________________
२४६
परं विशेषानाश्रयणत्वादिह केलिपर्यायत्वेन प्रोक्ताः । शेषश्चात्र" स्यात्तु नर्मणि सुखोत्सवो रागरसो विनोदोऽपि किलोऽपि च" [शेषनाममाला ३।११६-११७ ॥] ॥
वता तु जनकस्ततो बीजी जनयिता पिता ॥ ५५६ ॥
१ वपति बीजं वप्ता । 'टुवप् बीजतन्तुसन्ताने'' (भ्वा.उ.अ.), तृच् । २ जायतेऽस्मात् जनयतीति वा जनकः । 'जनी प्रादुर्भावे' (दि.आ.से.), ण्वुल्, 'जनिवध्योश्च ७ । ३ । ३५ ॥ इति वृद्धिनिषेधः । क्वुन्प्रत्यये वा । ३ तनोति विस्तार - यत्यपत्यं तातः । ‘तनु विस्तारे' (त.उ.से.), 'कु (दु) तनिभ्यां १० दीर्घश्च' (उणा - ३७० ) इति क्तप्रत्ययेऽनुनासिकलोपे पूर्वस्य दीर्घः । तनोति कुलं तन् (ततः), ततः स्वार्थेऽणि वा । [४ बीजमस्त्यस्य बीजी । 'अत इनिठनौ ५ ।२ । ११५ ॥ इतीनिः । ५ जनयति जनयिता । 'जनी प्रादुर्भावे ' ( दि. आ.से.) ण्यन्तात् तृच् ।] ६ पाति रक्षति पिता। 'पा रक्षणे' ( अ.प.अ.), 'नप्तृ
त्वष्टृ ' (उणा - २५२ ) इत्यादिना तृचि निपातितः । षट् पितुः । शेषश्चात्र- " वप्यो जनित्रो रेतोधा: " [शेषनाममाला ३ | ११७ ॥] ॥५५६ ॥ पितामहस्तस्य पिता
अभिधानचिन्तामणिनाममाला
१ तस्येति पितुः पिता पितामहः । 'पितृव्यमा२० तुल- ४।२।२६ ॥ इत्यादिना डामहचिं निपात्यते, डित्त्वाट्टि - लोपः । स्त्रियां 'मातरि षिच्च' (वा ४।२१३६ ॥ ) इति षित्त्वाद् गौरादिषु पितामहशब्दपाठाद्वा ङीषि पितामही । एकं 'दादा' इति ख्यातस्य ॥
तत्पिता प्रपितामहः ।
१ तस्य पितामहस्य पिता तत्पिता । प्रकृष्टः पितामहः प्रपितामहः । स्त्रियां प्रपितामही । एकं प्रपितामहस्य । ‘पडदादु' इति भाषा ॥
मातुर्मातामहाद्येवम्
१ एवम् अमुना प्रकारेण मातुः पिता मातामहः । ३० पूर्ववन्निपातनाद् डामहजादिः । 'नानु' इति भाषा । तत्पिता प्रमातामहः । 'पडनानुं'' इति भाषा । स्त्रियां प्रमातामहीत्यादि योज्यम् ॥
Jain Education International
[ मर्त्यकाण्डः-३ माताऽम्बी जननी प्रसूः ॥५५७॥
सवित्री जनयित्री च
१ मान्यते विवेकिभिः, मात्यस्यां गर्भ इति वा माता । 'मान पूजायाम् ' (भ्वा.आ.से.), 'मा माने ' ( अ.प.अ.), वा 'नप्तृनेष्टृ-'(उणा-२५२ ) इति सूत्रेण साधुः, स्वस्रादित्वान्न ङीप् । २ अमति वात्सल्यम् अम्बा । 'अम गतौ'' (भ्वा.प.से.), 'शम्यमेतिणिद्वः (-र्णिद्वः) ' (हैमोणा- ३१८) । अम्बते जल्पति वा । 'अबि शब्दने ' ( भ्वा.आ.से.), अच् । ४० ३ जायतेऽस्यां जननी । 'जनी प्रादुर्भावे ' ( दि.आ.से.), अधिकरणे ल्युट् । जनयतीति कर्तरि वा ल्युट् । ४ प्रसूते प्रसूः । ' षूङ् प्राणिगर्भविमोचने ' (अ.आ. वे.), अदादिः, 'सत्सूद्विष- '३ ।२।६१ ॥ इत्यादिना क्विप् ॥ ५५७ ॥ ५ सूते सवित्री । —षूङ् प्राणिगर्भविमोचने '(अ.आ.वे.), तृच्, 'ऋनेभ्यो ङीप्'४।१।५॥ । ६ जनयति जनयित्री । 'जनी प्रादुर्भावे' (दि. आ.से.), णिजन्तः, तृच्, 'ऋनेभ्यो ङीप् ४ ११ ॥५ ॥ इको यणचि'६।१।७७॥ । —या जनित्री त्रिलोक्या "["]इति त्वन्तर्भावितण्यर्थत्वात् । “जनित्री "[ ] इति शब्दप्रभेदश्च । " अन्तर्भावितण्यर्थाज्जनेस्तृचि जनित्री " [ ] इति शाब्दिकाः । षड् ५० मातुः । "जानी "[शेषनाममाला ३ | ११७ ॥ ] इति शैषिकम् ॥ कृमिला तु बहुप्रसूः ।
१ अपत्यानि भूयस्त्वात् कृमीनिव लाति कृमिला । बहून्यपत्यानि प्रसूते बहुप्रसूः । 'सत्सूद्विष- '३ ।२।६१ ॥ इति क्विप् । एकं बहुप्रस्वाः ॥
धात्री तु स्यादुपमाता
१ धयन्ति तामिति धात्री । 'धेट् पाने' (भ्वा.प.अ.), 'धः कर्मणि ष्ट्रन् '३ ।२।१८१ ॥ इति ष्ट्रन्, 'आदेच:- '६ ११ १४५ ॥ इत्यात्वम्, षित्त्वात् ङीष् । २ उपजाता, उपचरिता वा माता उपमाता । द्वे धात्र्याः । 'धावि' इति भाषा ॥
वीरमाता तु वीरसूः ॥५५८॥
१ दर्शितपराक्रमा वीराः, तेषां माता वीरमाता । वीरं सूत्रे वीरसूः । ' षूङ् प्राणिप्रसवे ' (अ.आ.वे.), 'सत्सूद्विष- ' ३।२।६१ ॥ इति क्विप् । एकं वीरमातुः ॥५५८ ॥
१. 'टुवप् बीजसन्ताने' इति क्षीरतरङ्गिण्यादौ ॥ २. ' - हच्' इति ३ ॥ ३. 'दादु' इति ४, ' - दाडो' इति ३ ॥ ४. 'नानो' इति ३ ॥ ५. ' - नानो' इति, 'नानू' इति ४॥ ६. 'अम गत्यादिषु' इति क्षीरतरङ्गिण्यादौ ॥ ७ द्र अम. क्षीर. २६ २९ ॥, पृ. १४० ॥ स्वोपज्ञटीका ३५५८ ॥ पृ.१२६ ॥ ८. 'त- ' इति २ ॥ ९ तुलनीयोऽमरकोषः २ ।६ ॥१६ ॥
For Private & Personal Use Only
६०
www.jainelibrary.org