' इति स्वोपज्ञटीकायाम्, ३।६०६ ॥, पृ.१३६ ॥ १०. 'पुंस्त्री' इत्येव३ ॥ ११. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३३१, पृ.४१६ ॥ रामाश्रमी २।६।७३ ॥ पृ. २९३ ॥ १२. 'बोधने' इति २ ॥
४०
For Private Personal Use Only
www.jainelibrary.org