________________
२६४
अभिधानचिन्तामणिनाममाला
अर्धमुष्टिस्तु खटकः
१ मुष्टेरर्धमर्धमुष्टिः, खटति खटकः, कवर्गद्वितीयादिः । 'खट काङ्क्षायाम् ' (भ्वा.प.से.), 'क्वुन् शिल्पि - संज्ञयो: ' (उणा - १९० ) इति क्वुन् । एकमर्धमुष्टेः । 'टाकर' इति
भाषा ॥
कुब्जितः पुनः ॥५९७॥
पाणिः प्रसृतः प्रसृतिः
१ कुब्जितः कुञ्चिताङ्गुलिः ॥५९७॥ पाणिः, प्रस्त्रियते स्म प्रसृतः । 'सृ गतौ ' (भ्वा.प.अ.), 'निष्ठा'३।२ । १०२ ॥ इति १० क्तः । २ प्रस्त्रियते प्रसृतिः । 'स्त्रियां क्तिन् '३ | ३ |९४ ॥ । द्वे प्रसृतेः । ' पसली' इति भाषा ॥
तौ तौ पुनञ्जलिः ।
१ तौ प्रसृतौ वामदक्षिणौ युतौ पार्श्वविष्टौ । अनक्त्यनेन अञ्जलिः, पुंसि । 'अञ्जु [ व्यक्ति ] म्रक्षणादौ' (रु.प.वे.), ‘ऋतन्यञ्जि–’(उणा–४४२) इत्यादिनाऽलिन् । “अस्यते जलमनेन "[ ] इति नैरुक्त: । नाट्ये तु " पताकाभ्यां तु हस्ताभ्यां संलेषादञ्जलिः स्मृतः: ''[ नाट्यशास्त्रम्, अध्यायः-९, लो- १२१] इति । एकं 'धोवा' इति ख्यातस्य । प्रसृतहस्तद्वयपुटार्थोऽप्ययम्, यथा - " इति चापि विधाय दीयतां २० सलिलस्याञ्जलिरेक एव नौ"[']इति । 'अरध बधावों' इति
भाषा । प्रमाणार्थं मुकुलितहस्तयुगेऽपि । यथा - " शतमुखमुपतस्थे प्राञ्जलिः पुष्पधन्वा "[] इति । तदा हस्तयोजनमिति भाषा । यन्महेश्वर:-" अञ्जलिं (अञ्जली) कुडवे विन्द्यादञ्जलिः करसंपुटे"[विश्वप्रकाशकोश:, लान्तवर्ग:, श्री - १३६ ] | कुडवः प्रसृतिः, करसंपुट: प्रसृतपाणिद्वयपुटः, प्रमाणार्थं मुकुलितं हस्तयुगं वा ॥
प्रसृते तु द्रवाधारे गण्डूषश्चलुकलुः ॥५९८॥
१ गण्डयति (गडयति) गण्डूषः, पुंक्लीबलिङ्गः । 'गड सेचने'(भ्वा.प.से.), बाहुलकादूषन् । २ चुलुम्पतीति
[ मर्त्यकाण्डः-३
चुलुकः, पुंस्त्रीलिङ्गः । हर्षस्तु - "आस्यपूरणी चुलुका" [ ] ३० इति स्त्रियामाह । चुलुम्पः सौत्रः, 'कञ्चक- '(हैमोणा-५७) इत्यादिना उकर्निं निपात्यते । ३ चलति चुलुः, पुंसि । 'भृमृ[शी]तृ - ' (उणा-७) इति बाहुलकादुः । कनि चुलुकोऽपि । कीदृशे प्रसृते ?, द्रवाधारे जलाधारभूते । त्रीणि गण्डूषस्य । 'चुलू' इति भाषा ॥५९८॥
हस्तः प्रमणिकों" मध्ये मध्यमाङ्गुलिकूर्परम् ।
४०
१ मध्यमाङ्गुलिश्च कूर्परश्च मध्यमाङ्गुलिकूर्परौ, तयोर्मध्ये इति" ध्यमाङ्गुलिकूर्परम् । 'पारे मध्ये षष्ठ्या वा' २ ।१ ।१८ ॥ इति समासोऽव्ययीभावः । प्रमाणमस्त्यस्य प्रमाणिकः । 'अत इनिठनौ '५ । २ । ११५ ॥ इति ठन्, 'ठस्येकः ७ ॥३ ॥ ५०॥ । मध्यमाङ्गुलिकूर्परयोर्मध्ये चतुर्विंशत्यङ्गुलप्रमाणवान् हस्त इत्यर्थः । किष्कुरित्यपि । " किष्कुर्वितस्तौ हस्ते च "[विश्वलोचनकोश:, कान्तवर्ग:, श्रो- १०] इति श्रीधरः । 'हस्तश्चतुविंशत्यङ्गुलः "[ ]इति तट्टीका ॥ बद्धमुष्टिरसौ रेलिः
Jain Education International
4
१ असौ हस्तो बद्धमुष्टिः सन् बद्धो मुष्टिर्यत्र स तादृक्, बद्धया मुष्ट्योपलक्षित इत्यर्थः । 'ऋतनि-' (उणा(४४२) इत्यादिना द्वादशधातुभ्यो द्वादशप्रत्ययाः क्रियन्ते तत्र । अर्तेः कलिप्रत्ययः, ककार कित्कार्यार्थः, धातोर्यणादेश: रत्निः, पुंस्त्रीलिङ्गः । एकं 'मुंडहर्थे' इति ख्यातस्य ॥
अरेनिर्निष्कनिष्ठिकः ॥५९९॥
१ निर्गतः कनिष्ठाया निष्कनिष्ठकः । रत्निसदृश: अरलिः । नञत्र सादृश्ये, ऋतेः सौत्रात् 'पाष्र्ण्यादयः ' ( चान्द्रोणा - ११८० ॥ ) इति निः । पुंस्त्रीलिङ्गोऽयम् । 'अर्त्तिः ' []इति सुभूतिः । एकं कनिष्ठारहित 'मुंडहर्थ' इति ख्यातस्य ॥५९९ ॥
व्योमव्यायामन्यग्रोधास्तिर्यग्बाहू प्रसारितौ ।
१ व्यामीयतेऽनेन व्यामः । 'व्याङ्पूर्वी 'माङ् माने '
१. 'आका-' इति३, 'काङ्क्षे' इति स्वामी ॥ २. द्र अम. क्षीर. २ । ६।८५ ॥ पृ. १५२ ॥ स्वोपज्ञटीका ३।५९८ ॥, पृ.१३५ ॥ ३. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३६१६ ॥ पृ.२५७॥ ४. 'अरथ वधावा' इति २ ॥ ५. 'चलुः' इति मुद्रिताभिधानचिन्तामणिनाममालायाम्, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ ६. ' - क्लीबः' इति३ ॥ ७. 'गडि' इति१.२.४ ॥ ८. 'गडे श्च' (उणा - ५१८) इत्युणादिगणसूत्रम् ॥ ९. 'चुलुपः' इति ३ ॥ १०. ' निति' इति३ ॥ ११. 'चलू' इति १ । १२. 'प्रामा' इति मुद्रिताभिधानचिन्तामणिनाममालायाम् ॥ १३. २प्रतौ नास्ति ॥ १४. प्रमाणान्' इति ३ ॥ १५. 'मूड' इति१, ' - हाथ' इति ३ ॥ १६. ' - हाथ' इति ३ ॥
For Private & Personal Use Only
५०
www.jainelibrary.org