________________
१०
५५१-५५६ ]
प्रयत्नः पित्रादितो द्रव्यग्रहणेऽस्त्यस्याः । 'अत इनिठनौ'५।२।११५॥, 'ऋनेभ्यो ङीप्^४ |१| ५ ॥ | " भग्नीं' "[ शब्दप्रभेदः, श्ले-३०]इति शब्दप्रभेदः । ३ सुष्ठु विवाहानन्तरं पितृगोकुला - दिकमस्यति त्यजति स्वसा । सुपूर्वः 'असु क्षेपणे' (दि.प.से.), 'सावसे: ' (उणा - ६२० ) ऋन्, 'न षट्स्वस्त्रादिभ्यः '४ ॥ १ ॥ १० ॥ इति ङीपो निषेधः । स्वसारौ, स्वसारः इत्यादिः । त्रीणि भगिन्याः । " ज्येष्ठभगिन्यां वीरभवन्ती " [ शेषनाममाला ३।११६ ॥ ] शैषिकम् ॥५५३॥
ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनीत्यपि ।
व्युत्पत्तिरत्नाकरकलिता
१ न नन्दति तुष्यति, न नन्दयति भ्रातृजायामिति वा ननान्दा | 'टुणदि (टुनदि) समृद्धौ ' (भ्वा.प.से.), 'नञि च नन्देर्दीर्घ श्च' (उणा - २५५) इति ऋन्, अकारस्य च दीर्घत्वम्, स्वस्रादिनिपातनान्नलोपाभावः, स्वस्त्रादित्वादेव न ङीप् । ननान्दरौ, ननान्दरः इत्यादि । 'नभ्राण्नपात्- '६।३।७५ ॥ इति नञ्प्रकृत्या । २ बाहुलकात् कैश्चिद् दीर्घत्वं नेष्यते तदा ननन्दा | ३ नन्दति नन्दयति वाऽवश्यं नन्दिनी । 'टुणदि ( टुनदि) समृद्धौ ' (भ्वा.प.से.), आवश्यके णिनिः, 'ऋन्नेभ्यो ङीप् '४ ॥ १ ॥ ५ ॥ । " ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सा [] इति रभसः । त्रीणि ननान्दुः ॥
२० पल्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुली च सा ॥५५४॥
१ पत्न्याः स्त्रियाः ज्येष्ठा भगिनी । ज्येष्ठा चासौ श्वश्रूश्च ज्येष्ठश्वश्रूः । २ कोलति कुली । 'कुल संस्त्याने' (भ्वा.प.से.), 'इगुपध- '३।१।१३५ ॥ इति कः, गौरादिः । द्वे 'वृद्धसाली ' इति ख्यातायाः ॥ ५५४॥ कनिष्ठा श्योलिका हाली यन्त्रेणी केलिकुञ्चिका ।
१ पत्न्याः कनिष्ठा भगिनी । श्यालेव ( शाल्येव) श्यालिका | स्वार्थे कन्, 'केऽणः ७ १४ ११३ ॥ इति ह्रस्वः । २ हलति हाली । 'हल विलेखने' (भ्वा.प.से.), ज्वलादित्वाण्णः
२४५
'णेऽपि क्वचित् ' ( ) इति ङीप् । २ यन्त्रयति यन्त्रणी । 'यत्रि ३० सङ्कोचे ' (चु.उ.से.), चुरादिः, नन्द्यादित्वाल्ल्युः । ३ केल्यां कुञ्चति कुटिलीभवति केलिकुञ्चिका । 'कुचि कौटिल्याल्पीभावयो:'(भ्वा.प.से.), ण्वुल्, 'प्रत्यस्थात्- '७।३।४४ ॥ इतीत्वम् । चत्वारि पत्नीलघुभगिन्याः । 'साली' इति भाषा ॥ कैलिर्द्रवः परीहास: क्रीडा लीला च नर्म च ॥५५५॥ देवनं कूर्दनं खेला ललनं वर्करोऽपि च ।
Jain Education International
१ केलनं केलिः पुंस्त्री । 'किल शैत्य ( चैत्य ) - क्रीडनयो: '(तु.प.से.), ' - इन्' (उणा - ५५७ ) इतीन् । २ द्रवति हृदयमनेन द्रवः । 'द्रु गतौ ' (भ्वा.प.अ.), 'ऋदोरप् '३।३१५७ ।। । ३ परिहसनं परीहासः । परिपूर्वः 'हस (हसे) हसने ' (भ्वा.प.से.), भावे घञि 'उपसर्गस्य घञि - '६।३।१२२ ॥ इति दीर्घः । ४ क्रीडनं क्रीडा । 'क्रीड (क्रीड) विहारे' (भ्वा.प.से.), भावे घञ् । ५ ललनं लीला । 'लल विलासे' (भ्वा.प.से.), भिदादित्वादङि निपात्यते । ६ नृणोति (नृणाति) विनयति नर्म, क्लीबे । 'नृ नये' (क्र्या.प.से.), '-मन् ' ( उणा - ५८४ ) इति मन् ॥५५५॥ ७ दीव्यति देवनम् । 'दिवु क्रीडादौ ' (दि.प.से.), ल्युट् । ८ कूर्धते कूर्दनम् । 'कूर्द क्रीडायाम् (भ्वा.आ.से.), ल्युट् । “कुर्दधातोर्ब्युटि 'र्वोरुपधायाः - '८।२७६ ॥ इति दीर्घः, 'स्फुर्ज' इति दीर्घानुच्चारणाद्धातो: 'व' इति विधेरनित्यत्वम्” [" ] इति पूर्णचन्द्रः । " अपरे तु दीर्घत्वमिच्छन्ति "["] इति ५० सुभूतिः । कुर्दनमित्येके । “दीर्घाभावस्तु चिन्त्यः ''[अम.क्षीर. २।६।३४॥]इति स्वामी ं। कोर्दनमित्येके । ९ खेल्यते खेला । 'खेलृ चलनगत्योः '(भ्वा.प.से.), 'गुरोश्च हल : '३ ॥३ ॥ १०३ ॥ इत्य: । १० लल्यते ललनम् । 'लल विलासे' (भ्वा.प.से.), ल्युट् । ११ वृणोत्यनेन वर्करः । 'वृञ् वरणे' (स्वा.उ.से.), 'शृणाते: करन् ' ( ) इति बाहुलाकादतोऽपि । एकादश क्रीडायाः । " क्रीडा खेला कूर्दनं च ' [ अम. १ ।७।३३ ॥ ] इत्येते त्रयः केलिपरिष्वङ्गकृते रूढा इत्यमरो भिनत्ति । 'कुस्ती' इति भाषा ।
१. शब्दप्रभेदे 'भग्नीं' इति दृश्यते ॥ २. 'पितृगोत्रकुला-' इति४ ॥ ३. 'नञि च नन्देः' इत्युणादिगणे ॥ ४. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्ले२८७, पृ.२६३॥, रामाश्रमी २६ ॥ २९ ॥ पृ. २७२ ॥ ५. 'कुल संस्त्याने बन्धुषु च' इति स्वामिसायणौ, 'कुल सन्ताने बन्धुषु च' इति मैत्रेयः ॥ ६. 'कुन्व क्रुन्च ('कुञ्च क्रुञ्च' इति सायणः ) कौटिल्याल्पीभावयो:' इति मैत्रेयसायणौ, 'कुन्च गतिकौटिल्याल्पीभावयो:' इति स्वामी ॥ ७. 'किल वैत्ये' इति सायणः ॥ ८. 'विनमयति' इति३ ॥ ९. दीर्घमध्योऽयं धातुः क्षीरतरङ्गिण्यादौ न दृश्यते ॥ १०. द्र. पदचन्द्रिका, भा-१, नाट्यवर्गः, -२०८, पृ. २४८ ॥ रामाश्रमी१।७।३३ ॥ पृ. १०८ ॥
For Private & Personal Use Only
४०
www.jainelibrary.org