________________
२६६
उरोज च
१ स्तनतः तारुण्योदयं कथयतः स्तनौ । 'स्तन (टन )' शब्दे'(भ्वा.प.से.), अच् । तनुतो विस्तारयत आत्मानं वा । 'तनु विस्तारे' (त.उ.से.), अच्, पारस्करादित्वात् सुट् । स्तनतः पीयमानाविति वा । २ कुचतः सङ्कुचतः कुचौ । 'कुच सङ्कोचे' (तु.प.से.), 'इगुपध- '३।१।१३५ ॥ इति कः । 'कुच शब्दे तारे' (भ्वा.प.से.), 'कुच सम्पर्कणकौटिल्यप्रतिष्टम्भविलेखनेषु' (भ्वा.प.से.) इत्यतो वा, 'इगुपध- '३।१।१३५ ॥ इति कः । 'कूच' इति षष्ठस्वरादिरपि । " कुचकूचौ स्तनोच्चये "[ ] इति शब्द१० प्रभेदः । ३ पयो दुग्धं धरतः पयोधरौ । अच् । धरत इति धरौ, न धरौ अधरौ, पयसः अधरौ पयोऽधरौ इति वा । ४ उरसि जायेते उरोजौ । 'सप्तम्यां जनेर्ड : ' ३ ।२९७ ॥ । यौगिकत्वाद् उरसिजवक्षोजादयः । चत्वारि स्तनयोः । " धरणौ "[शेषनाममाला३ | १२६ ॥ ] शैषिकम् ॥
अभिधानचिन्तामणिनाममाला
चूचुकं तु स्तनाद् वृन्त-शिखा - मुखाः ||६०३॥
१ 'चूचु' इत्यव्यक्तं कायति शिशुना पीयमानमिति चूचुकम्, पुंक्ली. । “चूचुको ना कुचाननम् "[']इति रत्नकोषः । २-४ स्तनशब्दात् परे वृन्तादय:, तेन स्तनवृन्तम्, स्तनशिखा, स्तनमुखम्, स्तनाग्रमित्यर्थः । चत्वारि स्तनाग्रस्य । २० “पिप्पलैः मेचकः''[शेषनाममाला३ ॥ १२६ ॥ ] शैषिके ॥६०३॥
तुन्दं तुन्दिर्गर्भकुक्षी पिंचण्डो जठरोदरे ।
१ तुन्दति तुन्दम् । 'तुद व्यथने' (तु.उ. अ.), बाहुलकान्नुम्, 'इगुपध- '३ । १ । १३५ ॥ इति कः । तूर्यते पूर्यते वा । 'अब्दादयश्च'(उणा - ५३८) इति निपातनात् साधुः । २ तुदत्येनां तुन्दिः, स्त्रीलिङ्गः । 'इगुपधात् कित् ' (उणा-५५९), बाहुलकान्नुम् । ३ गिरत्याहारं गर्भः । 'गृ निगरणे' (तु.प.से.), ‘अर्त्तिगृ(गृ)भ्यां भन् ' ( उणा - ४३२) । ४ कुशत्याहारेण संविष्यति कुक्षिः, पुंसि । गौडस्तु - "उदरं कुक्षिर
क्लीबे''[ ँ]इति स्त्रियामप्याह । 'कुश श्रेषणे ' ( ), 'कुश: ३० क्सि : ' ( ) इति क्सिः । कुष्णात्याहारं वा । 'कुष निःकोषणे'
Jain Education International
[ मर्त्यकाण्डः - ३ (क्र्या.प.से.), 'उषकुषि - ' ( ) इति क्सि: । ५ अपचिनोत्याहारं पिचण्डः । 'चिञ् चयने ' ( स्वा.उ. अ.), 'ञमन्ताड्डु : ' (उणा - १११) इति बाहुलकाद् डः, पृषोदरादित्वाद् वर्णागमलोपौ । पिचिण्ड इति तृतीयस्वरद्वयोऽपि । ६ जनयत्यन्नादिना स्वपूरणं जठरम्, पुंक्लीबलिङ्गः । यद्गौडः - "उदरे जठरो न स्त्री''[]इति । वैजयन्तीकारस्तु - "जठरं चोदरं न ना "[वैजयन्तीकोषः४।४।६७ ॥]इति क्लीब एवाह । " त्रिलिङ्गोऽयम्" []इति बुद्धिसागरः । 'जनी प्रादुर्भावे'(दि.आ.से.), 'ऋच्छेररन् '(उणा-४११)इति बाहुलकादरन्, पृषोदरादित्वाद् नस्य ठः । ७ उद् ऋणाति उद्गच्छति वायुरस्माद् उदरम्, क्ली । ४० ( "वैजयन्ती तु " जठरं चोदरं न ना "[ वैजयन्तीकोषः४।४।६७॥]इत्याह । ‘“त्रिलिङ्गोऽयम्" []इति बुद्धिसागरः) । —ऋ गतौ ' (क्र्या.प.से.), अच् । उद्दीर्यते वायुनेति वा । 'उदि दृणातेरेरच् (ऊर्जि दृणातेरलचौ) पूर्वपदान्तलोपश्च' (उणा७१८) । आहारेण उद्ऋणाति उद्गच्छतीति वा । 'ऋ गतौ' (क्र्या.प.से.), अच् । सप्त उदरस्य । "मलुकः रोमलताधारः " [शेषनाममाला३ | १२६ ॥ ] शैषिके ॥
For Private
कालखण्डं कालखञ्जं कालेयं कालकं यकृत् ॥ ६०४ ॥
१. 'ष्टन ध्वनेति क्षीरस्वामी' इति पुरुषकार: (पृष्ट - ९० ) । अज्दन्त्यपराः सादयः षोपदेशाः (अ. ६ | १ | ६४ ॥ ) इति भाष्यवचनात् षोपदेश एवायम् । क्षीरतरङ्गिण्यां कदाचित् पाठभ्रंशो जातः स्यात् ।" इति क्षीरतरङ्गिण्यां टिप्पणी, पृ.७३, टि-२ ॥ २. द्र टीकासर्वस्वम्, भा-२, २१६७७॥, पृ.३३८॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३३५, पृ. ४२१ ॥, रामाश्रमी २।६।७७ ॥ पृ. २९५ ॥ ३. 'पिष्पलः' इति१.२.३ ॥ ४. इतोऽग्रे ४प्रतौ 'इगुपधेति कः' इति दृश्यते ॥ ५. 'कुश्य-' इति२.४ ॥ ६. ' - ष्यते' इति३ ॥ ७. द्र. स्वोपज्ञटीका ३ । ६०४ ॥, पृ.१३६ ॥ ८. दुर्गसम्मतोऽयं धातुः, द्र. क्षीरतरङ्गिणी, दिवादिः, धातुसं - ११२, पृ. २२९ ॥ ९ द्र. स्वोपज्ञटीका ३ । ६०४ ॥, पृ.१३६ ॥ १०. 'ऋच्छेरर:' इत्युणादिगणे ॥ ११. ' -स्मिन् ' इति४ ॥ १२. कोष्ठान्तर्गतपाठः १प्रतौ नास्ति ॥ १३. 'भूषणे' इति४, तथा क्षीरतरङ्गिण्यादयः ॥ १४. ' -ञ्' इति१.२.४ ॥
दक्षिणे
१ दक्षिण इति, हृदयस्य दक्षिणे पार्श्वे । कालस्य मांसस्य खण्डं कालखण्डम्, कृष्णत्वात् । कालं च तत् खण्डं च कालखण्डमिति वा, कृष्णमांसांशः । २ कालमपि भिन्नं सत् खञ्जयति कालखञ्जम् । 'खजि गतिवैकल्ये ' (भ्वा.प.से.), णिजन्तः, अच् । ३ कु ईषल्लीयते निष्यते हृदयेन कालेयम् । ‘लीङ् शेषे ं'(दि.आ.अ.), 'अचो यत् '३ | १ | ९७ ॥ इति यत्, 'ईद्यति '६ । ४ । ६५ ॥ इतीत् । कलिर्देवताऽस्येति वा । 'कलेर्दक '४।२।८ ॥ | ४ कालमेव कालकम् । स्वार्थे कन् । ५ यमनं यमः संयमः, 'तत्करोति - ' (ग ) इति क्विप्, तुक्, पृषोदरादित्वान्मलोपः यकृत्, क्लीबे । पञ्च 'कलेजा' इति ६० ख्यातस्य ॥ ६०४ ॥
Personal Use Only
५०
www.jainelibrary.org